________________
३१६
[कर्णिकासमन्विता उपदेशमाला । गाथा-१६१] पायं अभिन्नगंठीतमाउ तह दुक्करं पि कुव्वंता । बज्झ व्व ते ण साहू धंखाहरणेण णायव्वा ॥३॥ [पञ्चा./५३२ ] तेसिं बहुमाणेणं उम्मग्गणुमोयणा अणिट्ठफला ।
तम्हा तित्थगराणाठिए सुजुत्तोऽत्थ बहुमाणो" ॥४॥ [पञ्चा./५३३] आसां गाथानामयमर्थ:-ये केचन इह-मनुजलोके भवन्ति–स्युः सुपुरुषाः-उत्तमनराः, पुरुषग्रहणं नारीणामुपलक्षणं कृतज्ञका गुरुविहितोपकारविदः । न खलु-नैव ते उक्तस्वरूपा अवमन्यन्ते-अवगणयन्ति । केन हेतुनेत्याह कल्याणभाजनत्वेन-ऐहिकाभ्युदयपात्रत्वेन परलोकेऽपि स्वर्गापवर्गप्रापकत्वेन कं गुरुजनं ? धर्माचार्यम् उभयलोकहितं-लोकद्वयेऽपि उपकारकम् ।
यतोऽभ्यधायि महाकविभिः"निर्भाग्योऽपि जडोऽप्यनाकृतिरपि प्राज्ञोपहास्योऽपि वा, मूकोऽप्यप्रतिभोऽप्यसन्नपि जनाऽनादेयवाक्योऽपि हि ॥ पादास्पृश्यतमोऽपि सज्जनजनैर्नम्यः शिरोभिर्भवेत यत्पादद्वितयप्रसादनविधेस्तेभ्यो गुरुभ्यो नमः" ॥१॥[ ] इत्याद्यगाथार्थः ।
अन्वयमुक्त्वा गाथाद्वयेन गुरुकुलमोचकान् निन्दन् व्यतिरेकमाह-'जे उ तह' गाहा ॥ 'पायं' गाहा ॥ ये 15 तु-ये पुनः तथा-तस्मादुक्तप्रकाराद् विपर्यस्ता-विपरीताः कुपुरुषा अकृतज्ञा अकल्याणभाजनत्वेन
गुरुजनमवमन्यन्त इत्यर्थः ते न साधव इति योगः, कथं विपर्यस्ता इत्याह- सम्यग्-यथावत् गुरुलाघवंसारासारताविभागं गुरुकुलवासैकाकिविहारयोरिति गम्यम् । अजानन्तोऽनवबुध्यमानाः । अयमभिप्रायो यद्यपि ते गुरुकुलमनेकसाधुसङ्कीर्णतया सम्भवदनेषणा, परस्परस्नेहरोषादिदोषतया बहुदोषमेकाकित्वं चैतदोषाभावादल्पदोषं कल्पयन्ति । तथाऽप्येतन्न तेषां सम्यग्ज्ञानम्, आगमबाधितत्वात् । तथा स्वग्रहात्-स्वकीयाभि20 निवेशादागमापारतन्त्र्यादित्यर्थः क्रियारता-भिक्षाशुद्ध्यप्रतिकर्मता-प्रान्तोपधिताऽऽतापना-मासक्षपणाद्य
नुष्ठाननिरताः, तथा प्रवचनखिसावहाः-शासनाऽपभ्राजनहेतवः । अनागमिकत्वेन एकाकित्वेन च प्रवचनगुप्तिरक्षायामसमर्थत्वात् । तथा क्षुद्रा:-तुच्छाः, आत्मनि बहुमानात्, गुरुषु चाऽवज्ञापरत्वात्, कृपणा वा तथाविधजनावर्जनपरत्वात्, क्रूरा वा शेषसाधुषु पूजाविच्छेदाभिप्रायत्वात् । तथा प्रायो-बाहुल्येनाभिन्न
ग्रन्थयः-सकृदप्यनवाप्तसम्यग्दर्शनाः । अयमभिप्रायो-मिथ्यादृष्टयोऽपि ये भिन्नग्रन्थयस्ते नैवंविधाऽसमी25 क्षितकारिणो भवन्तीति । कथं तर्हि ते दुष्करतराणि तपांसि सेवन्त इत्याशङ्क्याह-तमसोऽज्ञानात् तथा
तत्प्रकारं मासक्षपणादि दुष्करमपि-प्रकृष्टमपि आस्तामदुष्करं कुर्वन्तो-विदधाना बाह्या इव-कुतीथिका इव न च-नैव ते गुर्वाज्ञाकारिणः साधवः-संयता विज्ञेया-ज्ञातव्याः जिनाज्ञोत्तीर्णत्वात् ।
इहैवार्थे दृष्टान्तान्तरमाह-ध्वाङ्क्षोदाहरणेन-काकज्ञान प्रयोगश्चाऽस्यैवं ये निर्गुणं वस्तु समाश्रिता न ते स्वार्थभाजो दृष्टाः, यथा मृगतृष्णासर: श्रायिणः काकाः, आश्रिताश्च निर्गुणं गच्छबहिर्भावं गच्छत्यागिन इति । 30 काकज्ञातं चैवम्
सुस्वादु शीतलं स्वच्छं पद्मरेणुसुगन्धि च । धारयन्ती जलं वापी काचिदासीन्मनोहरा ॥१॥ तस्यास्तटेऽभवत्काकास्तेषु चाल्पे पिपासिताः । अन्विच्छन्तोऽपि पानीयं नाऽऽश्रयन्ति स्म ते च ताम् ॥२॥
१. केपि - C।