SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १५८-१६१ ] प्रेरयेदुल्लङ्घयेत् एषणां गवेषणां ग्रहणग्रासगोचराम् आगमोक्तां मार्गणामेकः । प्रकीर्णप्रमदाजनात् इतस्ततो विक्षिप्तस्त्रीलोकात् सकाशात्, नित्यभयं एकस्येति गम्यम्, तासां चारित्रधनापहारित्वात् । अत्र व्यतिरेकमाहकर्तुमना अपि अकार्यं कर्मोदयान्न तरति न शक्नोति कर्तुं बहुमध्ये नियन्त्रितत्वादिति ॥ १५८॥ किञ्च उच्चारपासवणवंत-पित्तमुच्छाईमोहिओ इक्को । सद्दवभाणविहत्थो, निक्खिवइ व कुणइ उड्डाहं ॥ १५९ ॥ ३१५ उच्चारप्रश्रवणे प्रतीते, वान्तं वमनं, पित्तमूर्च्छा तापोद्रेकाद् भ्रमिः, आदिशब्दाद्वातविसूचिकादिग्रहः । एतैराकस्मिकैर्मोहितो विह्वलीकृत एकः सद्रवभाजनविहस्तः सपानकपात्रव्यग्रकरः सन् वाशब्दोऽत्र यद्यर्थे, यदि तद्भाजनं विह्वलीभूतो निक्षिपति त्यजति तदात्म-संयमविराधना । अथोच्चारादीनि तेन गृहीतेनाचरति, ततः करोत्युड्डाहं प्रवचनलाघवमिति ॥१५९॥ अपि च एगदिवसेण बहुया, सुहा य असुहा य जीवपरिणामा । इक्को असुहपरिणओ, चइज्ज आलंबणं लद्धुं ॥१६०॥ एकदिवसेन बहवः शुभाश्चाशुभाश्च जीवपरिणामा मनोविवर्त्ता भवन्तीति शेषः । ततः किमित्याहएकोऽसहायः सन् अशुभपरिणतः क्लिष्टाध्यवसितस्त्यजेदुज्झेत् संयममिति गम्यम्, आलम्बनं स्वमतिकल्पितमलीकं कारणं लब्ध्वा प्राप्येति ॥ १६० ॥ प्रसक्तानुप्रसङ्गेनाऽत्र बहुदोषतामाह - सव्वजिणपडिकुट्टं, अणवत्था थेरकप्पभेओ य । एक्को हु सुयात्तो वि, हणइ तवसंजमं अइरा ॥१६१ ॥ सर्वजिनप्रतिक्रुष्टं सर्वैः श्रीॠषभादितीर्थकरैः प्रतिषिद्धमेकाकित्वमिति गम्यम्, अनेन एको जिनाज्ञाभङ्गो दोषस्तथा अनवस्था द्वितीयो दोषः प्रमादबहुलत्वात् प्राणिनामपरेषामपि तथाप्रवृत्तेः । उक्तं चइक्केण कयमकज्जं करेति तप्पच्चया पुणो अन्नो । सायाबहुल परंपरवोच्छेओ संजमतवाणं ति ॥१॥ [] स्थविरकल्पभेदश्चाधिको दोष एवं हि अयः शलाकाकल्पतापत्तेः, चशब्दात् मिथ्यात्वविराधने अभ्यूह्ये। एको हुः सम्भावने सम्भाव्यते एतत् । स्वायुक्तोऽपि सुष्ठु अप्रमत्तोऽपि परस्य किं वाच्यं, हन्ति तपः प्रधान संयमस्तपःसंयमस्तम् अचिरात् शीघ्रमिति ॥ १६१॥ एतेन ये दुष्करकारकंमन्यतया, गच्छमाचार्यं चावगणय्य अतितरां स्वमत्या तपस्तप्यन्ते, ते तत्त्वतो यतय एव न भवन्तीत्युक्तम् । यदाह - कलिकालसर्वज्ञो भगवान् हरिभद्रसूरिः 1'जे इह होंति सुपुरिसा कयन्नुया न खलु तेऽवमन्नंति । कल्लाणभायणत्तेण गुरुयणं उभयलोगहियं ॥१॥ [ पञ्चा./५३० ] उ तह विवज्जत्था सम्मं गुरुलाघवं अयाणंता । सग्गाा किरियरया पवयणखिसावहा खुद्दा ॥२॥ [पञ्चा./५३१] १. प्राणा - C । २. पमाहिओ - A । ३. अप्यन्ये - CI टि. 1. पञ्चाशक- ११ गा. ३६, ३७, ३८, ३९ वृत्तिसहितः । 5 10 15 20 25 30
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy