SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 5 10 ३१४ [कर्णिकासमन्विता उपदेशमाला । गाथा-१५४-१५८] चिरोद्धरणखिन्नैकचरणत्वेन वारणः । पपात भुवि तृट्तापात् त्र्यहेन व्ययमाप च ॥५२॥ शशकारुण्यपुण्येन पुण्ये श्रीसङ्कले कुले । स भवानभवन्मेघ ! साध्यते सुकृतैर्न किम् ॥५३॥ दवत्रस्तपशूद्घट्टैस्तदा नाकम्पथा यथा । भवत्रस्तनृसङ्घट्टैस्तथा मा स्मेह कम्पथाः ॥५४॥ द्विपोऽपि राजपुत्रोऽभूर्यदेकशशकाऽभयात् । सर्वजीवाभयेनेह तत्पदं महदाप्स्यसि ॥५५॥ सर्वतोऽपि ज्वलत्येष भीमो भवदवानलः । नरकुञ्जर ! तन्मुञ्च मा स्थण्डिलमिव व्रतम् ॥५६॥ इति स्वामिगिरा मेघः स्थिरात्माऽजायत व्रते । मिथ्यादुष्कतमाधाय व्यधाच्च विविधं तपः ॥५७॥ स पालितव्रतः प्राप्तकालोऽभूद्विजये सुरः । ततश्च्युतो विदेहेषु देहमासाद्य सेत्स्यति ॥५८॥ इति मेघमुनिकथानकम् ॥ दुष्करश्च क्षुद्रसत्त्वैर्गच्छवासस्तथाहि अवरोप्परसंबाहं, सोक्खं तुच्छं सरीरपीडा य । सारण वारण चोयण, गुरुजणआयत्तया य गणे ॥१५५॥ परस्परसम्बाधा अन्योन्यसंघट्टनं सौख्यं तुच्छं न किञ्चिदित्यर्थः । शरीरपीडा च परीषहोदयस्याऽवश्यंभावित्वात् स्मारणवारणचोदना गुरुजनआयत्तता च गणे । स्मारणं-कर्त्तव्येषु अकृतेषु किमिति त्वयेदं न कृतमित्युपालम्भः । एवं वारणमकृत्येषु निषेधः । चोदना-उक्तमकुर्वाणेऽसकृत् खरमधुरवचनैः 15 प्रवर्तनम् । गुरुजनायत्तता-उच्छ्वासमन्तरेण गुरुमनापृच्छय न किञ्चिदपि कर्तुं प्राप्यते, गच्छे इति ॥१५५॥ कृतं तर्हि गणेन, एकाक्येव धर्मं कुर्यादितिमतिं प्रत्याचक्षाण इदमाह इक्कस्स कओ धम्मो ?, सच्छंदगईमईपयारस्स । किं वा करेउ इक्को ?, परिहरउ कहं अकज्जं वा ? ॥१५६॥ एकस्य कुतो धर्मः किं भूतस्य ? स्वच्छन्दगतिमतिप्रचारस्य स्वाभिप्रायेण गति-मत्योश्चेष्टा-बुद्ध्योः 20 प्रसरो यस्य स तथा । किं वा करोत्वेकः कृत्यमसहायत्वात् । परिहरतु कथमकार्यं वा उपायाभावादिति ॥१५६॥ अन्यच्च कत्तो सुत्तत्थागम-पडिपुच्छणचोयणा य इक्कस्स । विणओ वेयावच्चं, आराहणया य मरणंते ? ॥१५७॥ कुतः सूत्रार्थागमः सिद्धान्तार्थाधिगमः । प्रतिप्रच्छना अनधिगताधिगमार्थं पुनः प्रश्नः । चोदना 25 उत्तरपक्षाधिगमार्थं पूर्वपक्षः ताः कुतो एकस्य ? न कुतोऽपि एकाकितया तासां निर्गोचरत्वात् । अत एव विनयः पादप्रमार्जनदण्डकग्रहणादिः । वैयावत्त्यमौषधसम्पादनादि आराधना वा नमस्कारप्रत्याख्यानादिभावरूपा मरणान्ते न कुतोऽपीति सर्वत्र योज्यम् । वाशब्दाः सर्वत्र विकल्पार्था इति ॥१५७॥ तथा पिल्लिज्जेसणमिक्को, पइन्नपमयाजणाउ निच्चभयं । काउमणो वि अंकज्जं, न तरड़ काऊण बहुमज्झे ॥१५८॥ १. अकिच्चं - CI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy