________________
३१०
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] अथ सङ्गोप्य मूर्छान्ते निजं नीतो निकेतनम् । अभ्यङ्गस्नानभोज्याद्यैः पाल्यमानोऽभवन्नवः ॥७९५॥ अत्र चोपनयो योऽभूल्ललिताङ्गोऽतिकामुकः । अतृप्तः कामभोगेषु स संसारी शुचिस्मिते ! ॥७९६।। आपातमधुरो यस्तु परिणामे सुदुस्सहः । राजस्त्रीभोगतुल्योऽसौ विषयोत्थः सुखोदयः ॥७९७।। तत्कूपकल्पगर्भान्तर्वासिनः फेलकोपमैः । मातृभुक्तान्नपानाद्यैधिगेतस्य भुजिक्रियाम् ॥७९८॥ कूपादिव ततो गर्भावाहितस्याऽथ बाह्यतः । सूतिकासदने तस्य परिखोपमिता स्थितिः ॥७९९॥ धात्रिकोपमिता चाऽत्र सर्वोपग्रहकारिणी । सेयं परिणतिः पूर्वकर्मणां परिभाव्यताम् ॥८००॥ पुनः पुनर्नवीभूतं वीक्ष्य राज्ञी स्मरातुरा । अन्तराऽऽकारयेच्चत्तं तत्कि तस्यात्र युज्यते ॥८०१॥ अथोचुर्वनिताः सोऽयमल्पबुद्धिरपि प्रभो ! । स्मरन् विष्टाऽवटोद्भूतदुःखानां तत्करोति किम् ॥८०२॥
इति जम्बूकुमारस्य संवेगामृतनिभरैः । वचोभिर्विषयाकाङ्क्षातापस्तासां शमं ययौ ॥८०३।। 10 अथोत्तरङ्गवैराग्यरसार्टीभूतचेतसः । अष्टावपि समं जम्बूकुमारमिदमभ्यधुः ॥८०४॥
प्रमुखे सुखदैः स्वामिन् ! परिणामेऽतिदुःखदैः । इयत्कालं हहा कष्टं विषयैर्वञ्चिता वयम् ॥८०५॥ तत्तद्विवाहसम्बन्धादन्धातमसमज्जनात् । उद्धृताः स्मस्त्वया यद्वा श्रेयसे सङ्गतं सताम् ॥८०६॥ आश्रितस्तत्त्वया पन्थाश्रितोऽस्माभिरपि स्वयम् । सहैव तेन नेताऽसि त्वमस्मान् शिवपत्तनम् ॥८०७॥
उवाच प्रभवोप्युच्चैर्महासत्त्व ! भवद्गुणैः । कृष्टस्त्वामनुयास्यामि स्वकानापृच्छ्य निश्चितम् ।।८०८॥ 15 मा प्रमादीमहाभाग ! विवेकोचितमाचरेः । इत्युक्तो जम्बुना यातः प्रभवो भवनं निजम् ॥८०९॥
ज्ञात्वा जम्बूकुमारस्य सदारस्याऽपि निश्चयम् । श्वशुराः पितरौ चाऽऽसन् तमेवाऽनुयियासवः ॥८१०॥ अथ जम्बूकुमारोऽपि विधाय जिनपूजनम् । सङ्घ विधिवदभ्यर्च्य सन्मान्य स्वजनादिकान् ॥८११।। स्नानीयगन्धपानीयकृतमज्जनमङ्गलः । चन्दनेन सितध्यानेनेव सर्वाङ्गभासुरः ॥८१२॥ .
रत्नाभरणसम्भारैः सत्त्वसारैरिवाञ्चितः । असमैः कुसुमैः कामं यशोभिरिव शोभितः ॥८१३॥ 20 स्वभाग्याम्भोधिडिण्डीरपिण्डैरिव सितांशुकैः । दिव्यैः संवीतसर्वाङ्गः कर्पूरागरुधूपितैः ॥८१४॥
दानैरानन्दयन् दीनान् तूर्यैर्मुखरिताम्बरः । वाह्यां नरसहस्रेण शिबिकामधिरूढवान् ॥८१५॥ जननान्तरसौहार्दरसेन सहचारिणा । अनादृतेन देवेन कृतनिष्क्रमणोत्सवः ॥८१६।। प्रवेशिताभिराक्रम्य सैन्ये चारित्रभूभृतः । स्मरसेनासमानाभिः प्रियाभिस्ताभिरन्वितः ॥८१७।।
स्फूर्ज़ज्जयजयारावप्रतिध्वनितदिङ्मुखः । मङ्गल्यधवलध्वानाकृष्टपौरवधूजनः ॥८१८॥ 25 दुर्घटं घटयन् घण्टापथे पाणिंधमायितम् । मायूरच्छत्रखण्डेन मण्डलं तिरयन् रवेः ॥८१९॥
आलोक्यमानो लोकेन विस्मयालोलमौलिना । पौरीभिर्दीयमानाशीरक्षतक्षेपपूर्वकम् ॥८२०॥ बन्दिवृन्दमुखोद्दष्टः स्मरवीरजयोजितः । महामोहमहीपालमभिषेणयितुं ययौ ॥८२१॥ एकादशभिः कुलकम् ॥ सुधर्मस्वामिपादाब्जपावनं वनमीयिवान् । याप्ययानात्समुत्तीर्य प्रतिष्ठाचारमङ्गलः ॥८२२॥
टि. 1. ०अन्धातमसम् - गाढ: अन्धकारः । 2. पूर्वजन्म० ।