SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १५३ ] सत्यं स्वामिनि ! किं नाम तं युवानं समीहसे । युक्तं वा यन्मृणालिन्या रविरेव प्रियङ्करः ॥७६८॥ अथ लीलावती प्राह स्मरदाहातुराक्षरम् । हजे चतुरिकैवाऽसि यदिदं कौशलं तव ॥७६९ ॥ वशीकृताऽबलालोकं पुण्यपेशलया दृशा । कथञ्चित् तं स्मराकारं प्रीतये मम मेल ॥ ७७० || ज्ञात्वा कुतोऽपि तं सापि समुद्रप्रियनन्दनम् । ललिताङ्गमुपेत्यैवं व्याजहार चटूक्तिभिः ॥७७१ ॥ त्वया लीलावतीदेव्याश्चौर ! जह्रे मनः किल । गताश्रयस्तु तां हन्ति हन्त बाणैर्मनोभवः ॥७७२॥ त्वद्वियोगेऽभवत्तस्याः प्रावृट्कालस्तथाऽश्रुभिः । प्रयाणोन्मुखतां भेजे यथा हंसोऽतिबाधितः ॥ ७७३॥ अयं वियोगो दावाग्निर्न दीपकलिका पुनः । शान्ति याति न तन्मुग्धे ! किन्तु हन्तोपचीयते ॥७७४॥ इत्थं भवद्वियोगोत्थसन्तापोपशमाशया । वीजयन्तीं हसत्येषा मामहो कदलीदलैः ॥७७५॥ युग्मम् ॥ विशिष्टयोगतां तस्यास्त्वद्वियोगः किलाऽभजत् । भवन्मयमतः सर्वं सा पश्यत्यवनीतलम् ॥७७६॥ स्वयं तत्त्वमुपागत्य तापनिर्वापणं कुरु । युक्तं तु नाऽयशस्तस्या ग्रहीतुं तव सर्वथा ॥७७७॥ अथोचे ललिताङ्गोऽपि सङ्गोपितनिजाशयः । अयि क्वाऽहं वणिग्मात्रं सा क्व वा राजवल्लभा ॥७७८॥ प्रच्छन्नमपि कर्मैतत् कर्तुं किं नाम शक्यते । सुप्तस्याऽपि हरेर्दंष्ट्रां को वीक्षितुमपि क्षमः ॥ ७७९॥ साऽप्यूचे मा त्वया सौम्य ! । चिन्ताऽर्थेऽस्मिन् विधीयताम् । अस्मिन् संयोजनोपाये । विधिमूर्तिमवैहि माम् ॥७८०।। अथानुमतिमासाद्य सद्यः सा तस्य दूतिका । विज्ञा विज्ञपयामास राज्ञीं गत्वा यथातथम् ॥७८१ ॥ तद्योगकामा वामाक्षी यावदस्त्यन्यदा मुदा । पुरे तावदभूत्तत्र प्रमोदी कौमुदीमहः ॥७८२ ॥ स्वयं तदा मुदा द्रष्टुं शरत्कालभवां श्रियम् । आखेटकार्थं भूमिभृदलञ्चक्रे वनाऽवनिम् ॥७८३॥ तदा च राजवेश्मान्तर्विजनीभूतभूतले । साऽनङ्गप्रतिमाव्याजाल्ललिताङ्गमवीविशत् ॥७८४॥ सस्वजे सुचिरात् प्राप्य लीलावत्यथ तं तथा । यथा तेनैकतामाप चेतनेवात्मना समम् ॥७८५॥ कथञ्चिच्च विचारैककोविदाः सौविदास्तदा । निश्चितं कश्चिदप्यत्र प्रविवेशेति तेऽवेदन् ॥७८६॥ समाप्याखेटकं राज्ञे सम्प्राप्ताय तदाऽथ ते । ऊचुर्निशान्ते कोऽप्यस्तीत्यच्छलादानपूर्वकम् ॥७८७॥ स्वयं सशब्दपन्नद्धद्वयं हित्वाऽथ भूपतिः । चौरादप्यधिकं मन्दं मन्दमन्तःपुरेऽविशत् ॥७८८॥ तदा चतुरिका द्वारदत्तदृष्टिर्महीपतिम् । दृष्ट्वाऽऽयान्तं द्रुतं तत्र लीलावत्यै व्यजिज्ञपत् ॥७८९ ॥ स जालकपथेनाऽथ लीलावत्या तयापि च । क्षिप्तः पश्चात्प्रदेशस्थाशुचिकूपेऽपतत् कुधीः ॥७९०|| दौर्गन्ध्येनान्धलस्तत्र प्राच्यभुक्तं स्मरन् सुखम् । दध्यौ स नाऽतो निर्यातो भोक्ष्ये भोगानमून् पुनः ॥७९१॥ राज्ञीदास्यौ च कूपेऽस्मिन् प्रेम्णा चिक्षिपतुः सदा । फैलाऽन्ते याऽभवत्तस्य वृत्तिर्जीवनमात्रिका ॥७९२॥ सोथ प्रावृषि कूपोर्द्धगामिभिर्मलवारिभिः । प्रवाह्य बाह्यपरिखां नीतो वैप्रप्रणालकैः ॥७९३॥ क्षिप्तोऽथ परिखातीरे लोलकल्लोललीलया । दैवादागतया प्राप्तो धात्र्या देवतयेव सः ॥ ७९४॥ १. पुष्प - H, A, C, L । २. वादिन: - D, K विदन् - B टि. 1. पन्नद्धद्वयं उपानहौ। 2. फेला (स्त्री) अवशिष्टं अन्नम् । 3. वप्रस्य जलमार्गैः । ३०९ 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy