________________
३०७
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३]
अचीकथत् कथाः पौरान् वारंवारेण सोऽन्वहम् । स च कस्यचिदन्येधुर्वारकोऽभूद् द्विजन्मनः ॥७१५॥ दुष्कर्मजन्मनां मौर्घ्यदारिद्र्यव्यसनापदाम् । क्रमागत इवावासः स द्विजोऽचिन्तयत्तदा ॥७१६।। रसना रसनायैव मम धिग् वेधसा कृता । आयसीव कुशीस्तब्धा स्वनामग्रहणेऽपि या ॥७१७॥ ब्रुवे यदि न जानेऽहमिति तद् दुष्टभूपतिः । प्रवेशयति कारायां दुर्गाहग्रहिलो हि माम् ॥७१८॥ चिन्ताहेतुं दुहित्रा स कुमार्या भाषितोऽब्रवीत् । साऽप्यूचे तात ! मा कार्षीश्चिन्तासन्तापितं मनः ॥७१९॥ 5 वारे तव मया तात ! कथनीया कथानिका । इत्युक्त्वा सा शुचिर्वेषं वासोभिर्विशदैर्व्यधात् ॥७२०॥ गत्वा नृपान्तिकं दत्त्वा जयेत्याशिषमाह सा । कथां शृणु यदि श्रीमन् ! कथाकौतूहली भवान् ॥७२१॥ दक्षो निक्षोभतां वीक्ष्य तादृक्षीं क्षितिवल्लभः । मेने तद्वचनस्यैव कथातः कौतुकं महत् ॥७२२॥ साऽप्याचख्यौ पुरेऽत्रैव नागशर्मास्ति माणवः । सोमश्रियामभूत् पत्न्यां नागश्रीस्तस्य नन्दिनी ॥७२३॥ कस्मैचित् द्विजचट्टाय दत्त्वा तां पितरौ स्वयम् । कार्येणौद्वाहिकेनैव जग्मतुर्नगरान्तरम् ।।७२४॥ 10 एकाकिन्यां गृहे तस्यां स चट्टः सायमागमत् । तया श्रियोऽनुसारेण चक्रे भोज्यादिरौचिती ॥७२५॥ सतूलीकं च पल्यत निजालयमहाधनम् । शयनायाऽर्पयित्वाऽस्मै चिन्तयामास सा कनी ॥७२६॥ महीमहीनामहिभिर्जानेऽस्ति च न मञ्चकः । शयनं तत् क्व मे भूमौ वर्यं पर्यङ्कवज्जितम् ॥७२७॥ शये पर्यङ्कपर्यन्तेऽत्रैव तावन्निशामिमाम् । कोऽपि नो पश्यति ध्वान्तैर्यदन्धंकरणौषधैः ॥७२८॥ इति सुष्वाप सा तत्र निर्विकारैव बालिका । तदङ्गसङ्गे शृङ्गारसङ्कटे स द्विजोऽपतत् ॥७२९॥
15 लज्जाक्षोभादिसंरुद्धमनःशूलाकुलीकृतैः । प्राणैः स तत्यजे चट्टो वचनीयभयादिव ॥७३०॥ अचिन्तयत्ततः साऽपि पापिन्या धिगसौ मम । एकत्रस्वापपापद्ररिहाऽपि सफलोऽभवत ॥७३१॥ विभावरी विभात्येषा यावत्तावदमुं द्विजम् । निक्षिपामि क्षितेरन्तर्यथा जानाति कोऽपि न ॥७३२॥ इत्यसौ खण्डशोऽकार्षीत् तूर्णं तस्य कलेवरम् । न्यधान्निधानवद् गरौं खनित्वा च स्वयं स्यात् ॥७३३॥ गर्तं ततस्तमापूर्य लिप्त्वाऽसौ गोमयद्रवैः । पुष्पैर्गन्धैश्च धूपैश्च वासयामास तां रसाम् ॥७३४॥ 20 पितरौ चागतौ तस्या गृहीत्वौद्वाहिकं विधिम् । अतीतस्तु कथाकालः श्रीमंस्त्वत्पुरतोऽधुना ॥७३५॥ कथं द्रक्ष्याम्यहं तामित्युक्ते राज्ञा जगाद सा । स्वामिन्नहं सा संसारनाटिकानटने नटी ॥७३६॥ कुमारि ! तदिदं सत्यं यदत्र कथितं त्वया । पृष्टेति सा पुनर्वाचमुवाच नृपति प्रति ॥७३७॥ याः कथास्त्वं पुराऽश्रौषीस्तथ्यास्ता भूपते ! यथा । तथेयमपि तथ्यास्तु चित्रहेत्वविशेषतः ॥७३८॥ एवं विप्लावितः मापस्तया नागश्रिया यथा । तथा त्वमपि किं नाथ ! विप्लावयसि कल्पितैः ॥७३९॥ 25 कल्याणसलिलाधारकम्बुना जम्बुना ततः । समगद्यत सद्यस्कहारहूरानिभं वचः ॥७४०॥ सन्तु दन्तुरितानन्दाः कथास्तन्वि ! तथाविधाः । असावस्तु विचारस्तु प्रमाणं यस्त्वया कृतः ॥७४१।।
टि. 1. कनी-दुहिता, कन्या । 2. अहिभि: अहीनां संकीर्णां महीं जाने इति अन्वयः। 3. हारहूरा - द्राक्षा।