________________
३०६
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १५३] ततः सत्यतया मित्रं यदि त्वमसि तत्प्रभो ! । कथमप्यन्यथाकारमितो देशान्तरं कुरु ॥ ६८९॥ अन्यथा मद्गृहे स्वामिन् ! यदि त्वामागतं नृपः । प्रातर्ज्ञास्यति तद्यन्त्रे मत्कुलं पीडयिष्यति ॥ ६९०॥ इत्युक्ते तेन स गच्छन्नरेश्वरपुरोहितः । अन्ववर्त्ति स्वयं किञ्चिद् दाक्षिण्यादागृहाङ्गणम् ॥६९१॥ तद्गृहान्निःसृतो गच्छन्नचिन्तयदयं स्वयम् । अहो मे मन्दभाग्यस्य न किञ्चित्त्राणकारणम् ॥६९२॥ तावेवैतौ स एवाहं जातौ किमधुनेदृशौ । आ ज्ञातमथवा नास्ति प्रसादो जगतीभुजः ||६९३॥ न मे कुत्रापि कोप्यस्ति किमभ्रात् पतितोऽस्म्यहम् । आसीन्मम ययोरास्था तयोश्चर्येयमीदृशी ॥६९४॥ अहो मे निर्विवेकत्वं यन्नीतौ मित्रतामिमौ । यौ मयि क्षीणदाक्षिण्यावित्थं दुर्व्यसनातुरे ॥६९५ ॥ तृतीयस्यापि पश्यामि सुहृदः सौहृदक्रमम् । पश्चान्न हि मनो येन क्षणोति तदवीक्षणम् ॥६९६॥ इति निश्चित्य चित्तेन तदगारमगादसौ । सच्चक्रशक्रः सच्चक्रे सोऽप्यमुं गृहमागतम् ॥६९७॥ 10 अब्रवीच्च कथं दुस्था तवावस्थेयमीदृशी । मन्दं मन्दमिदानीं च किमागमनकारणम् ॥६९८॥
5
15
20
25
अथास्य कथयामास विप्रो वृत्तान्तमात्मनः । मित्रद्वयविमुक्तस्य परित्राणार्थितां च ताम् ॥६९९॥ परं पुरा मया किञ्चिन्न तवोपकृतं तथा । इत्यात्मनोऽतितुच्छत्वं मन्दागमनकारणम् ॥७००॥ सोप्यवोचत मित्राहं समीहे त्वन्न किञ्चन । सद्भूतभक्तिग्राह्योऽस्मि तत्राभून्यूनता न ते ॥७०१ ॥ तद् भद्र ! मा स्म कार्षीस्त्वं शङ्कातङ्कातुरं मनः । मयि त्रातरि मित्रेऽस्मिन् कुतस्त्यं भूभुजो भयम् ॥७०२ ॥
इत्थं वाक्सुधया दत्त्वा स्वस्ति सौवस्तिकं प्रति । सुगुणी प्रगुणीचक्रे रथं जवनवाजिनम् ॥७०३॥ दो: स्तम्भे बिभ्रता तेन मित्रेणासदृशं बलम् । शम्बलं च रथे तस्मिन्नारोप्यत पुरोहितः ॥७०४|| राज्यान्तरमथो नीत्वा समुपस्थाय पार्थिवम् । तेनासौ लम्भितः कीर्त्तेरास्पदं सुखसम्पदम् ॥७०५॥ त्रयाणामपि मित्राणां स स्वभावं विभावयन् । प्रणाममित्रमद्राक्षीत् प्राणेभ्योप्यतिवल्लभम् ॥७०६॥ दृष्टान्तोपनयश्चायं योऽत्र भूपः प्रकीर्तितः । स कर्मपरिणामोऽस्य सोऽयं जीवः पुरोहितः ॥७०७|| सहजं मित्रमेतस्य शरीरं परिभाव्यताम् । तत्कर्मनृपतेः कोपे जीवेन सह न व्रजेत् ॥७०८ ॥ ज्ञातिप्रभृतयः सर्वे पर्वमित्रस्य सन्निभाः । श्मशानस्थानपर्यन्तमनुयान्तीह देहिनाम् ॥७०९ || प्रणाममित्रतुल्यस्तु धर्मोऽयमवगम्यताम् । जन्मान्तरेऽपि यो जीवं गच्छन्तमनुगच्छति ॥७१०॥ जीवस्य च परत्राऽपि श्रियं यच्छति वाञ्छितम् । ज्ञाति - देहौ विहायाऽहं तत्तमाराद्भुमुद्यतः ॥७११॥ अथ मन्मथवीरस्य मूर्त्तयेव जयश्रिया । जयश्रिया प्रभुः प्रोचे शौचेनाञ्चितमानसः ॥७१२॥ इत्थं मोहयते नाथ ! नाग श्रीवत्तवानृतैः । नागः श्रीमन्किमत्युग्रं मानसं साधु बाधते ॥७१३|| नगरे नगरेकारकारिप्राकारचारुणि । रमणीयाभिधे राजा जज्ञे किल कथाप्रियः ॥ ७१४ ||
१. संपदां - A, B । २. नागि: B, नागिला - A, नाग D, H
टि. 1. सज्जनानां समूहे शक्र इव । 2. सौवस्तिकः - पुरोहितः, तम् । 3. नगः पर्वतः तस्य रे-कारं तिरस्कारं तत्कारिप्राकारेणउत्तुङ्गेन - इत्यर्थः ।