SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३०५ 5 [कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] स्वकीयजन्मसाफल्यश्रियो मुखमिवामलम् । विलोक्य कूर्मस्तं पर्वशर्वरीशममोदत ॥६६३॥ आलोकयतु मे लोकः सर्वस्तदिदमद्भुतम् । इति वात्सल्यतोऽगच्छत् कच्छपः पयसस्तलम् ॥६६४॥ कूर्मः समानयत् यावत् कुलं तद्दर्शनाकुलम् । तावत्तच्छिद्रमाच्छादि पुनः शेवालजालकैः ॥६६५॥ भ्रामं भ्रामं जले चक्षुश्चिक्षेपोर्ट्स स कच्छपः । शेवालजटिले तत्र न तु पूर्णेन्दुमैक्षत ॥६६६॥ तदैनं प्राप्य सूरीन्दुं कूर्मवन्न त्यजाम्यहम् । कुतोऽस्य दर्शनं भूयो मोहच्छन्ने भवावटे ॥६६७॥ असौ कनकवत्याह मत्या हसितवाक्पतिः । पतिं प्रति कृतिन् ! मा भूस्त्वं मासाहसपक्षिवत् ॥६६८॥ कश्चित् व्रश्चितुमेधांसि भीषणामटवीमटन् । उन्मुद्रितमुखं तृप्तं सुप्तं हर्यक्षमैक्षत ॥६६९॥ प्रविशंस्तन्मुखे पक्षी मा साहसमिति ब्रुवन् । तेन पुंसा निषिद्धोऽपि नाऽस्थात्तन्मांसलिप्सया ॥६७०॥ सिंहेनाऽथ प्रबुद्धेन स प्रविशन् मुखान्तरे । उच्चैश्चपेटापातेन हतो हस्तिविघातिना ॥६७१॥ भार्याभिर्वार्यमाणोऽपि स इव त्वमपि स्फटम । पश्चात्तापास्पदं भावी तदिदं मा कथा वथा ॥६७२॥ अथ जम्बू वचः प्राह शुचिपाहतकल्मषम् । अशर्मभाजनं सोमशर्मेव न भवाम्यहम् ॥६॥३॥ पत्तनं पाटलीपुत्रमित्यस्ति क्षितिमण्डनम् । शौर्यवज्रायुधस्तत्र राजा वज्रायुधोऽभवत् ॥६७४॥ आसीत् पुरोहितस्तस्य राज्यव्यापारभारभृत् । प्रख्यातः सोमशर्मेति शर्मश्रीकेलिमन्दिरम् ॥६७५।। एकः सखा सुखाधारः सहमित्राभिधोऽन्वहम् । बद्धः प्रेमगुणेनेव तेन सञ्चरते सह ॥६७६॥ पर्वण्येव सखाऽभ्येति पर्वमित्राऽभिधोऽपरः । तं प्रति श्रीनिधि प्रातः सरोजमिव षट्पदः ॥६७७॥ प्रणाममित्रनामान्यः सखा तेन कदाचन । आपतन्प्रतिपच्चन्द्र इवाग्रे नम्यते स्म सः ॥६७८॥ अन्वहं सहितस्तेन सहमित्रेण स स्फुरन् । पुर्याः पुरोहितस्तस्याश्चक्षुःश्रियमशिश्रियत् ॥६७९॥ कथञ्चित्कुपितं भूपं सम्यग् विज्ञाय सोऽन्यदा । सदनं सहमित्रस्य ययौ निशि पुरोहितः ॥६८०॥ तदनुद्घाटितद्वारं बहि:स्थित्वा कृतारवः । स भृङ्ग इव तन्मित्रसद्म पद्ममिवाऽमुचत् ॥६८१॥ परोधाः पर्वमित्रस्य ततो धाम जगाम सः । विकस्वरमुखं शैलनिकुञ्जमिव कुञ्जरः ॥६८२॥ अभ्युत्थानमथाधत्त तस्याऽयं संमदी सुहृत् । आयाताऽऽयात मद्गेहमद्य पूतमिति ब्रुवन् ॥६८३॥ पुरोहितोऽथ पर्यङ्के तन्निर्दिष्टे निविष्टवान् । पुरस्थं तं प्रति प्राह प्रौढप्रीतिधुरन्धरः ॥६८४॥ क्रुद्धः कृतान्तरूपोऽयं भूपः सम्प्रति मां प्रति । यदि नश्यामि नेदानीं तन्मां निर्दलयत्ययम् ॥६८५।। तदशेषं विहाय त्वं सहायत्वं मम व्रज । गमिष्यामि विदेशेऽपि प्राणत्राणपरायणः ॥६८६॥ निशम्येदं तदा पर्वमित्रेणोक्तं त्रुटन्मुदा । यदि ते मम देहेन गेहेन विभवेन च ॥६८७॥ भवेदत्र परित्राणं ददामि तदिदं मुदा । परं राजविरुद्धेऽर्थे किं कुर्वेऽहं कुटुम्बवान् ॥६८८।। युग्मम् ॥ 15 20 25 १. वाक्पति - KH, L, C वाक्पति - D, B, K । २. दृप्तं - C, A, L । ३. किल्बिषं - K, DI ४. अमर्श - KH | ५. प्रीति - A, प्रीत: - L, प्रीतं - B। ६. नश्यते ।। टि. 1. ऊर्ध्वं इत्यर्थः । 2. हर्यक्षः - सिंहः।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy