________________
३०४
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] असौ पुरि तमालिन्यां मालिन्याऽङ्गीकृतस्ततः । सिषेवे वणिजांनाथं विनयी विनयन्धरम् ॥६४१॥ गतेऽस्मिन् दिवसैः कैश्चित् शिखिदग्धालयो वणिक् । स जनैः पुण्यवान् मेने जीवन्निःसृतमानुषः ॥६४२॥ तत्खिन्नः पुण्यहीनोऽयं बोहित्थमधिरूढवान् । धनावहेन वणिजा मणिजालजुषा समम् ॥६४३॥ प्रवीर ईव बोहित्थः प्रत्यर्थिपृतना इव । वीचीविदारयन्नब्धेः परं पारं स यातवान् ॥६४४॥ अथोपाय॑ धनं भूरि चलितोऽसौ. धनावहः । सहैव पुण्यहीनेन धनोपार्जनशालिना ॥६४५॥ अमज्जत्तज्जले सिन्धोरन्तः प्रवहणं ततः । तत्रापि फलकं प्राप्य पुण्यहीनस्तु निर्ययौ ॥६४६।। पुण्यहीनोऽम्बुधि ती| संसारं शमवानिव । अवापदटवीं काञ्चित्कस्तूरीपत्रवद्भुवः ॥६४७॥ अथो चरन्नरण्यान्तः संददर्श मुदास्पदम् । विस्मितो वेश्म यक्षस्य वनीधम्मिलसन्निभम् ॥६४८॥ स तमाराधयामास यक्षमक्षोभमानसः । आत्माऽऽहतै लैः पुष्पैः फलैश्चाद्भुतभक्तिभाक् ॥६४९॥ अथ तुष्टोऽवदद्यक्षः पुण्यहीनं प्रति द्रुतम् । मम हेममयः केकी पुरो नर्तितुमेष्यति ॥६५०॥ पिच्छं गच्छन्नसावेकं केकी यन्मुञ्चति स्वयम् । ग्राह्यं तद्भवता नित्यं चामीकरमयं रयात् ॥६५१॥ यक्षस्येति वचः श्रुत्वा प्रीतस्तत्र स तस्थिवान् । प्रनृत्य गच्छतो हैमं पिच्छं गृह्णाति केकिनः ॥६५२॥ एकदा तेन मूर्खेण गच्छन् हैमः शिखी धृतः । एककालमशेषाणि पिच्छान्यादातुमिच्छता ॥६५३॥ तत्पाणिस्पर्शमात्रेण केकी काकीबभूव सः । पिच्छान्यग्रे गृहीतानि काकपिच्छानि चाऽभवन् ॥६५४॥ आत्मानमथ निभाय॑मन्वशोचदसौ तदा । तुल्यकालं ददद् दृग्भ्यां जलं लक्ष्म्यै सुखाय च ॥६५५।। ततः स इव मूर्खत्वं वृथा त्वमपि मा कृथाः । आश्रमादिक्रमज्ञोऽपि किमज्ञ इव वर्त्तसे ॥६५६॥ तारुण्येऽपि व्रतग्राही कदापि विकृताशयः । पूर्वोपाज्जितपुण्यानामपि नाशाय जायसे ॥६५७।। अथाऽवादि सुधावादि वचस्तां प्रति जम्बुना । न भवामि मनस्तापैकमठ: कमठो यथा ॥६५८॥
भूधरो विन्ध्यनामास्ति यत्र स्पर्धात्परस्परम् । वियदुर्वीजुषः कुर्युगज्जि पर्जन्यदन्तिनः ॥६५९॥ 20 कादम्बिन्यटवी तस्य तटेऽभूत् कामिनीनिभा । गम्भीरोऽस्यां बभौ नाभीरूप: कूपश्च कश्चन ॥६६०॥
भूरिशेवालजालेन तत्र छन्नमुखाम्भसि । कूपेऽन्तः कोटिशोऽभूवन् जीवाः क्षीवा जलोद्भवाः ॥६६१।। कदाचिद्वातसञ्जातशैवलच्छिद्रवर्त्मना । कूर्मः कूपगतः कश्चिदिन्दुं शारदमैक्षत ॥६६२॥
१. जीवन्नमृतमानुषः L, C । २. धनवाहेन - A, KH | ३. इति - KH, इता - B | ४. मान् - K। ५. हेमशिखी - A,CI टि. 1. प्रवीर:-पराक्रमी । 2. अथो - ओकारान्तः अव्ययः । 3. इतः श्लोकचतुष्टयं A, L, H एतेषु त्रिषु आदर्शेष्वेव दृष्टम् -
सरोवरं पयःपूर्ण तस्मिन्विस्मयकारकम् । पुष्करान्तरसंचारिराजहंसं विराजते ॥ समुद्र इव गम्भीरे तस्य नीरे निरन्तरम् । उवास कमठः कश्चित् पुत्रपौत्रादिभिः सह ।। शैवालपटलं तस्य सरसः पवमानतः । कदाचिदाचितमपि विरलत्वमवाप च ।।
तदन्तरे च पूर्णेन्दुस्तदानीं शुशुभेतराम् । विलोक्य कर्मस्तं पर्वशर्वरीशममोदत ॥ • पवमानः - वायुः तस्मात् । * शर्वरीश: चन्द्रः तम् । 4. विन्ध्याद्रेः।