SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] इति प्रतिज्ञां स प्राशंमन्यः कृत्वा नृपाज्ञया । श्राद्धत्वारम्भदम्भेन प्रचचाल घनैर्धनैः ॥६१४॥ श्रीवसन्तपुरे तत्र गत्वा श्रावकतत्त्ववित् । वक्रेच्छो रचयाञ्चक्रे स चैत्यपरिपाटिकाम् ॥६१५॥ स श्रद्धावानिव श्राद्धसद्मसु छद्मसुस्थितः । जिनार्चाऽभ्यर्चनं कुर्वन् जिनदासगृहं गतः ॥६१६॥ तन्वानस्तीर्थनाथस्य पूजामथ यथाविधि । स्वावासे जिनदासेन सानन्देनाभिनन्दितः ॥६१७॥ अथ भक्तिपथन्यस्तमनाः सन्मानतो नतः । तं साधर्मिकवात्सल्याज्जिनदासोऽवदन्मुदा ॥६१८॥ अद्याऽनवद्यजैनेन्द्रधर्मसम्बन्धबान्धवः । भोजनेन विधेहि त्वं मम धाम्नि पवित्रताम् ॥६१९॥ विनते जिनदासेऽस्मिन्निति भक्त्या वदत्यपि । अनिच्छन्निव तस्थौ स कार्य पूर्णमिति स्मरन् ॥६२०॥ अथाऽसौ गाढमभ्यर्थ्य भोजितो भक्तिपूर्वकम् । स्वावासे जिनदासेन निशायामपि वासितः ॥६२१॥ केनाऽपि सुहृदा श्रेष्ठी जिनदासोऽप्यनीनयत् । महोत्सवजुषा सौधे निजे स्थापयितुं निशाम् ॥६२२॥ असावथ निशीथिन्यामुत्थितः कूटधार्मिकः । आशु तं वाहमारुह्य निःससार त्वरातुरः ॥६२३॥ सोऽन्यतः प्रेर्यमाणोऽपि जगाम सरसीं हयः । पीत्वाम्बु वलितः प्राप्तो यत्राऽऽस्ते जिनमन्दिरम् ॥६२४॥ प्रदक्षिणात्रयं तत्र दत्त्वा पुनरगाद्गृहम् । अत्यर्थं नुद्यमानोऽपि स वाजी नान्यतो ययौ ॥६२५॥ ततो विभातशेषायां विभावाँ भयैकभूः । मुक्त्वा वाहवरं धूर्त्तश्चपलः स पलायितः ॥६२६॥ अथाखिलनिशावाहखिन्नो वाहशिरोमणिः । विवेश मन्दुरामिन्दुः प्रत्यग्गिरिगुहामिव ॥६२७॥ अथ प्रातः समायातः स मायातरुपावकः । जिनदासो निजं धाम धामनाथ इवाम्बरम् ॥६२८॥ अथ पृष्टो निशावृत्तं वृत्तान्तं वाजिनो जनैः । तद्भीतो मन्दुरां गत्वा श्रेष्ठी हृष्टोऽश्ववीक्षणात् ॥६२९।। वाजिनं तमगन्तारमगं तारमयं यथा । सोल्लासमर्चयामास जिनदासः प्रमोदवान् ॥६३०॥ रत्नत्रयत्रिमार्गी तद्भवादृक्प्रेरितोऽत्यजन् । अहं पूज्यो भविष्यामि महतां स हयो यथा ॥६३१॥ कनकश्रीरथ प्राह स्वामिन्नित्यातुरः स्फुरन् । पुण्यहीन इव प्रौढपुण्योऽपि परितप्यसे ॥६३२॥ हंसाभवैजयन्तीभिर्धीजयन्ती नभोनदीम् । जयन्ती स्व:पुरीमस्ति जयन्तीति पुरी श्रुता ॥६३३॥ धनदत्तोत्सवस्तत्र धनदत्तो महावणिक् । आसीद्वसुमतीसाहचर्यवर्यगृहस्थितिः ॥६३४॥ एकदा बिभरामास गर्भे वसुमती सुतम् । दोषाकरं दिगैन्द्रीव सवितुर्व्ययकारकम् ॥६३५॥ जातमात्रे पुनस्तत्र प्रदोषे तमसांपदे । गृहस्य गगनस्येव क्षीणो भास्वद्वसुव्रजः ॥६३६॥ जातेऽष्टवर्षमात्रेऽस्मिन् माता मृत्युमवाप सा । पुण्यहीन इति ख्याति तल्लोके गतवानयम् ॥६३७॥ तदन्यसद्मसु स्वैरं कर्म निर्माय जीवति । मत्वेति स गृहे निन्ये मातुलेनाऽतुलेच्छया ॥६३८॥ मातुलस्याऽऽगते तस्मिन् गृहं कतिपयैदिनैः । मुष्टं चौरैर्निशि प्रत्तखातकृष्टधनोच्चयैः ॥६३९॥ अथ तं प्रथते लोको निर्भाग्यैकशिरोमणिम् । तन्निर्वेदनिधिः सोऽपि ययौ देशान्तरं प्रति ॥६४०॥ १. वदन्नपि - D, K, KH | २. अनिच्छन्नपि - D, K, KH | ३. वाहं - D, K, KHI टि. 1. अगं पर्वतं तारमयं-मेरुम् । 2. प्रत्त:-दत्तः । 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy