________________
5
३०२
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] ऊचे जम्बूकुमारोऽथ समारोपितनिश्चयः । उत्पथप्रस्थितिं कुर्वे नैवाहं वाजिराजवत् ॥५८८॥ श्रीवशंवदसौन्दर्यं श्रीवसन्तपुरं पुरम् । अस्ति क्षितिवधूहारतारप्राकारभासुरम् ॥५८९॥ जितशत्रुनृपस्तत्र सुत्रामप्रतिमः श्रिया । आसीद्दोःस्तम्भदम्भोलिलोलिताखिलभूमिभृत् ॥५९०॥ लसन्यशःकुमारस्य यदीयस्य विसर्पतः । बभौ नभ:पथोत्सङ्गे शशी सहचरश्चिरम् ।।५९१॥ अन्यदा स नृपोऽवादीद् वाहरत्नपरीक्षकान् । सर्वोत्कृष्टोऽस्ति मे वाजी राज्ये कोऽपीति कथ्यताम् ॥५९२॥ अथ ते गदिते राज्ञा हयविद्याविदो हयम् । चकृषुः सैन्यतो वार्धेरिन्द्रवाहमिवामराः ॥५९३॥ भूपाय दर्शयामासुर्दर्शनीयममुं हयम् । ते पूर्णलक्षणं भानुरथाकृष्टमिवाष्टमम् ॥५९४॥ किञ्च विज्ञपयाञ्चक्रुस्ते महीशक्रमक्रमात् । वाहोऽयं यस्य राज्ये स्यान्न स जेयः परैरिति ॥५९५।।
तदसौ वसुधाहार ! सुधाहारहयोपमः । रक्षणीयः प्रयत्नेन सम्पूर्णाऽष्टाङ्गलक्षणः ॥५९६॥ ___ इत्याकर्ण्य गिरं तेषां सविशेष मुदं वहन् । किञ्चिद्विचिन्तयामास हयन्यासकृते नृपः ॥५९७॥
निश्चिकाय नृपो योग्यं जिनदासं वणिग्वरम् । भाति यद्यशसः शैलनाथः प्राथमकल्पिकः ॥५९८।। असावगर्हगार्हस्थव्रतमाणिक्यवारिधेः । धर्मैकध्यानधन्यस्य तस्य न्यासाय कल्पते ॥५९९।। इत्यालोच्य तमाकार्य कार्याकार्यविवेककृत् । तं न्यासमर्पयामास मेदिनीवासवो हयम् ॥६००॥
अपितः स नरेन्द्रेण समुद्रेणेव चन्द्रमाः । जगृहे जिनदासेन नभसेव महीयसा ॥६०१॥ 15
जिनदासोऽद्भुततमं तमङ्गीकृत्य वाजिनम् । निशान्तमाप तेजस्वी निशाऽन्तमिव भास्करः ॥६०२॥ तच्चारुचतुरङ्गाय तुरङ्गाय व्यधाद्वणिग् । ईन्दिरामन्दिरायाऽस्मै मन्दुरां मन्दिरान्तरे ॥६०३॥ श्वेतस्यास्य हयस्याधः क्षिप्ता कोमलवालुका । प्राप्ता दीप्तिजितेवासौ सेवार्थं चन्द्रगोलिका ॥६०४॥ समग्रभुवनस्यापि श्रीवशीकारकारणम् । श्रीजिनं वाजिनं वाऽयमेकं ध्यायति धीरधीः ॥६०५॥
यथा यथा हयो वृद्धि स प्रयाति तथा तथा । खुरैर्नृपविपद्वल्लिमूलानि खनति ध्रुवम् ॥६०६।। 20 सह स्वराज्यसम्पत्त्या विपक्षविपदा समम् । सर्वाङ्गाणि तुरङ्गोऽयं तुङ्गच्छविरवीवृधत् ॥६०७॥
निनाय नीरपानाय हयनायकमन्वहम् । स श्रेष्ठी स्वयमारुह्य रक्षादक्षः सरोवरे ॥६०८॥ वलमानोऽन्तरातीर्थनाथं वाहस्थितस्ततः । त्रिः स प्रदक्षिणीकृत्य नत्वाऽभ्येति निकेतनम् ॥६०९॥ निजावास-जिनावास-जलावासपथत्रयम् । मुक्त्वा हयो न जानाति मार्गमन्यं पुरान्तरे ॥६१०॥
अथाऽरिपृथिवीनाथाश्चेतस्येतदचिन्तयन् । कुतोऽस्य वर्द्धते राज्यमस्माकं क्षीयते पुनः ॥६११॥ 25 अथाऽकथ्यत सर्वेषां तेषां गूढतरैश्चरैः । वाहरत्नस्य माहात्म्यं तस्य तेजोमयाकृतेः ॥६१२॥
पृथ्वीनाथस्य कस्याऽपि मन्त्री प्राह ससाहसः । तं वाहमहमानेष्ये न चिराच्चौर्यचर्यया ॥६१३॥
१. कुमारोस्य - B, A| २. भूनाथस्याथ - C, D, PI
टि. 1. महीशक्रं अक्रमात् - न क्रमः गति: अक्रमः स्थिरभावेन इत्यर्थः । 2. सुधाहारः इन्द्रः तस्य हयः तस्य उपमा यस्य । 3. प्राथमकल्पिक: शिष्यः । 4. निशान्तं - गृहम् । 5. इन्दिरा - लक्ष्मीः ।