________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा-१५३]
३०१ अथ कच्छाभपुच्छौ तौ क्षुरीकाराविव क्षणात् । ऊौं पाश्चात्यपादाभ्यामङ्गं विविशतुर्मिथः ॥५६२॥ जवेनाऽथ जरन् दूरागतिखिन्नः कपीश्वरः । यूना स्त्रीदृष्टिपुष्टेन निर्भग्नस्त्रासमासदत् ॥५६३॥ श्रान्तो युद्धाद्भयाद् भ्रान्तस्तृष्णाक्रान्तः क्वचित् कपिः । जलस्य जलधीर्जानन्नाऽऽलोकत शिलाजतु ॥५६४॥ शिलाजतुनि स क्षिप्त्वा मुखं सलिलकाङ्क्षया । उद्धर्तुमक्षमः पाणी मूर्खः प्राणकृतेऽक्षिपत् ॥५६५।। तावत्तावपि तत्रैव विलग्नौ वज्रलेपवत् । तदुद्धारधिया मूर्खः पश्चात् पादौ न्ययुक्त तत् ॥५६६॥ लग्नौ तावपि तत्रैव सतृष्णस्य क्रमौ हरेः । तेन कीलितसर्वाङ्ग इव मृत्युमवाप सः ॥५६७॥ तदक्षिप्तपदः पूर्वमाकृषेद्वदनं स चेत् । अवश्यं तस्य तन्न स्याद् दुर्मतेर्मृत्युरीदृशः ॥५६८॥ भवादृशां वचस्तृष्णाप्रेरितोऽहमपि भ्रमात् । सजामि रागगैरेये गौराङ्गि ! कपिवन्न हि ॥५६९॥ नभःसेनाथ वक्ति स्म व्यक्तं लोभेन भूयसा । नाथ ! यास्यसि निर्बुद्धिस्त्वं बुद्धिस्त्रीव हास्यताम् ।।५७०॥ ग्रामः सस्यश्रियां धाम नन्दिग्राम इति श्रुतः । अस्ति विस्तीर्णकेदारसङ्कीर्णीभूतभूतलः ॥५७१॥ 10 तत्र सिद्धिश्च बुद्धिश्च प्रसिद्ध वृद्धयोषितौ । अभूतां स्फारदारिद्र्यमन्दिरे सख्यसोदरे ॥५७२॥ ग्रामेऽत्र भोलिगो नाम यक्षो विख्यातवैभवः । वित्तस्याऽभूत्प्रभूतस्य दाता सेवाधने जने ॥५७३।। सिद्धिराराधयामास ततस्तं भक्तिभासुरा । दीनारद्वितयं तुष्टो ददौ तस्यै स चान्वहम् ॥५७४॥ अभुङ्क्त काष्ठपात्रे या सा भुङ्क्ते हेमभाजने । दास्यं व्यधत्त याऽन्येषां तस्या दास्योऽभवन् गृहे ॥५७५।। कुटीरे याऽवसद् भग्ने सौधे वसति साऽनिशम् । दधौ या चीवरं जीर्णं दुकूलैः साऽऽनुकूल्यते ॥५७६॥ 15 इत्थमालोक्य तां बुद्धिः सिद्धि सिद्धोरुवैभवाम् । प्रीत्या रहसि पप्रच्छ साकूतं कौतुकादिति ॥५७७॥ विशेषकम् ॥ कुलक्रमागतः स्वामी दारिद्रयं तावदावयोः । कुतो विभवपाथोधिजलदेवीव वर्त्तसे ॥५७८॥ अथ सा कथयामास तुष्टो यक्षः स भोलिगः । दीनारद्वितयं दत्ते सम्पन्नेत्राभमन्वहम् ॥५७९॥ इति तस्या निशम्याऽसौ वाचं निश्चित्य चेतसि । तमाराद्धवती यक्षं बुद्धिर्भक्तिभरोत्तरा ॥५८०॥ तुष्टो जगाद यक्षोऽथ किमु त्वं याचसीति ताम् । द्विगुणं सिद्धितो देयं ममेत्येषाऽवदन्मुदा ॥५८१॥ 20 ददौ यक्षोऽन्वहं तस्यै दीनारांश्चतुरस्ततः । अथ सा प्रथते बुद्धिरपि सिद्धिरिवान्वहम् ॥५८२॥ बुद्धेः सिद्धिमिमां ज्ञात्वा सिद्ध्याराद्धः पुनर्ददौ । ततोऽपि द्विगुणं यक्षः सेवाकृत्कल्पपादपः ॥५८३॥ आराद्धस्तत्पुनर्बुद्ध्या यक्षः प्रत्यक्षतां गतः । द्विगुणं कल्पयामास प्रत्यहं सिद्धिऋद्धितः ॥५८४॥ सिद्ध्याराद्धः पुनर्यक्षः किं करोमीत्यभाषत । तत्प्रार्थितोऽथ वामाक्ष्णा काणीकृत्य तिरोऽभवत् ॥५८५॥ बुद्ध्याऽथ पुनराराध्य सिद्धेर्द्विगुणमर्थितः । यक्षो बुद्धिमथाऽबुद्धिमन्धीकृत्य तिरोदधे ॥५८६॥ 25 तद्वत्त्वमपि तन्नाथ ! ऋद्धि प्राप्याऽपि दुर्लभाम् । अनुत्तरां श्रियं वाञ्छन्नपाये निपतिष्यसि ॥५८७॥
१. जानिन्न - K, D र्जानेन्ना - L, जानन्ना - B, A । २. नालोकंते - L, नलोकत - K, D। ३. शिलाजतु: KH, L, B, A, HI ४. पूरितो - BI५. भूतरतस्य - B भूतरभूतस्य - H भूरितरस्य C। ६. नेवाभवन्हं - D, Kत्तेवायमन्वहं - Lनेवाभमन्वहं - BI
टि. 1. गैरेयं - शिलाजतु, तस्मिन् । 2. सम्पदः नेत्रः नायकः, तस्य आभा इव आभा यस्य तद् दिनारद्वितयम् ।