________________
३००
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] तेन तत्रान्तरे क्षेत्रान्तरे मालाग्रवर्तिना । कम्बुरम्बुधरध्वानवाद्यवाद्यत हेलया ॥५३६॥ तदाकर्ण्य तदा कम्बुशब्दितं ते मलिम्लुचाः । त्यक्त्वाऽऽशु गोधनं नेशुः प्राप्तारक्षकशङ्कया ॥५३७।। तत्तस्य गोधनप्राप्तिपुण्याकर्षणमन्त्रताम् । ततान कम्बुनिःस्वानगौरवं चौरवञ्चकम् ॥५३८॥ विभातायां विभावर्यां चर्यां कुर्वन् स गोधनम् । वीक्ष्य नि:शेषमादाय दातुं ग्रामाय चाऽगमत् ॥५३९॥ अथ ग्रामस्य कामं स पूरयन् भूरिगोधनैः । दत्तैस्तथा यथा दुस्थो ययौ धनदयक्षताम् ॥५४०॥ अन्यदाऽपि निशीथिन्या निशीथे गोधनाशया । क्षेत्रमालाधिरूढोऽसौ शङ्ख धमति धैर्यवान् ॥५४१॥ त एव तस्करास्तत्र निशीथेऽन्येधुराययुः । हृताद्भुतधना धैर्यजितकीनाशकिङ्कराः ॥५४२॥ दध्मौ शङ्ख क्षणेऽमुष्मिन् सोऽपि क्षेत्रस्य रक्षकः । आह्वातुमिव दुर्बुद्धिः दूरादापदमात्मनः ॥५४३।।
आकर्ण्यते तदा कम्बोः शब्दमब्दविजित्वरम् । किमेतदिति संरब्धाश्चौराश्चिरमचिन्तयन् ॥५४४॥ 10 अत्रैव शङ्खशब्दोऽभूत् पुराऽपि प्रापितज्वरः । भयादकस्मादस्माकमाकस्मिकविकस्वरः ॥५४५।।
नरः शङ्केऽस्ति केदाररक्षकः शङ्खवादकः । भ्रमिताः स्मः पुरा स्पष्टं कष्टं तेन दुरात्मना ॥५४६॥ इति निश्चित्य ते चौराः शङ्खस्वनमनूद्यताः । स शङ्खधमको यत्र तत्र क्षेत्रान्तरे ययुः ॥५४७॥ मुष्टिभिस्ताडयित्वा तं भक्त्वा शङ्ख च सक्रुधः । हत्वा च तद्धनं मञ्जु चौरास्ते जग्मुरुन्मुदः ॥५४८।। प्रभूते सति वित्तेऽस्मिन्नधिकाधिकवाञ्छया । स इव त्वं विदग्धोऽपि भव माऽऽस्पदमापदः ॥५४९॥ अथ जम्बूः स तामाह सतामाहतविप्लवः । स्यामहं किमु मूर्खत्वान्मुमूर्षुः स कपिर्यथा ॥५५०॥ अस्ति हस्तिकुलोत्खातै रत्नैरेवाम्बुवाहितैः । रत्नाकरीकृताम्भोधिविन्ध्यो नाम धराधरः ॥५५१॥ अनेकमुनिमाहात्म्याददाहात्मकतां गतः । तद्वनान्तर्दव इवाभूत्कोऽपि कपियूथपः ॥५५२॥ उद्भूतरुचिसम्भारास्तारा इव निशाकरः । कामं कामयते सर्वाः स एकः कपिकामिनीः ॥५५३॥
कपिः कोऽप्यंसलंमन्यः कदाचिन्मदनातुरः । वञ्चयित्वाऽधिपं रेमे तत्प्रियाभिर्यथेप्सितम् ॥५५४|| 20 तं युवानं बलिष्ठं च वीक्ष्य शाखामृगस्त्रियः । जरत्कपिरतोद्विग्ना दधुर्मुदमुदित्वरीम् ॥५५५॥
सममेष परीरम्भसम्भ्रमेण कपिस्त्रियः । कामकोपवशात्कम्पसम्पदा पदमादधौ ॥५५६॥ एताश्च नखदन्तादिमृदुकण्डूयनादिकम् । रचयामासुरन्योन्यं रहो गलितचेतनम् ॥५५७॥ अथ यूथपतिर्दूरादेतदालोक्य दुस्सहम् । अधावत्तारबूत्कारं लहरीजित्वरत्वरः ॥५५८॥
युवा कपिरपि प्रेक्ष्य तं समायान्तमभ्यगात् । जवाज्जितं तु चेतोऽपि मुक्त्वा स्त्रीमध्य एव सः ॥५५९॥ 25 गृहीतगृहिणीकोपसाटोपहृदयं तदा । स तं वालीव सुग्रीवमुग्रक्रोधमयोधयत् ॥५६०॥
परस्परपरिक्षिप्तप्रतीष्टग्रावगोलकैः । तौ घ्नन्तौ वनदेवीनामाश्चर्यं चक्रतुश्चिरम् ॥५६१।।
१. दुःखं ददौ - KH, D। २. रुन्मदः - A, B, KH, D, H रुन्मदी: - C । ३. जम्बू - A, K, KH, B | ४. मेव - K, HI ५. पूत्कारं - A, B, H बूत्कार - C।
टि. 1. सतां प्रापितदुःखः इत्यर्थः । 2. अंसलः - बलवान् । 3. क्रियाविशेषणमिदम् ।