________________
२९९
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३ ]
भूखण्डमण्डने गत्वा साधयावः क्वचित्पुरे । देवतामिति निश्चित्य तौ वसन्तपुरं गतौ ॥५१०॥ स्थित्वा चण्डालवेषेण तत्र चण्डालपाटके । एतौ चण्डालमुख्यानां चक्रतुः सेवनक्रियाम् ॥५११॥ ततस्तैः सेवया प्रीतैरेतौ सम्भाषितौ मिथः । कस्याऽङ्गजौ ? कुतः प्राप्तौ ? किमारम्भौ युवामिति ॥५१२॥ तावूचतुरिति म्लेच्छराजपुत्राविहागतौ । साकेतपुरवास्तव्यावावां पित्रा निराकृतौ ॥५१३।। तदावाभ्यामिहागत्य यूयमेव निषेविताः । विना सत्प्रभुसेवाभिः क्व पूर्यन्ते मनोरथाः ॥५१४॥ इति श्रुत्वा तयोर्वाचं तदा चण्डालशेखराः । ते बभूवुर्मुदामोदमन्दिरं मेदुरप्रभाः ॥५१५॥ तदानन्दमयैरेभिस्तावेतौ परिणायितौ । स्वाजन्याय स्वपुत्रीभ्यां लताभ्यामिव भूरुहौ ॥५१६॥ ब्रह्मचर्येण रोचिष्णुरथ मेघरथः कृती । वसंस्तत्रैव वर्षेण तां विद्यां वशमानयत् ॥५१७॥ विद्युन्माली तु चण्डाली तामकामयताऽधमः । साऽपि गर्भं दधौ तस्य स्थिरीकरणकार्मणम् ॥५१८॥ असिद्धमथ सिद्धस्तमाह मेघरथस्तदा । किमकारि त्वया मूढ ! मग्नोऽसि म्लेच्छताम्बुधौ ॥५१९॥ इत्याकर्ण्य त्रपामग्नो विद्युन्माली जगाद तम् । एकवारं सदाचार ! क्षम्यतां विप्लवो मम ॥५२०॥ इदानीं साधयिष्यामि विद्यां निजितमन्मथः । वाच्यः प्रीतिप्रकर्षेण वर्षेणाऽहं त्वया पुनः ॥५२१॥ एवमस्तु गदित्वेति स्फुरद्विद्यापदच्छदः । धीमान् पक्षीव वृक्षाग्रमारुरोह नभस्तलम् ॥५२२॥ समान्ते स समायातः समायातं पुनः कृती । बन्धुप्रेमगुणाऽऽकृष्टो म्लेच्छं मेघरथोऽग्रजः ॥५२३॥ अग्रे तावदसौ विद्युन्माली बालं करे धरन् । पुनर्गर्भितचण्डालीशाली तेन विलोकितः ॥५२४॥ 15 सोऽपि मेघरथं वीक्ष्य त्रपयाऽभूदधोमुखः । रसातलप्रवेशाय द्रष्टुं रन्ध्रमिवावनौ ॥५२५॥ उक्तो मेघरथेनाऽथ बन्धो ! बन्धोऽयमेतया । कुतः शटितया रज्ज्वा गजस्येवाऽभवत् तव ॥५२६॥ अथाधोमुख एवेदं विद्युन्माली जगाद तम् । बन्धो ! विद्याऽमुनाऽब्देन साधयिष्याम्यहं पुनः ॥५२७॥ निशम्येति गतः सोऽपि यावद्वर्षत्रयं पुनः । एहिरेयाहिरां चक्रे मग्नो मोहे तु सोऽधमः ॥५२८॥ दःखदावाग्निदाहाय नाऽहं मोहाटवीतरुः । तन्वि! तद्वद्भविष्यामि स्त्रीलताजालवेष्टितः ॥५२९॥
20 गिरं कनकसेनाऽथ सुधानाथभवामिव । अभ्यधाद् धारिणीपुत्रं प्रति प्रतिकृती रतेः ॥५३०॥ शास्त्रव्यापारपारीणो धुरीणो बुद्धिशालिनाम् । एष्यस्यनुशयं नाथ ! त्वं शङ्खधमको यथा ॥५३१॥ शालिग्राम इति ग्रामः ख्यातः मातलभूषणम् । लोलश्रीकेलिशैलाभकणकूटोऽस्ति विस्तृतः ॥५३२।। कौटुम्बकस्य कस्याऽपि तत्रैकः क्षेत्ररक्षकः । प्रेष्योऽजनि ध्वनत्कम्बुनादत्रासितभक्षकः ॥५३३॥ एकदायमुपादाय पाणौ शङ्ख निशामुखे । दूरे जगाम ग्रामस्य क्षेत्ररक्षणदक्षिणः ॥५३४॥
25 निशीथसमये हृत्वा कुतोऽप्यतिघनं धनम् । तत्क्षेत्रस्य समीपेन चौराः केचित्तदाऽव्रजन् ॥५३५॥
१. मंडले - KH | २. पदेच्छया - A परिच्छद: C पदःच्छदः KH |
टि. 1. स्वजनस्य भावः स्वाजन्यः, तस्मै । 2. समा - वर्षः तस्य अन्तः पर्यवसानः, तस्मिन् । 3. म्लेच्छानां मध्ये समायातं एकीभूतं इत्यर्थः ।