________________
[ कणिकासमन्विता उपदेशमाला । गाथा - १५३] स्वपतित्यागिनीं न त्वां स्वप्नेऽपि स्पृहयाम्यहम् । तामित्युक्त्वा नदीं तीर्त्वा तस्करः स तिरोदधे ॥४८३॥ साऽपि किं करवाणीतिवाणिनी मूढमानसा । एकं जम्बुकमद्राक्षीन्मांसखण्डजुषं मुखे ||४८४|| जिघृक्षुः स तिमिं सिन्धोरैम्बुकच्छेऽथ जम्बुकः । मांसखण्डं पुरो मुक्त्वाऽधावद्यावदयं रयात् ॥४८५॥ तावदम्बुनि मग्नेऽस्मिन्मत्स्ये विचलितस्तदा । चक्रन्द जम्बुको दुःखी शकुन्या पिशिते हृते ||४८६॥ युग्मम् ॥ तं तथास्थितमालोक्य गतदुःखेव साऽहसत् । प्रौढान्यपि हि दुःखानि विस्मार्यन्तेऽतिकौतुकैः ||४८७|| हसन्तीमसतीमेतां व्यक्तमूचे स जम्बुकः । मां किं मांस- तिमिभ्रष्टं नग्ने ! हससि निस्त्रपे ! ||४८८ भ्रष्टां जाराच्च चौराच्च किं नात्मानं हसस्यहो । मूढो ह्यद्रौ ज्वलत्पश्येन्न पुनः पादयोरधः ||४८९|| जल्पाके जम्बुकेऽमुष्मिन्निति वृत्तं नृभाषया । चिन्तयामास सा यावदाविष्कृतचमत्कृतिः ॥ ४९०॥ स दिव्यपुरुषो भूत्वा भूरिभूषणभूषितः । जगाद सादरं वाचं भूयस्तां तावदुच्चकैः ॥४९१॥ युग्मम् ॥ निजं जानीहि मां पूर्णहिमांशुमुखि ! कामुकम् । अहं स हंसगमने ! शिखारत्नं निषादिनाम् ॥४९२॥ त्वामादाय गते चौरे चौरबुद्ध्याऽथ रक्षकैः । अहं दुःखलतामूलशूलायामधिरोपितः ॥४९३॥ जिनदासं तदासन्नचरं वीक्ष्य वणिग्वरम् । आर्तोऽयाचं पयः पातुं पयोदमिव चातकः ॥ ४९४ ।। नमोऽर्हद्भ्य इति न्यस्य मन्त्रं मयि तदाऽऽतुरे । पानीयाय जगामाऽयमन्तर्ग्रामं वणिग्वरः ॥ ४९५॥ अथ शूलास्थितस्तेन मन्त्रेण मुखरस्तदा । जातोऽहं केतकीपत्रप्राग्रजाग्रद्द्द्विरेफवत् ॥४९६॥ आरक्षाऽनुज्ञया श्रेष्ठी पयः पाययितुं मया । दृष्टो हृष्टेन मातेव वेगादागामुकस्तदा ॥४९७|| अपीतेनाऽपि तृप्तोऽहं पयसा दृक्पथस्पृशा । स्मरन्नतितरां मन्त्रं प्राणैर्मुक्तोऽस्मि तत्क्षणात् ॥४९८॥ तन्मन्त्रध्यानमाहात्म्यात् भूत्वाऽहं ज्ञानवान् सुरः । तव मोहव्यपोहाय व्यधां फैरण्डताण्डवम् ॥४९९॥ जैनं भज ततो धर्ममनुं त्वमपि भामिनि ! । नैव स्वर्गापवर्ग श्रीर्यत्प्रसादाद्दुरासदा ॥ ५०० ॥ चन्द्रचारूणि चीराणि परिधाप्य प्रबोध्य ताम् । अथाऽयमानयत् क्वापि पत्तने व्रतिनीमठे ॥ ५०१ || 20 इत्यसौ बोधिता तेन रविणेव सरोजिनी । दधौ हृदि तदा साधुधर्मं हंसमिवोज्ज्वलम् ॥५०२॥
तत् त्वं सा कम्बुकण्ठीव स जम्बुक इवापि च । मा स्म भूरुभयभ्रष्टो मुक्त्यर्थं मुक्तवैभवः ॥५०३॥ श्रीमान् जम्बूरथोचे तां स्त्रीचेतांसि प्रबोधयन् । विद्युन्मालीव नैवाहं मोहे मज्जामि भामिनि ! ||५०४ ॥ अस्ति संततसञ्चारिताराविश्रामभूमिका । नभस्तम्बेरमस्तम्भो वैताढ्य इति भूधरः ॥५०५॥ तस्याऽवनिस्तनस्येव मूनि काश्मीरपत्रवत् । पुरमस्ति मणिस्तोममयं गगनवल्लभम् ॥५०६॥ 25 तत्र विद्याधरौ विद्युन्मालि- मेघरथाभिधौ । वैताढ्य श्रीमुखस्यास्य नगरस्य दृशाविव ॥ ५०७ ॥ अथ साधयितुं विद्यां मातङ्गीनामविश्रुताम् । मन्त्रयामासतुर्विद्याधरौ प्रीतिधुरन्धुरौ ||५०८ || चण्डालकन्यामुद्वाह्य तद्गृहे विहितास्पदैः । विद्या वर्षाऽवधिब्रह्मचर्यादेषा हि साध्यते ॥५०९ ॥
5
10
15
२९८
-
१. कस्थोऽथ - A । २. राज्याच्च - C । ३. सोदरो A, सादरी C । ४. दागान्मुदा ... L । टि. 1. अम्बुकच्छ - पुलिनम्, जलप्रदेशो वा तस्मिन् । 2. फेरण्डः - जम्बुकः । 3. स्तम्बेरमः - हस्ती ।