________________
२९५
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३]
सहोपपतिना सुप्ता गुप्ताऽसौ विपिनान्तरे । ध्यात्वेति त्वत्पिता मन्ये चकर्ष मम नूपुरम् ॥४०३॥ तत्साक्षादेव भाषस्व पितरं हितरञ्जकः । कलङ्क मत्कुले प्रातरयमानेष्यतेऽन्यथा ॥४०४॥ निशम्येति गिरं देवदिन्न: कान्तामवोचत । शीलैकसज्जे ! लज्जेऽहमिदानीमेव तं ब्रुवन् ॥४०५॥ वक्ष्ये प्रातस्त्वितिस्पष्टसन्धाकर्तरि भर्तरि । असौ सुष्वाप निस्तापा पटुः कपटनाटके ॥४०६।। देवदिन्नोऽथ कोपेन पावकेनेव संज्वलन् । प्रिययोत्थापितः प्रातः प्रयातः पितरं प्रति ॥४०७॥ मयैव सह सुप्ताया वधूट्या नूपुरं हृतम् । भ्रान्तेन भवता यत्तदर्ग्यतामित्यवोचत ॥४०८॥ युग्मम् ॥ सुतं तमितिवक्तारमाह स्वर्णकृदग्रणी: । त्वां वीक्ष्य सुप्तमत्रैतत् पांशुलाया हृतं मया ॥४०९॥ अथेति श्वशुरेणोक्ते दुर्गिला साऽऽह साहसात् । भुज्यते प्रविधाय स्वं निष्कलङ्कं कुलं किल ॥४१०॥ अथो सुवर्णकारेण कुटुम्बं मेलितं निजम् । स्वजना दुर्गिलायाश्च समाहूताः समन्ततः ॥४११॥ असत्यं हन्ति पादाधश्चारिणं यः क्षणाज्जनम् । यक्षस्य तस्य ते चैत्ये जग्मुर्दुर्गिलया समम् ॥४१२॥ 10 स्नात्वा पवित्रगात्रा सा यावच्चैत्याय गच्छति । तावद् ग्रहिलतादम्भाज्जारेणाऽऽलिङ्गिताऽग्रतः ॥४१३॥ धिग् धिग्मा मा स्पृश त्वं मां वदन्तीत्यथ दुर्गिला । तस्माद्विमोचिता पार्श्ववर्तिभिः स्नपिता पुनः ॥४१४॥ अथ चैत्यान्तरे गत्वा यक्षं संपूज्य च स्वयम् । सा भालकुड्मलीभूतपाणिपद्मा व्यजिज्ञपत् ॥४१५॥ मुक्त्वा करग्रहीतारं ग्रहिलं च नरो यदि । कोऽपि लग्नो मदङ्गे तद्देव ! कार्याऽस्मि भस्मसात् ॥४१६॥ इत्यूचुषी तदा यक्षे संशयारूढचेतसि । अधश्चरणयोरेषा निःससार धियांनिधिः ॥४१७॥
15 शुद्धा शुद्धेति वाचस्तत्तालास्फालनगर्भिताः । उल्लासिता जनशतै रुरुधुर्गगनाङ्गणम् ॥४१८॥ स्वयं दृष्टान्यपार्श्वस्थस्नुषासंशुद्धिचिन्तया । तदादि देवदत्तस्य निद्रा नाऽऽयादहर्निशम् ॥४१९।। दिनैः कतिपयैर्मत्वा विनिद्रं तं पुराधिपः । निजस्यान्तःपुरस्यान्तश्चकार किल यामिकम् ॥४२०।। सुप्तो जागर्ति वा सोऽयमित्युत्थाय मुहुर्मुहुः । राज्ञीमेकां स पश्यन्ती ज्ञात्वा सुप्तोऽथ कैतवात् ॥४२१॥ सत्यसुप्तममुं ज्ञात्वा राज्ञी जालकनिर्गता । अधस्तात् हस्तिना निन्ये भूतलं तलवर्तिना ॥४२२॥ 20 अथ हस्तिपकेनाऽसौ कुपितेन चिरागता । हस्तिहिञ्जीरघातेन निजघ्ने जघने घनम् ॥४२३॥ जाग्रद्यामिकवृत्तान्तकथनेन प्रसेदुषा । तेन सा ध्वस्तकोपेन समं चिक्रीड निर्भरम् ॥४२४॥ तूर्णं गवाक्षमारुह्य स्वर्णकारोऽपि कौतुकी । सविस्मयस्तयोस्तानि चरितानि व्यलोकयत् ॥४२५॥ तं हस्तिपकमालिङ्ग्य प्रत्यूषसमयेऽथ सा । राज्ञी करिकरेणैव प्रस्थिता प्रति जालकम् ॥४२६।। स्वस्थाने स्वर्णकारोऽपि समागत्याऽऽशु सुप्तवान् । वासवेश्मनि सुष्वाप साऽपि क्षितिपवल्लभा ॥४२७॥ 25 हृदि दध्यावथ स्वर्णकारस्तच्चरितस्मितः । के वयं यन्नरेन्द्राणामप्यसौ विप्लवप्लवः ॥४२८॥ इति निर्वृतिमासाद्य सद्यो निद्रां प्रियामिव । भेजे चिरतरप्राप्तिगाढाश्लेषपरामसौ ॥४२९॥
१. न्यदा - KH । २. वध्वाः - KH | ३. गृहीतारं - K, D, B, KH, LI ४. दृष्ट्वा - C। ५. सत्यं - H, B। ६. चिरागतां - K। टि. 1. पांशुला-व्यभिचारिणी। 2. जघनम् - नितम्बः ।