________________
२९०
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १५३ ] अथ तस्य गुदद्वारे विशद्वारिविदारिते । निःससाराऽहिदष्टस्य चिराज्जीव इव द्विकः ॥२७०॥ आशु निःसृत्य संसृत्य वपुस्तस्य द्विपस्य सः । दिक्षु काको वराकोऽथ साक्षेपं चक्षुरक्षिपत् ॥ २७१ ॥ अयं तोयमयं विश्वं पश्यन्नश्यंश्चतुर्दिशम् । पुनर्व्यावृत्त्य तत्रैव तस्थौ करिकलेवरे ॥२७२॥
अथ वारिभरापूर्णे मग्ने करिणि मग्नवान् । द्विकः सोऽपि तदाधारः स्वामिनीवानुजीवकः ॥२७३॥ काकवत् करिणः काये स्त्रीनिकायेऽनुरागवान् । कथं नाम निमज्जामि सोऽहं मोहेऽम्बुधाविव ॥ २७४ ॥ अथाऽभाषिष्ट निश्छद्मश्रीः पद्मश्रीरदस्तदा । न वा नरवर ! प्रज्ञा वानरस्येव तस्य ते ॥ २७५॥ जातख्याति क्षितावस्ति हस्तिनागपुरं पुरम् । चन्द्राश्मकलशैर्यत्र स्वयंभुपयसः प्रपाः ॥२७६॥ तत्रारिकेशरी नाम क्षोणिसुश्रोणिवल्लभः । यद्यशोभिरशोभिष्ट विष्टपं नित्यचन्द्रिकम् ॥२७७॥ अनेकदासभूपालैरेकदा सहितो नृपः । मृगव्यायां जगामायमात्तनीलनिचोलकः ॥२७८॥ वीरैः सह सहस्रेण स विवेश वनाद् वनम् । घनाद् घनं निशानाथ इव ताराभरैः समम् ॥२७९॥ वर्षत्सु शरधाराभिर्वरिषु जलदेष्विव । निकुञ्जपुञ्जगेहेषु निलीनं वनचारिभिः ॥ २८०॥ गर्वात्तथा स्थिरीभूताः सिंहास्तद्दत्तदृष्टयः । यथा मृगैर्भयोत्तालैर्दत्तफालैर्ललङ्घिरे ॥२८१॥ अथाऽयं पृथिवीनाथो मृगनाथोद्गतश्रमः । अवाप तापच्छेदाय जाह्नवीं स्वयशःसखीम् ॥२८२॥ जाह्नवीतीरकान्तारे तद्वीरैः स्वैरचारिभिः । नानाविधसुधाहृद्यविद्यमानफलोत्सुकैः ॥२८३॥
अदर्शि कामिनी काऽपि पुष्पभूषणभूषिता । प्रत्यक्षा वनदेवीव वनश्रीरिव जङ्गमा ॥२८४|| युग्मम् ॥ अथादाय नरेन्द्राय ताममी काममूर्त्तये । अदर्शयन् वनाम्भोधिलब्धां श्रियमिव स्त्रियम् ॥२८५॥ एतां सुरनदीसेवाफलमाकलयन्नृपः । आदाय कुन्ददायाददशनामविशत् पुरम् ॥२८६॥ सपत्नीं रत्नगर्भाया रत्नगर्भितभूषणाम् । पुण्यपण्यपरिक्रीतस्तां वितेने नरेश्वरः ॥२८७॥ अपरेद्युः पुमान् कश्चिद् इदं पुरमरञ्जयत् । अनार्त्तं नर्त्तयन्नेकं वानरं नरजित्वरम् ॥२८८॥ 20 अथ भूपाय केनाऽपि तदकथ्यत कौतुकम् । सोऽपि चाऽऽकारयाञ्चक्रे तं नरं धृतवानरम् ॥२८९॥ तां प्रियां स्वर्वधूबद्धस्पर्द्धामर्धासनस्थिताम् । कुर्वन्नुर्वीपतिर्भेजे सम्मदैकास्पदं सदः ॥ २९० ॥ अनीनृतत्ततः सोऽपि नरस्तं वानरं पुरः । तूर्याणि वादयन् दिक्षु जिघृक्षुर्जनमानसम् ॥२९१॥ न वानरो नरीनर्त्ति ताप्यमानमनाः पुनः । नृपप्रियामुखाम्भोजन्यस्तदृष्टिस्तु रोदिति ॥ २९२॥ विलक्षे भिक्षुकेऽथास्मिन् सा राज्ञी वानरं जगौ । अये ! मया निषिद्धस्त्वं तदा किमकृथास्तथा ॥२९३॥ 25 कृतक्षोभेण लोभेन लम्भितोऽसीदृशीं दशाम् । हृताखिलकलाशोभोऽतिलोभो हि न शोभनः ॥ २९४ ॥ बोधयित्वा तदात्मानं मानं वानर ! मा कुरु । यो यथा वर्त्तते कालस्तं तथैवानुवर्त्तय ॥ २९५ ॥ इति प्रबोधितो देव्या नृत्यन्नत्यद्भुतं तदा । निर्व्याजं रञ्जयामास वानरः स नरेश्वरम् ॥२९६॥
टि. 1. क्षोणिः-पृथ्वी सैव शोभना श्रेणि: कटी यस्याः सुश्रोणिः स्त्री तस्याः वल्लभः नृपः इत्यर्थः । 2. निचोलकः - वर्म ।
5
10
15