________________
२८९
5
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३]
अथ धान्योत्करे तस्मिन् प्राच्यपुण्य इवोद्गते । अकुण्ठस्वजनोत्कण्ठो दूरं ग्रामं जगाम सः ॥२४३॥ जहषुः कर्षके तत्र दृष्टेऽपि स्वजनास्ततः । घनाघन इवौत्सुक्यप्रचलाः प्रचलाकिनः ॥२४४॥ तं नमश्चक्रिरे केऽपि केपि तेन च नीचकैः । गृहं तदा तदीयं तत्तोषैकार्णवतां गतम् ॥२४५॥ अथो पृथुगुडस्पष्टस्वादुमण्डकमण्डलीम् । सोऽभुक्तपूर्वां पूर्णेन्दुमण्डलीमिव भोजितः ॥२४६॥ सहर्षः कषुकोऽवादीत्ततस्तान् स्वजनान्निजान् । सुधाऽपि सा मुधा तत्र यत्रैते गुडमण्डकाः ॥२४७॥ तद्दत्त बीजमेतेषां निजग्रामे वपामि यत् । येन तस्मिन् समस्तोऽपि स्यात् सुधाभोजनो जनः ॥२४८॥ इक्षुगोधूमयो/जमेतैस्तस्य समर्पितम् । अरघट्टेक्षुवाटादिकर्माऽपि ज्ञापितं ततः ॥२४९॥ बीजं तदा मुदाऽऽदाय संदनाय समुत्सुकः । दुस्थो धनमिवोपाय॑ तदानार्यः स निर्ययौ ॥२५०॥ सद्यः स्वग्राममासाद्य वार्यमाणोऽपि नन्दनैः । जातकल्पमतिस्वल्पमतिः क्षेत्रं लुलाव सः ॥२५१॥ सञ्चितेनाथ वित्तेन तेन मण्डकलोभिना । पातालरूप: कूपोऽत्र निर्मातुमुपचक्रमे ॥२५२॥ खातं खातं ततः कूपं नोदबिन्दुरपीक्षितः । तेन भाग्यच्युतेनेव द्रव्यांशोऽपि धनार्थिना ॥२५३।। अधन्यस्य न धान्यानि न चार्थश्चिरसञ्चितः । अतिलुब्धस्य तस्याऽऽसन्न च ते गुडमण्डकाः ॥२५४॥ त्वमप्युपनतानेवं प्रभो ! भोगान्परित्यजन् । मुक्तिश्रीसुखलोभेनोभयभ्रष्टो भविष्यसि ॥२५५॥ अथ जम्बूकुमारोऽपि तामुवाच वचस्विनि ! । मांसातिलोलकाकोलकेलिं न कलयाम्यहम् ॥२५६॥ धात्रीधम्मिल्लतुल्योऽस्ति प्रसिद्धो विन्ध्यभूधरः । सोत्सेकाः केकिनो यत्र गर्जभिर्कुञ्जरैर्घनैः ॥२५७॥ सक्षेप इव विन्ध्यस्य महिमेव च जङ्गमः । कोऽपि क्रोडेऽस्य चिक्रीड दुर्द्धरः सिन्धुरेश्वरः ॥२५८॥ अथ दुर्भूपवद् भीष्मे ग्रीष्मे तापयति क्षितिम् । विन्ध्याद्रितनयां रेवां सेवार्थमुपजग्मिवान् ॥२५९॥ स कुञ्जरो जरोपात्तशक्तिावस्खलत्पदः । श्रोतस्तीरावनीखण्डे गण्डशैल इवाऽपतत् ॥२६०॥ दन्तिनो दुर्बलस्याऽस्य कान्तारान्तरपातिनः । असुरत्नं हृतं कालकिङ्करैस्तस्करैरिव ॥२६१॥ दुष्टाः संवेष्टयामासुर्गतासुमथ तं द्विपम् । शृगालप्रमुखाः स्वामिमुक्तं पुरमिवारयः ॥२६२॥ आहृत्याऽऽहृत्य मांसानि विस्तीर्णं ते वितेनिरे । द्विरदस्य गुदे द्वारं नरकस्येव दुर्द्धियः ॥२६३॥ द्वारेण करिणस्तेन करटाश्चरटा इव । सारमास्वादयामासुः प्रविश्याऽऽशु सहस्रशः ॥२६४॥ निगोद इव तत्रैव तन्वानानां गतागतम् । जन्तूनामिव काकानां कोऽप्यभव्य इव स्थितः ॥२६५॥ अन्तरन्तर्ययौ काको मांसान्यास्वादयन्नयम् । खनन् गजपतेरङ्गं सुरङ्गाकृदिव क्षितिम् ॥२६६॥ करटेऽन्तर्गते तत्र चौरे क्रूर इव क्षणात् । आरक्षक इव ग्रीष्मो गुदद्वारं न्यमीमिलत् ॥२६७॥ भूरिवर्षासु वर्षासु परासुस्तदसौ द्विपः । क्रोडे वीचीकरैर्नीतो मात्रेव सरिता सुतः ॥२६८॥ गतोऽन्तर्वारिधेरेव रेवावाहप्रवाहितः । इभः पोतनिभः काकं साकं तमपि सोऽनयत् ॥२६९॥
१. वपनाय - KH, A । २. खानं.... D, B, K। ३. हिमवानिव - L। ४. स्तत्करैः...D, K, C। सस्करै....AI टि. 1. प्रचलाकिन्-मयूरः । 2. काकोल:-काकविशेषः । 3. करटः कुत्सितं रटति, काकः। 4. वर्षासु-वर्षाकाले ।
15
20
25