________________
२८८
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] भावनां भावयन्नेष स्मृतपञ्चनमस्कृतिः । जगाम त्रैदिवं धाम कामसामजकेसरी ॥२१७।। मत्वा कुबेरसेनाऽपि तादृग् विषयविप्लवम् । भवे विरक्ता जग्राह गृहवासोचितं व्रतम् ॥२१८॥ इत्थं कथाप्रथापाथोधौतमोहमलस्य मे । कुतो ज्ञातेयः सम्बन्धः प्रभव ! प्रभविष्यति ॥२१९॥ राजपुत्रः पुनः प्राह कुतोऽपुत्रस्य ते गतिः । जगाद जम्बूः पुत्रस्य कथयामि कथां शृणु ॥२२०॥ अस्ति देवालयस्तम्भोत्तम्भितव्योममण्डपा । निकेतमालिनी ख्याता पुरी नाम्ना तमालिनी ॥२२१॥ श्रीमहेश्वरदत्तोऽभूदिभ्यस्तत्र पुराग्रणीः । प्रथितः प्रौढमिथ्यात्वपाथोधिजलकुञ्जरः ॥२२२।। दुश्चारिणीकुलाचार्यभूताऽभूताऽस्य वल्लभा । नागिलेति पुरि ख्याता कामारामैकसारणिः ॥२२३॥ सोऽन्यदा महिषं हत्वा जनकश्राद्धपर्वणि । अङ्कस्थं तस्य मांसेन लग्नो भोजयितुं सुतम् ॥२२४॥ तदा च गृहमभ्येत्य वलितो वक्रिताननः । दृष्टश्रेष्ठः मुनिश्रेष्ठः पठन् श्लोकमिमं मुहुः ॥२२५॥ पुष्णाति स्वपितुर्मासैः शत्रुमुत्सङ्गसङ्गिनम् । विधत्ते च पितुः श्राद्धमहो मोहस्य वल्गितम् ॥२२६॥ महेश्वरस्तदाकर्ण्य तूर्णमेत्य मुनीश्वरम् । नत्वाऽपृच्छत् प्रभो ! प्रोक्तं किमेतदसमञ्जसम् ॥२२७॥ इत्याग्रहपरे तत्रोवाच वाचंयमाग्रणीः । विज्ञाय ज्ञानतस्तस्योपकारं करुणापरः ॥२२८॥ नागिलायाः किलायातो यस्त्वयोपपतिः पुरा । अघानि घनमावासक्रोडे क्रीडन् यदृच्छया ॥२२९।।
तत्काल एव मुक्तात्मवीर्य एवावतीर्य सः । नागिलोदरजातत्वात् तवाऽयं तनयोऽभवत् ॥२३०॥ 15 महिषस्यामिषैर्यस्य भवता तपितः पिता । जीवः समुद्रदत्तस्य स एष भवतः पितुः ॥२३१॥
याऽसौ शुनी पुनरि महिषास्थीनि खादति । मन्यस्व मतिमन्नेतां स्वामम्बां बहुलाभिधाम् ॥२३२॥ त्वद्गृहे ज्ञानतो ज्ञात्वा तदेतदसमञ्जसम् । तद्बोधाय तव श्लोकं पठित्वा वलितोऽस्म्यहम् ॥२३३॥ तदिदं भवता ख्यातमत्र कः प्रत्ययः प्रभो ! । पृष्टो महेश्वरेणेति स मुनिः पुनरब्रवीत् ॥२३४॥
अन्तर्गृह शुनी नीता जातजातिस्मृतिः सती । रत्नजातं तदेषा तन्निखातं दर्शयिष्यति ॥२३५।। 20 इत्युदित्वा मुनौ याते या तेन कथिता शुनी । तत्तथा दर्शितं तस्मै तयाऽन्तर्गृहनीतया ॥२३६॥
साधोराधोरणस्येव स तस्माद्वचनाशात् । उत्पथस्थितिमव्याजं तत्याज श्रेष्ठिकुञ्जरः ॥२३७॥ पितृपुत्रादिसम्बन्धमवबुध्येति विप्लुतम् । मन्यते मित्र ! न त्राता तदात्माऽपि कुतः सुतः ॥२३८॥ अमुद्रश्रीः समुद्रश्रीः प्रियमित्थमथाभ्यधात् । प्रेममुक्त ! मयाप्युक्तं युक्तमित्यवधार्यताम् ॥२३९॥
इमां विभूतिमद्भुतां मुक्त्वा मुक्त्यै कृताग्रहः । मा भूस्त्वमुभयभ्रष्टः स्वामिन् ! स इव कर्षुकः ॥२४०॥ 25 ग्रामः सुसीमनामाऽस्ति सीमन्तो देशसम्पदः । निवासदुर्गं यः श्रीणां सर्वतः कणपर्वतैः ॥२४१॥
तत्राऽभूत् कर्षक: कोऽपि ग्रामीणग्रामणीर्महान् । कङ्गकोद्रवमुख्यानि धान्यानि वपति स्म सः ॥२४२॥
१. दृष्टः श्रेष्ठे: - A, दृष्टस्तेन - D, K पृष्टः श्रेष्ठी - KH दृष्टः श्रेष्ठी - C, L । २. तत्कालमेव त्यक्तात्मवीर्य....B, AI तत्कालमेवमुक्त...D | ३. स्मृती सति A ....स्मृता सती - KH | ४. तिमत्याजं - H तिमन्याज्यं BI
टि. 1. सामजः - हस्ती । 2. आधोरणः हस्तिपकः ।