SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २८७ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] सत्यमित्याग्रहादद्य प्रष्टव्यौ पितरौ ततः । ज्ञातव्यमेव जन्म स्वमालोच्येति समुत्थितौ ॥१९१॥ पितरावाग्रहात्पृष्ट्वा मत्वात्मचरितं च तत् । निश्चित्य सोदरत्वं च पाणिग्रहमशोचताम् ॥१९२॥ इति नि:सारसंसारवैरावैराग्यवासितौ । स्थितावधोमुखावेव प्रगे कुमुदिनीन्दुवत् ॥१९३।। ततः कुबेरमापृच्छ्य पितरौ च विरक्तया । कुबेरदत्तयाऽग्राहि जिनदीक्षाऽतिदक्षया ॥१९४॥ स्वान्ते नामाङ्कितं मुद्रारत्नमस्थापयच्च सा । बोधं कुबेरदत्तस्य मूर्तिमन्तमिवोज्ज्वलम् ॥१९५॥ गतः कुबेरदत्तस्तु भूरिक्रीतक्रयाणकः । मथुरायां पुरि स्फारव्यवहारविहारतः ॥१९६।। यस्यां कुबेरसेनायामुत्पन्नः स किलाऽभवत् । शशी निशीव कान्तोऽभूत्तस्या एव स धिग् विधिम् ॥१९७॥ कालात् कुबेरसेनायां कुबेरस्य सुतोऽभवत् । भवव्यामोहसर्वस्वसारेणेव विनिर्मितः ॥१९८॥ कुबेरदत्ता तत्सर्वं शुद्धोत्पन्नावधिः सती । तस्याऽसमञ्जसं ज्ञात्वाऽभूत् बोधयितुमुत्सुका ॥१९९॥ गोपितस्वाङ्गुलीयाऽसावनुज्ञाप्य प्रवर्तिनीम् । भवाब्धौ मज्जतो भ्रातुइँडेव मथुरां ययौ ॥२००॥ पुरः कुबेरसेनाया याचित्वा वसतिं च सा । तस्थावस्थानकेऽप्यन्योपकृतिः कृतिनां व्रतम् ॥२०१॥ पुरः स्फुरन्तमालोक्य कुबेराङ्गजमन्यदा । व्रतिनी व्रतनीतिज्ञा सा बभाषे मृषोज्झिता ॥२०२॥ बाल ! त्वमसि मे पत्युः सोदरत्वेन देवरः । माता तथावयोरेका तेनाऽसि मम सोदरः ॥२०३॥ जातोऽसि मे सपन्या त्वमपत्यमिति तेन मे । त्वत्पिता मे सपत्नीभूः पौत्रस्त्वमसि मे ततः ॥२०४॥ मन्मातृभर्तुः सोदर्यस्त्वं पितृव्योऽसि तन्मम । सहोदरस्य सूनुस्त्वं भ्रातृव्योऽप्यसि मे ततः ॥२०५॥ 15 मातापि तव माता मे धृतावावां ययोदरे । सा मन्मातृभुजङ्गस्य माता तन्मे पितामही ॥२०६॥ मत्सपत्नीतनूजस्य पत्नी सा मे वधूरिति । मद्भर्तुः साऽभवन्माता मम श्वश्रूरतो मता ॥२०७॥ मद्वान्धवस्य पत्नी सा भ्रातृजाया ततो मम । सा पुनर्मत्पतेः पत्नी सपत्नीति ममाऽभवत् ॥२०८॥ मज्जनन्या भुजङ्गो यत् त्वत्पिता तत्पिता मम । मत्पितृव्यस्य ते सोऽभूत् पिता तन्मे पितामहः ॥२०९॥ मम तस्य च माताऽभूदेका मे सोदर: स तत् । मद्भर्तृजननीभर्ता स तेन श्वशुरोऽपि मे ॥२१०॥ स च जग्राह मत्पाणिं जातः पतिरतो मम । स मदीयसपल्याश्च सूनुः सूनुर्ममाऽप्यतः ॥२११॥ अथो मिथो विरुद्धं तन्निशम्य शमिनीवचः । कुबेरोऽपृच्छदागत्य किमेतदिति विस्मयी ॥२१२॥ इति तस्मै कुबेराय पृच्छते व्रतिनी ततः । तन्मुद्रारत्नमज्ञानध्वान्तदीपमिवाऽऽर्पयत् ॥२१३॥ मुद्रारत्नेन तेनाऽथ दिननाथनिभेन स । प्रबुद्धोन्तर्गतं मोहं भृङ्गं पद्म इवामुचत् ॥२१४॥ लज्जितः स्वचरित्रेण गृहीत्वा व्रतमुज्ज्वलम् । धीमान् कुबेरदत्तोऽसौ यौवनेऽपि ययौ वने ॥२१५॥ 25 व्रतव्रततिवृक्षेण यशोनिर्झरभूभृता । कर्मकुञ्जरसिंहेन तेनारण्यानि रेजिरे ॥२१६॥ १. विधिः - KH, C, A, HI टि. 1. बेडा - नौका। 2. क्रमाङ्कः प्रथम: १-६-कुबेरदत्ताया बालेन सह सम्बन्धाः, द्वितीयः १-६ तस्या एव कुबेरसेनया सह, तृतीयः १-६ तु कुबेरदत्तेन सह, इति अष्टादश सम्बन्धाः सूचिताः । 3. ते-तव, बालस्य। 4. पद्मः (पुं)- कमलम्। 5. व्रततिः (स्त्री) लता।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy