________________
૨૮૨
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] भवदेवमुवाचाऽथ नागिला वेत्सि यद्यदः । प्रिया तवाहं मां वान्तां तद्भोक्तुं यतसे कुतः ॥५६॥ मूढाशय ! नवामूढामिव मामागतः स्मरन् । जराजर्जरितां पश्य संसारस्य क्व सारता ॥५७।। एतस्मिन् शुचिवस्तूनां मलिनीकारकारणे । देहे जरापराधीने मुधा मुह्यन्ति जन्तवः ॥५८॥ विषं माममृतं दीक्षामन्यथा मा स्म मन्यथाः । तद् व्याघुट्य झटित्येव गुरुं भज कुरु व्रतम् ॥५९॥ इति प्रबोधितः प्रीतो नागिलाया गिराऽचिरात् । साधु साध्विति तां स्तुत्वा साधुः सूरि रयादयात् ॥६०॥ आलोच्य तद्गुरोरग्रे तदुग्रं स व्रतं व्यधात् । येनाऽजनिष्ट सौधर्मे प्रभाभिर्भासुरः सुरः ॥६१॥ क्षेत्रे महाविदेहेऽथ विजये पुष्कलाऽभिधे । देशे विश्वप्रिये पुण्डरिकिण्यां पुरि चक्रिणः ॥६२॥ पत्न्यां यशोधराख्यायां वज्रदत्तस्य नन्दनः । नाम्ना सागरदत्तोऽभूद् भवदत्तो दिवश्च्युतः ॥६३॥ युग्मम् ॥ अथ पित्रा पवित्राङ्गीर्धन्याः कन्याः सहस्रशः । पुत्रः शत्रुद्रुमद्रोहकरिणा परिणायितः ॥६४॥ मूर्तिभिः किल सोत्कर्षस्वभोगफलकर्मणः । स समन्तात् समन्ताभिः क्रीडन् भूपालभूर्बभौ ॥६५॥ एकदाऽनेकदारान्तर्वर्ती मन्दिरमूर्द्धनि । स्थितोऽन्तरिक्षे सोऽद्राक्षीत् स्वर्णवर्णं पयोमुचम् ॥६६॥ तमाक्रान्तनभश्चक्रं तुङ्गशृङ्गशताकुलम् । पश्यन्मेरुमिव स्मेरसमाजः समजायत ॥६७।। क्षणाद्वातोद्धते धाराधरे विधुरतां गते । भावेषु भङ्गरीभावं कुमारः स व्यचारयत् ॥६८॥ प्रतिबुद्धः स्वयं बुद्ध्या व्रतं जग्राह साग्रहः । ततः सागरदत्तोऽयं सूरेरमृतसागरात् ॥६९॥ कृपाणतीव्रताजैत्रव्रतायत्तेन तेन तत् । अज्ञानमवधि ज्ञानमवधिख्याति बिभ्रता ॥७०॥ तत्रैव विजये वीतशोकायां पुरि भूपतेः । पुत्रः पद्मरथाख्यस्य वनमालाङ्गसम्भवः ॥७१॥ भवदेवोऽभवच्च्युत्वा दिवः शिव इति श्रुतः । कुमारः सुकुमाराङ्गीः कुमारीः सोऽप्युदूढवान् ॥७२॥ स्थितः सह महेलाभिः सोऽन्यदा सदनोपरि । नाम्ना कामसमृद्धस्य सार्थवाहस्य वेश्मनि ॥७३॥ मुनिं सागरदत्ताख्यमात्तभिक्षं विलोकयन् । स्वर्णवृष्टिं सुरैः सृष्टां दृष्ट्वा हृष्टोऽभवत्तदा ॥७४॥ युग्मम् ॥ अथ स्थानगतं पापवारणं कृतपारणम् । गत्वा नत्वा मुनि राजाङ्गजोऽन्ते समुपाविशत् ॥७५॥ ततोऽसौ देशनां तेने मुनिर्मानेभकेसरी । सर्वास्तथा कथाः पूर्वजन्मजाता न्यवेदयत् ॥७६॥ सोऽपि भूपाङ्गभूः श्रुत्वा विशुद्धः प्रतिबुद्धवान् । नत्वा यतिं गतः प्रष्टुं पितरौ निश्चितव्रतः ॥७७॥ पितृभ्यामननुज्ञातस्ततश्चाऽकृतभोजनः । गत्वा पौषधशालायां तस्थावस्थानमंहसाम् ॥७८॥ इभ्यात्मजेन भूभर्तुरादेशात् दृढधर्मणा । श्राद्धेन बोधितोऽभुक्त षष्ठादाचाम्लपारणः ॥७९॥ ईदृक्तप:प्रकाशी च प्रासुकाशी व्रतीव सः । तत्र शुश्रुषितस्त्रुट्यत्कर्मणा दृढधर्मणा ॥८०॥ अथ द्वादशवर्षान्ते भावनियूंढसंयमः । विद्युन्मालीति देवोऽभूत् ब्रह्मलोकेऽद्भुतद्युतिः ॥८१॥ श्रीवीरः समवासार्षीत् पुरे राजगृहेऽन्यदा । तदीयपादपद्माली विद्युन्माली तदाऽभवत् ॥८२॥
20
१. सा - B, L, H । २. व्रतजनेन - C। टि. 1. अलिन् - भ्रमरः ।