________________
२७६
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५२] अपृच्छदथ पृथ्वीन्दुः सानन्दः श्रीसुहस्तिनम् । जिनधर्मद्रुमः केन फलेन फलति प्रभो ! ॥३४॥ आख्यद्गुरुस्तरोस्तस्य सुपक्वममृतं फलम् । अपक्वफलभेदास्तु कल्पाश्चानुत्तराश्च ते ॥३५॥ पुनर्मुनि महाधर्मवप्रं पप्रच्छ पार्थिवः । अव्यक्तस्य फलं नाम स्वामिन् ! सामायिकस्य किम् ॥३६॥
श्रीसुहस्ती महस्तीर्थङ्करधर्मस्य धारयन् । गदति स्म जगत्यस्मिन् राजन् ! राज्यादि तत्फलम् ॥३७॥ 5 सन्देहक्षेपयन्त्राग्रोच्छलद्यष्टिनिभाङ्गलीम् । नखच्छोटनिकां जातप्रत्ययोऽथ ददौ नृपः ॥३८॥
पुनः प्रणम्य पादाग्रन्यस्तहस्तः सुहस्तिनम् । युष्माभिरुपलक्ष्येऽहं न वेति नृपतिर्जगौ ॥३९॥ उपयोगेन विज्ञाय गुरुर्गिरमथाददे । किं नोपलक्षयेऽहं त्वां शृणु योऽसि नरेश्वर ! ॥४०॥ विहरन्तः सहाचार्यैः श्रीमहागिरिनामभिः । सगच्छाः पुरि कौशाम्ब्यामगच्छाम पुरा वयम् ॥४१॥
महत्त्वात्परिवारस्य वसतेरपि लाघवात् । आवां तत्र धरित्रीश ! पृथक् पृथगवस्थितौ ॥४२॥ 10 तदाऽभूदतिदुर्भिक्षं तत्रास्मासु विशेषतः । मुदा तु दातुमारेभे भक्तं भक्तमना जनः ॥४३॥
कस्याऽपि श्रेष्ठिनः सौध भिक्षायै साधवस्तदा । विविशुश्चाविशच्चैको रङ्कस्तत्पृष्ठतो रयात् ॥४४॥ इच्छाकाराधिकाराधिलचिनीं तत्र लेभिरे । साधवो विविधां भिक्षां विलक्षस्यास्य पश्यतः ॥४५॥ प्राप्य भिक्षामथाऽमीषामीयुषां वसतिं प्रति । अनुगः स जगौ रङ्को भोज्यं मे दीयतामिति ॥४६॥
साधवोऽभिदधुर्दानं जानन्ति गुरवः खलु । तदधीना वयं किञ्चिन्न स्वयं दातुमीश्वराः ॥४७॥ 15 साधूनन्वेवमन्वेत्य वसतिं वीक्ष्य तत्र नः । दीनाननः क्षुधाधीनः स भोजनमयाचत ॥४८॥
अथेदं साधवोऽप्याख्यन्नस्मत्तोप्यमुना पथि । अयाच्यत क्षुधालीनस्फूतिना दीनमूर्तिना ॥४९॥ विदितं चेदमस्माभिरुपयोगप्रयत्नतः । रङ्कः प्रवचनाधारो यद्भाव्येष भवान्तरे ॥५०॥ रङ्कः प्रियोक्तिलीलाभिरथाऽस्माभिरभाष्यत । व्रतं चेद् भजसे भोज्यं लभसे रभसेन तत् ॥५१॥
अचिन्तयदयं रश्चिरं कष्टमयोऽस्म्यहम् । तद्वरं व्रतजं कष्टं यथेष्टं यत्र भुज्यते ॥५२॥ 20
इत्यथ प्रतिपेदानं व्रतादानं तदैव तम् । प्रव्राज्य भोजयामः स्म भोजनैर्मोदकादिभिः ॥५३॥ अथाहारं महारम्भः स्वादु स्वादु तथाऽऽदित । रुरोध स यथा गर्भमरुत्पथकथामपि ॥५४॥ कृतान्तप्रतिहारेण तेनाहारेण पीडितः । मृत्योरङ्कमसौ रङ्कस्तस्यामेव ययौ निशि ॥५५॥ साधुर्मध्यस्थभावेन धराधीश ! विपद्य सः । पद्मवत्त्वं मृणालस्य कुणालस्याऽङ्गभूरभूः ॥५६॥
पुनर्विज्ञपयामास मुनीशमवनीश्वरः । भगवन् ! भवतामेव प्रसादादासदं श्रियः ॥५७॥ 25 अकारयिष्ये युष्माभिर्दर्शनस्पर्शनं न चेत् । प्रभो ! तदभविष्यन्मे श्लाघ्या रङ्कदशा क्व सा ॥५८॥
इहापि गुरवः पूर्वजन्मवद्यूयमेव मे । प्रसीदताऽऽदिशत मां किङ्करः किङ्करोम्यहम् ॥५९॥ सुहस्ती भगवानाह राजन्नाजन्मशर्मदम् । जिनधर्मं भज स्वर्गापवर्गादिफलद्रुमम् ॥६०॥
टि. 1. 'चपटी' इति भाषायाम् । 2. स्वस्य इच्छाया विषयादपि अतिक्रान्तां भिक्षा लेभिरे इत्यर्थः ।