SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २७५ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-१५२ ] वसुभूतिर्महेभ्योऽत्र बोधितः श्रीसुहस्तिभिः । जीवाजीवादितत्त्वज्ञो जज्ञे श्रावकशेखरः ॥७॥ वसुभूतिः शुभारम्भो गुरुव्याख्याऽनुवादवान् । प्रबोधयितुमारब्धसंरब्धः स्वजनानपि ॥८॥ तेन बोधयितुं ते न शेकिरे पङ्कजानि हि । बोध्यान्यपि न बोध्यन्ते दीपेन तपनं विना ॥९॥ प्रतिबोधयितुं बन्धुवर्ग मोहनिरर्गलम् । निन्ये विज्ञप्य तद्धाम्नि वसुभूतिः स्वयं गुरून् ॥१०॥ जिनागमवनीपुष्पसद्धर्ममधुवाहिनी । प्रत्याख्या भवतापस्य व्याख्याऽऽरम्भि सुहस्तिना ॥११॥ तत्र भिक्षार्थमाचार्यस्तदा चाऽऽर्यमहागिरिः । आययौ च ववन्दे च तेनाभ्युत्थाय सूरिणा ॥१२॥ श्रेष्ठी जगाद गगनस्येव सर्वगुरोस्तव । किं कोऽप्येष गुरुः स्वामिन्नहो बत महाद्भुतम् ॥१३॥ श्रीसुहस्ती तमाह स्म गुरवः खल्वमी मम । तपश्चरन्तस्त्यागाईं भक्तं पानं च गृह्णते ॥१४॥ अतादृग्भक्तपानाप्तौ सन्ति सम्यगुपोषिताः । जानन्त्यन्यदपथ्यं हि कर्मरोगच्छिदोत्सुकाः ॥१५॥ इत्यस्मै सूरिराख्याय धर्मं व्याख्याय निर्मलम् । प्रतिबोध्य च तद्वन्धून् निजमाश्रयमागमत् ॥१६॥ वसुभूतिरभाषिष्ट शुद्धधीः स्वजनानथ । मुनिमीक्षमीक्षध्वे यदा भिक्षार्थमागतम् ॥१७॥ तस्मै भक्तं च पानं च त्यज्यमानं प्रदर्श्य तत् । मुदा तदा प्रदातव्यं भवेद्बहुफलं हि तत् ॥१८॥ अथ तत्रैव भिक्षार्थं प्राप्तोऽन्येधुर्महागिरिः । तच्चक्रुस्ते च भक्त्या तत्प्रतिलाभनलोभिनः ॥१९॥ ज्ञात्वा ज्ञानादशुद्धं तदनादाय महामुनिः । तदा जगाम वसतिं जगाद च सुहस्तिनम् ॥२०॥ महत्यनेषणाऽकारि ह्यः कृत्वा विनयं त्वया । भिक्षामसज्जयन्मह्यं ते हि त्वदुपदेशतः ॥२१॥ नेदं पुनः करोमीति महागिरिगुरुं ततः । सुहस्ती क्षमयामास विनीतो विनतो येतः ॥२२॥ जीवन्तस्वामिप्रतिमारथयात्रां निरीक्षितुम् । गताववन्तीमन्येधुर्महागिरिसुहस्तिनौ ॥२३॥ नृपस्तदा च तत्राऽऽसीदमित्रासीनविक्रमः । सम्प्रति म सङ्ग्रामसामग्रीयितदोर्युगः ॥२४॥ उत्सवादथ जीवन्तस्वामिनो निर्ययौ रथः । पश्यतामपि संसारकान्तारोत्तारकारणम् ॥२५॥ नयनस्थानतानीतमहागिरिसुहस्तिना । अन्वीयमानः सङ्घन पुर्यां पर्यटति स्म सः ॥२६॥ क्वचिदस्खलितः प्राप राजद्वारमथो रथः । जीवो मोक्षमिवाशेषसुरासुरनुतोदयः ॥२७॥ राजाऽथ राजसौधस्य गवाक्षे चक्षुषीव सः । कनीनिकापदं पुष्पन्नपश्यत् श्रीसुहस्तिनम् ॥२८॥ दध्यौ च क्वचिदप्येष शान्तवेषः सुखो दृशाम् । मयाऽदर्शि मुनिः किन्तु हन्त न स्मृतिमेति मे ॥२९॥ विमृशन् भृशमित्येवं नृदेवः स विमूच्छितः । पपात भुवि मेघाम्भोभिन्नाचलतटाश्मवत् ॥३०॥ उचिते रचिते व्यग्रैरुपचारे परिच्छदैः । जातजातिस्मृतिः पृथ्वीपतिरप्युत्थितस्ततः ॥३१॥ स राजन्यः पुराजन्मगुरुं जानन् सुहस्तिनम् । स्पर्धाऽभिधावितमनःपवनप्रतिमक्रमः ॥३२॥ एत्यावनीतलमिलन्मौलिमौलिमहीभुजाम् । ननामोच्चैःपदं गन्तुमुत्पातो नतिपूर्वकः ॥३३॥ 15 25 १. ऽवनतो - C। २. ऽग्रतः - KH, P1३. सुवेषतां - KH, शुभोदृशां - L मुखो दृशां - CI४. स्मरः - KH1५. तो नतिपूर्वकम्KH, तोन्नतिपूर्वक: - A, H, तोन्नतिपूर्वकं - LI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy