________________
२७४
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५१-१५२ ] स स्थालं दृग्मुदे क्षुण्णद्विदंष्ट्राभिरपूरयत् । भोजितान्तकसत्कारहेतुमुक्ताफलैरिव ॥५६॥ भोक्ताऽमू: पायसीभूता दंष्ट्राः सिंहासनेऽत्र यः । स ते वधाय दैवज्ञा इत्याख्यन् राज्ञि पृच्छति ॥५७॥ तत्राऽवारं पुरे सत्रागारं राज्ञा विधाय तत् । पुरस्तु दंष्ट्रापात्रं तन्न्यासि सिंहासनं धुरि ॥५८॥ ततः पद्मश्रियं मेघनादो विद्याधरः सुताम् । नैमित्तोक्त्या सुभूमाय दत्त्वाऽभूत् सेवकः स्वयम् ॥५९॥ किं लोकोऽयमियानेव रन्तुमस्त्यधिकोऽपि वा । आश्रमाऽनन्यगोऽपृच्छत्सुभूमो जननीमिति ॥६०॥ रे वत्सा ! ऽऽ श्रमकूपैकभेक ! लोकाऽर्णवो महान् । यस्याश्रमोऽयमायाति न बिन्दुतुलनामपि ॥६१॥ हसन्तीदं तदोदीर्य कृतवीर्यनृपप्रिया । वृत्तं तत्पितृवृत्तान्तं रुदती तु न्यवेदयत् ॥६२॥ तच्छ्रुत्वा स क्रुधा दीप्तः प्रयातो हस्तिनापुरम् । तत्र सिंहासनासीनो दंष्ट्रापायसमाहरत् ॥६३।। जघान मेघनादस्तद्रक्षाविप्रान् क्रुधोत्थितान् । रामोऽप्यत्र क्रुधा कालदूताहूत इवापतत् ॥६४॥ क्षिप्तः सुभूमे रामेण शशाम परशुर्व्वलन् । प्रदीपनमिवोद्दामं पुरो दीप्ते प्रदीपने ॥६५॥ अस्त्राभावात् सुभूमेन दंष्ट्राभाजनमुद्धृतम् । तत्पाणिचिह्नचक्रस्य सङ्गेनैवाप चक्रताम् ॥६६॥ सुभूमः सोऽष्टमश्चक्री तेन चक्रेण चञ्चता । पञ्चतामनयद्रामं छिन्नमूर्द्धतया रयात् ॥६७॥ सप्तकृत्वः क्षितिं चक्रे रामो निःक्षत्रियां यथा । क्रमात् सुभूमस्त्रिः सप्तकृत्वो निर्बाह्मणां तथा ॥६८॥
चक्रसाधितषटखण्डोऽप्यखण्डक्रोधचण्डतः । रौद्रध्यानी निववृते न स क्षत्रो द्विजक्षयात् ॥६९॥ 15 चतुष्कषायः पञ्चत्वं प्राप्य षट्खण्डभूपतिः । सप्तमं नरकं प्रापदष्टमश्चक्रवर्त्यसौ ॥७०॥
इति सुभूमकथानकम् ॥ ईदृशमव्यवस्थं स्नेहं पर्यवस्य यतयः किं कुर्वन्ति इत्याह
कुलघरनिययसुहेसु य, सयणे य जणे य निच्च मुणिवसहा ।
विहरंति अणिस्साए, जह अज्जमहागिरी भयवं ॥१५२॥ 20 कुटुम्बभवनस्वकीयसातेषु चशब्दाद्देशादौ, च स्वजने, सम्बन्धिबन्धुवर्गे, जने सामान्यलोके, चशब्दो
विशेषाभावद्योतकः । नित्यं प्राकृतत्वादनुस्वारलोपः । मुनिवृषभाः सुसाधवो विहरन्ति अनिश्रया कुलादिनिश्रामकृत्वा निरालम्बनतयेत्यर्थः । अत्र दृष्टान्तः यथार्यमहागिरिभगवानाचार्य इति ॥१५२॥ अत्राख्यानकम्
[आर्यमहागिरिकथानकम् ॥] स्थूलभद्रमुनीन्द्रस्य शिष्यावभवतामुभौ । आचार्यवौँ नाम्नाऽऽर्यमहागिरिसुहस्तिनौ ॥१॥ 25 चरणाविव धर्मस्य ज्ञानस्य नयने इव । तावभूषयतां साङ्गदशपूर्वधरौ धराम् ॥२॥
निकाचनाभिर्मोक्षस्य वाचनाभिरनेकशः । शिष्यान्निष्पादयामास क्रमेणार्यमहागिरिः ॥३॥ निजं महागिरिर्गच्छभारं न्यस्य सुहस्तिनि । एकोऽभून्मनसा कामं जिनकल्पार्हवृत्तिधीः ॥४॥ व्युच्छेदाज्जिनकल्पस्य गच्छस्थोऽपि तदर्हकृत् । महागिरिर्महीपीठे विजहार महातपाः ॥५॥ ते धर्मदेशनसुधासिन्धवो विश्वबन्धवः । सूरयः पाटलीपुत्रमगुर्नगरमन्यदा ॥६॥
१. मुन्मदाः - KH, CI