________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १५१]
आनीय साऽश्रमे प्रेमलीलया लालिताऽमुना । क्रमाच्च यौवनस्फीता परिणीता यथाविधि ॥२९॥ ऋतुकालेऽथ बालेयं तेनोक्ता त्वत्कृते चरुम् । साधयामि प्रिये ! येन स्याद् ब्रह्मौघस्तुतः सुतः ॥३०॥ प्रियाऽस्ति हास्तिनपुरेऽनन्तवीर्यनृपप्रिया । मत्स्वसाऽस्यै चरुः साध्यः क्षात्रोऽपीति तयौच्यत ॥३१॥ तौ च स्वकृशोदर्यै तत्सौदर्यै च सोऽप्यथ । ब्रह्मक्षात्रमहः पात्रमहन्यस्मिन्नसाधयत् ॥३२॥ अरण्ये हरिणीवाऽहं जाता मा तादृगस्तु मे । पुत्रोऽपीति धिया क्षात्रं रेणुका चरुमाहरत् ॥३३॥ ब्राह्म्यं चाऽदाच्चरुं स्वस्रे तयोर्जातौ सुतौ ततः । रामश्च कृतवीर्यश्च मिथो व्यस्तकुलोचितौ ॥३४॥ ऋषिवंशेऽपि सञ्जातः क्षत्रयोग्यं वहन्महः । उल्लसन् शुशुभे रामस्तडिद्दामवदम्बुदे ॥३५॥ तत्रातिसारकी कोऽपि कष्टभ्रष्टनभोगतिः । आगाद्विद्याधरो रामस्तं भक्त्योपाचरत्तराम् ॥३६॥ तद्दत्तां पार्शवीविद्यां रामोऽन्तः शरगह्वरम् । साधयित्वोदितः पर्शुराम इत्युदितो जनैः ||३७|| ययौ हस्तिपुरेऽन्येद्युः स्वसृसङ्गाय रेणुका । श्यालीति नेर्मलोलेन सा भेजे तत्र भूभुजा ॥३८॥ तस्मात्तया सुतो जज्ञे निन्ये तां ससुतामपि । जमदग्निर्निजं धाम कामार्त्ते क्व विवेकिता ॥ ३९॥ तां क्रुद्धः पर्शुना पर्शुरामः क्षत्रेण पुत्रिणीम् । फलान्तरेण फलितां गृहवल्लीमिवाच्छिनत् ॥४०॥ ज्ञापितस्तद्भगिन्या तत्क्रुद्धो हस्तिपुराधिपः । गत्वा तदाश्रयं भङ्क्त्वा ववले वालितव्रजः ॥४१॥ क्वचित् क्रीडारुचिः श्रुत्वा रामस्तामहितां कथाम् । एत्याऽऽकुलं कुलपतिं वीक्ष्य क्रोधादधाव ॥४२॥ चतुरङ्गचमूभङ्गघोरस्पर्शेन पर्शुना । तनूमनन्तवीर्यस्य स दुखण्डमखण्डयत् ॥४३॥ सभ्यैरनन्तवीर्यस्य कृतवीर्यः कृतः पदे । एत्य तातवधक्रोधात् जमदग्नि जघान सः ॥४४॥ प्रतिहत्याऽथ तं रामो ध्वस्तवीरं च तत्पुरम् । मृगराज इव ध्वस्तमृगो वनमराजयत् ॥४५॥ कृतवीर्यप्रिया गुर्वी निरगात् प्रियदुःखभाक् । पुरात्तेनाऽहिनेवाऽऽर्त्ता कलविङ्कीव नीडतः ॥४६॥ सा तापसाश्रमं प्राप तापसैश्च कृपारसैः । न्यस्य गर्भगृहे गर्भवती साऽपालि बालिका ॥४७॥ तस्याश्चतुर्द्दशस्वप्नसूचितः क्रमतः सुतः । खादन् भूमिमभूदुक्तः सुभूम इति तत्तया ॥४८॥ मध्येभूमिगृहं गुप्तः स दुःसहमहोरयः । ववृधे पर्शुरामस्य कालाऽहिरिव बालकः ॥४९॥ भूत्वा परशुरामस्तु हस्तिनापुरभूपतिः । निःक्षत्रां सप्तकृत्वः क्ष्मां व्यधात् पितृवधक्रुधा ॥५०॥ सप्तवारान् विलूनेऽपि क्षत्रियक्षेत्रमण्डले । स्वयमेवाभवद्रामः शिलोञ्छाय प्रयाणभाक् ॥५१॥ गुप्तोऽपि निधिद्यत्र क्षत्रियोऽभूत्त्विषोऽक्षिपत् । रामस्य परशुस्तत्र दृष्टिरञ्जनिनो यथा ॥५२॥ कदाऽपि तापसमहीं तां रामस्य गतस्य सः । जज्वले परशुः क्षत्रसत्तारोषानलैरिव ॥५३॥ कोऽप्यत्र क्षत्रियोऽस्तीति राज्ञा कुलपति: क्रुधा । पृष्टः प्राह तपस्यन्तः सन्तीह क्षत्रिया अमी ॥५४॥ विरराम ततो रामः क्रोधतस्तत्प्रबोधतः । जगाम धाम सङ्ग्रामश्रमविश्रामकामनः ॥५५॥
१. त्वोत्थितः C । २. मर्मलौल्येन - P। ३. मनोरथ: - D, K ।
टि. 1. महसां रयः - प्रवाहः - महोरयः ।
२७३
5
10
15
20
25