________________
5
10
15
२७२
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १५१] जैनेषु प्रथमो यो य उत्कृष्टस्तापसेषु तौ । परीक्ष्यौ गुणवत्तायामित्यभून्निर्णयस्तोः ||४|| मिथिलाया नृपो भावयतिः पद्मरथस्तदा । चम्पां श्रीवासुपूज्याख्यात् गुरोर्व्रतचिकीर्व्रजन् ॥५॥ दृष्टश्चैकोंऽड्रिगस्ताभ्यां प्रारब्धश्च परीक्षितुम् । पानान्ने ढौकिते धीरस्तृट्क्षुधार्त्तोऽपि नाददे ॥६॥ युग्मम् ॥ ताभ्यां वज्रशलाकाभैः कण्टकैः पूरिते पथि । क्षरद्रक्तांहिरप्येष तैलपूल इवाचलत् ॥७॥ गीतादिभिर्मनःक्षोभदक्षैरक्षोभितोऽभितः । सिद्धपुंरूपतस्ताभ्यां पुरोभूयेत्यभाषि सः ॥८॥ युवाऽसि दीर्घमायुस्ते भोगाः सन्ति मनीषिताः । कालेऽस्मिन्न तपो भाति प्रभात इव भोजनम् ॥९॥ राज्ञोचे किं तपः कुर्याद्देहभारासहो जरन् । तपः प्रौढायुषः प्रौढं दशामानेन दीपभाः ॥१०॥ जाने तानेव भोगान् भो ! यत्र चित्रा मनोरतिः । तद्भात्यद्य तपो भोज्यमिव देवाचिनः प्रगे ॥११॥ सत्त्वाद्रिमथ तं नुत्वा तौ गतौ तापसोत्तमम् । तपस्तेजस्ततेरग्नि जमदग्नि परीक्षितुम् ॥१२॥ जटावल्लितरोस्तस्य तौ देवौ श्मश्रुगुल्मके । स्थितौ कुलायं निर्माय चटकद्वन्द्वरूपिणौ ॥१३॥ चटकं चटका यामि हिमालयमितीरिणम् । त्वमन्यासक्त एवासि नायासि द्रुतमभ्यधात् ॥१४॥ आचष्ट चटकः कान्ते ! प्रिया स्वान्ते त्वमेव मे । न यद्येमि च काले तद् गृह्ये गोघातपातकैः ॥१५॥ पापेन तापसस्यास्य गृह्येऽहमिति शप्यताम् । भान्ति मोघानि गोघातपातकानि हि तत्पुरः ॥१६॥ एवमुक्ते चटकया तापसः कोपमाप सः । पाणिभ्यां पक्षिणौ मङ्क्षु धृत्वा च प्रत्युवाच तौ चण्डत्वमिव चन्द्रेऽर्के कलङ्कमिव रे मयि । पापौ पापं दिशन्तौ वां गमयामि यमालयम् ॥१८॥ अलपत् कैलविङ्कस्तं क्रुधाऽलं ते मुधा तपः । अपुत्रस्य गतिर्नास्तीत्यपि किं न श्रुता श्रुतिः ॥१९॥ मन्वानस्तत्तथैवायमध्यायदथ तापसः । अपुत्रस्य तपोऽभून्मे ही भस्मनिहुतोपमम् ॥२०॥
॥१७॥
भ्रान्तं तं वीक्ष्य नन्वन्तर्द्धन्वन्तरिरतप्यत । मुधैते मुनयो मूढाः स इति श्रावकोऽजनि ॥२१॥ प्रत्येत्य प्रत्ययात् प्रीतौ तिरोभूतां च तौ सुरौ । अगमज्जमदग्निस्तु पुरं नेमिककोटिकम् ॥२२॥ 20 जितशत्रुं नृपं भूरिकन्यं कन्यां ययाच सः । या त्वां कन्या शतादिच्छेद्देया सेति नृपोऽभ्यधात् ॥२३॥ सै भूपः कन्यकाः स्माह कन्यकान्तःपुरे गतः । युष्मत्तो धर्मपत्नीत्वमेका मे काऽपि यत्विति ॥२४॥ श्यामं भिक्षाचरं क्षामं तं वीक्ष्य कृतथूत्कृती: । स कोपात्तापसः शापात्कुब्जिका विततान ताः ॥ २५॥ वीक्ष्यैकां नृपकन्यां स प्राङ्गणे रेणुखेलिनीम् । रेणुके ! काङ्क्षसीत्युक्त्वा मातुलिङ्गमदर्शयत् ॥२६॥ इच्छामीति स्फुरत्पाणि तां स पाणिग्रहस्पृहः । हृष्टोऽग्रहीद् दृढं रोरनरो रत्नमिवोरसा ॥२७॥ 25 चाटुवादी गवादींश्च तां च तस्मै ददौ नृपः । शालीशतं स चैकोनं शक्त्यानयदकुब्जताम् ॥२८॥
१. तूलचूल - P, A, D, K, KH, C । २. मनोगति: KH, मनोरमा: K, D मतिः - P। ३. यासीहततोद्रुतम् - H, B, A; यासिद्रुतमित्यगात् - P, C यासिद्रुतमूचिवान् - KH; यासिद्रुतमेत्यगा: - L; यासिद्रुतमभ्यगात् - K । ४. ततो P। ५. हुतंयथा - L C, K, A, H, KH, D, B । ६. स भूपकन्यकाः - L, D, K। ७. बालां - KH | टि. 1. कलविङ्कः - चटकः ।