________________
[ कणिकासमन्विता उपदेशमाला । गाथा - १५० ]
कदापि चपलापातमापत्य चणिनन्दनः । रुरोध योधपटलैः पाटलीपुत्रपत्तनम् ॥५७॥ तदल्पं बलमालोक्य नन्दोऽनल्पबलस्ततः । पशुप्राग्भारकलया दलयामास विक्रमी ॥५८॥ चाणक्यश्चन्द्रगुप्तेन समं समयवित्तमः । पलायिष्ट स्तुतपदस्तदानीं मनसाऽपि सः ॥५९॥ आदिशत् सादिनो नन्दश्चन्द्रगुप्तग्रहेच्छया । अहतो हन्त मुच्येत छित्त्वा पुच्छमहिर्न हि ॥६०॥ एकः सादी मनोवेगविवादी द्रुतमापतत् । दृष्टश्च चणिपुत्रेणादिष्टश्च स शिशुर्नृपः ॥ ६१ ॥ प्रविशैतत् सरो वत्स ! वीचिषु प्रचलास्वितः । दृष्टादृष्टः क्षणं तिष्ठेः शरदध्रेषु चन्द्रवत् ॥६२॥ अथैवं कृतवत्यस्मिन्निविश्य सरसीतटे । चणिसूनुः स्वयं ध्यानलीनो योगीव तस्थिवान् ॥६३॥ भदन्त ! ध्रियते ध्यानं यद्धर्मेण भवादृशैः । दृष्टो नन्दस्य तस्यारिश्चन्द्रगुप्तः क्वचित् त्वया ॥६४॥ इत्यागत्याश्ववारेण तेन पृष्टश्चणिप्रसूः । मौनभङ्गभियाऽङ्गुल्या चन्द्रगुप्तमदीदृशत् ॥६५॥ सरःप्रवेष्टुमामुक्तमुक्तयेऽथ नतः स्थितः । तत्खड्गेनैव स भटश्चाणक्येन द्रुतं हतः ॥ ६६ ॥ चन्द्रगुप्तमथाहूय हयमारोप्य तं कृती । सञ्चरन् वीचिवेगेन चणिसूनुखोचत ॥६७॥ अदर्शि सादिनस्तस्य भवानङ्गुलिलीलया । मया वत्स ! यदा किं किं तदा हृदि तवाऽभवत् ॥६८॥ आचष्ट चन्द्रगुप्तोऽपि तदा मेऽभूदिदं हृदि । नूनमेवं मम श्रेयः पश्यत्यार्यो विचार्यकृत् ॥६९॥ अचिन्तयच्च चाणक्यः सदाऽयं मे वशो भृशम् । गुरोः सुशिष्य इव न ध्रुवं व्यभिचरिष्यति ॥७०॥ त्वरया पुनरायाति दूरान्नादिनि सादिनि । चाणक्योक्त्याऽविशच्चन्द्रस्तल्ले तप्त इव द्विपः ॥७१॥ अर्णोऽभ्यर्णस्थितं तूर्णं स जगौ रजकं द्विजः । त्वत्पङ्क्तौ कुपितो भूपस्त्रस्य चेज्जीवितुं मतिः ॥७२॥ सोऽप्यारादश्ववारं तं वीक्ष्याऽनश्यद्विजस्तु सः । चीराण्यारब्ध निर्णेक्तुं किं न जानन्ति धीधनाः ! ||७३|| द्रुतमेत्याश्ववारोऽसौ पृच्छन् पूर्वाश्ववारवत् । मारितो मतिमच्चूलामणिना चणिसूनुना ॥७४॥ चचाल पुनरुत्तालश्चन्द्रश्चणिभुवा सह । सुखैकसिन्धुर्मध्याह्नक्षुधाऽथ विधुरोऽभवत् ॥७५॥ पथि ग्रामादथायान्तं चाणक्यः कञ्चिदैक्ष्यत । भट्टं सद्यः कृताहारं सोद्गारं तुन्दमार्जिनम् ॥७६॥ ऊचे तं चणिभूर्भट्ट ! ग्रामे पालिर्लगेन्न वा । भट्टो जगौ लगत्येव सम्प्रत्येवालगन्मम ॥७७॥ पुनः पप्रच्छ चाणक्यः किं भट्ट ! बुभुजे त्वया । स आख्यत्तरसं शालि दधिशालिकरम्भकम् ॥७८॥ भ्रमतो मम भक्ताय ग्रामे वेला लगिष्यति । तन्मिलिष्यन्ति दुर्वारा अश्ववारा विरोधिनः ॥७९॥ ईशो न पदचारेऽपि चन्द्रस्तु क्षुधयाऽऽतुरः । राज्यबीजमयं कृत्यैरकृत्यैरपि रक्ष्यते ॥८०॥ एतद्विचिन्त्य चाणक्यस्तस्य भट्टस्य तत्क्षणम् । उदरं दारयामास प्रोल्ललास करम्भकः ॥८१॥
२६९
१. श्रुतपद - C हृतपद.... A, L, H द्रुतपद - B २ प्रबलास्वितः - C प्रचलान्वितः A, KH प्रबलान्वितः - P | ३. मुखैकसिन्धुमध्याह्न - P, A; मुखैकसिन्धुर्मध्या... B, C | सुखैकसिन्धुमध्याह्न - K, D, HI
टि. 1. तल्लं - जलाशय:, तस्मिन् । 2. अर्णस् (नपुं) - जलम् । 3. त्रस गत्यर्थकधातोः आज्ञार्थ - द्वि० पु० एकवनचरूपः । 4. पालिः भोजनपङ्क्तिः । 5. तरसं मांसम् ।
10
15
20
25