________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १४९]
शशस्य पिशितं बद्ध्वोदरे छन्नं शशत्वचा । उत्तानोऽशेत भूनेता तन्मतिप्रेरितस्ततः ॥१२॥ राज्ञोऽथानुज्ञया राज्ञी कृपाणीपाटितं रहः । मूर्च्छां गतस्य तन्मांस भक्षति स्मातिराक्षसा ॥१३॥ धैर्येण वारिता गर्भक्रौर्येण प्रेरिता मुहुः । सेयं विश्रम्य विश्रम्य मांसास्वादपथेऽचलत् ॥१४॥ पूर्णे बुद्ध्याऽनया भर्तृद्रोहदे दोहदे ततः । धिग् मां पतिघ्नीं पापामित्युक्त्वा मोहमियाय सा ॥१५॥ मन्त्रेणाभयदत्तेन पश्य मामक्षतं प्रिये ! । इत्युत्थितमिलापालमालोक्येयममोदत ॥१६॥ जातोऽथ पितृवैरीति तयाऽत्याजि वने सुतः । तन्मत्वा हा धिगित्युक्त्वा तत्राऽगादुत्सुको नृपः ॥१७॥ तमशोकतले वीक्ष्य तत्पल्लवमिवार्भकम् । हस्ताभ्यामेष्यते भूपो मृत्यवेऽर्घमिवाग्रहीत् ॥१८॥ अथैत्य स प्रियां प्राह निर्मले ! कर्म किं कृतम् । सर्पिणीतो मनाग्हीनं चण्डालीतोऽधिकं त्वया ॥१९॥ चम्पकद्युतिसौरभ्यैर्भूयो भूयोऽपि भावितात् । रम्भागर्भादिवोत्कीर्णो मूढे ! ऽत्याजि सुतः कुतः ॥२०॥ सा जगौ राजगौराङ्गी नाथ ! तद्दोहदादयम् । मृत्यवे तव दुर्गत्यै मम तत्किं सताऽमुना ॥२१॥ अथाह पार्थिवः सूनुस्त्यक्त ईदृक्तनुर्वने । विरहान्मृत्युदः सद्यः पातकान्नरकाय च ॥२२॥ कर्मैव सर्वकृत्पुंसां मत्वैवं मा कृथा इदम् । दुष्कीर्त्तिपातकमयं कर्म लोकद्वयाहितम् ॥२३॥ अनिच्छन्त्यपि तं साथ नरेशस्य निदेशतः । चेल्लणाऽपालयद्वालं स्त्रीभिर्लङ्घ्या न भर्तृवाक् ||२४|| अशोकवनिकायान्तर्दृष्टश्चन्द्र इवोज्ज्वलः । महीचन्द्रस्ततोऽशोकचन्द्र इत्यभ्यधत्त तम् ॥२५॥ तस्याङ्गुलिर्वनीमध्येऽधिष्ठितस्य कनिष्ठिका । विव्यधे कुक्कुटीपिच्छमूलशूलेन कोमला ॥२६॥ रुदतस्तुदती तस्याङ्गुलिः पूतिविभूतिभृत् । प्रेम्णाऽक्षेपि मुखे राज्ञा निर्विकल्पहृदैव सा ॥२७॥ तस्याऽऽशु निर्व्यथस्याऽथ क्रमरूढव्रणाङ्गुलिः । कूणिकाऽभूदभिदधे तन्मित्रैः कूणित्यसौ ॥२८॥ क्रमेण चेल्लणा जज्ञे पुनर्नयननन्दनौ । सुतौ हल्लविहल्लाख्यौ प्राचीवेन्दुदिवाकरौ ॥२९॥ त्रयस्ते चेल्लणादेव्या भास्वन्तो विश्रुताः सुताः । यै रराज स राजेन्दुस्त्रिशिखः शेखरो भुवः ||३०|| पितुर्द्विषं पुपोषाम्बा कूणिकं गुडमोदकैः । भक्तौ हल्लविहल्लौ तौ शर्करामोदकैः पुनः ॥३१॥ मत्कृते कारयत्येवं नृप एवेति कूणिकः । दुष्टहृत्कलुषः पुष्टिं क्रमादिन्दुरिवासदत् ॥३२॥ महेन महता स्नेहमोहमग्नो महीपतिः । तेन पद्मावतीं नाम राजपुत्र व्यवाहयत् ॥३३॥ सुशीलासु कुलीनासु राज्ञीष्वन्येऽपि सूनवः । श्रेणिकस्य द्विषच्छेदोत्तालाः कालादयोऽभवन् ॥३४॥ पुत्रवृद्ध्या च राज्यस्य समृद्ध्या च स भूपतिः । श्रीवीरभक्त्या चात्मानमेव धन्यममन्यत ॥३५॥ कदाचिदाचितनयस्तनयः प्रथमो नृपम् । इलातलमिलन्मौलिः प्रणिपत्य व्यजिज्ञपत् ॥३६॥ अभयोsहं मुधा तात ! कातरं पाहि पाहि माम् । अभीरुकुलकोटीर ! भीरुर्जातोऽस्मि ते सुतः ||३७||
२६३
१. पापिष्ठामि... KH | २. सौरभ्यो भूयो ... KH । ३. कृत् - A, B, K, D, H। ४. त्तालाश्का ...A, H, त्तालाका...L, K, D; तालाट्वा... KH |
टि. 1. इलापाल:- नृपः तम् । 2. मत्वा - ज्ञात्वा ।
5
10
15
20
25