SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 5 २६२ [कर्णिकासमन्विता उपदेशमाला । गाथा-१४८-१४९] अथो परिवृतः श्रीमान् सुरसाथैर्महामुनिः । जगदीशस्य समवसरणं प्राप पापभित् ॥४३१॥ प्रभुं प्रदक्षिणीकृत्य गत्वा केवलपर्षदि । उपाविक्षन्मुनिर्मुक्तालतायामिव नायकः ॥४३२॥ इति भरतकथानकम् ॥ ततश्च सुष्ठूक्तं प्राक्, 'धम्मो मएण हुतो' इत्यादि । अथ भार्यास्नेहेऽपि प्रतिबन्धः स्वप्नदृष्टार्थप्रत्याशायमान इदमाह भज्जा वि इंदियविगार-दोसनडिया करेइ पइपावं । जह सो पएसिराया, सूरियकंताए तह वहिओ ॥१४८॥ भार्यापि पत्न्यपि आस्तामन्या, इन्द्रियविकारदोषनटिता चक्षुराद्यतिप्रसङ्गोपप्लवविगोपिता अथवा इन्द्रियविकारदोषैर्नटिता नतिता स्वाधीनीकृत्य आत्मादेशं कारिता । करोति पतिपापं भर्तृहत्यारूपमित्यर्थः, 10 यथा स प्रदेशिराजः सूर्यकान्तया तथा विषदानप्रकारेण वधितो मारित इति । प्रदेशिकथायामेतत् प्रागेव कथितम् ॥१४८॥ पुत्रस्नेहविपरिणति विवृण्वन्नाह सासयसुक्खतरस्सी, नियअंगसमुब्भवेण पियपुत्तो । जह सो सेणियराया, कोणियरण्णा खयं नीओ ॥१४९॥ शाश्वतसौख्ये मोक्षसुखे, तरस्वी क्षायिकदर्शनत्वात्प्राप्तिसमुत्सुकः । निजकाङ्गसमुद्भवेन पुत्रेण 15 प्रियपुत्रः सन् यथाऽसौ श्रेणिकराजः कोणिकराजेन क्षयं नीत इत्यक्षरार्थः ॥१४९॥ भावार्थस्तु कथायाम् । तथाहि [श्रेणिककथानकम् ॥] काश्यपीकर्णपूराभे पुरे राजगृहेऽभवत् । शौर्याधिरोहनिःश्रेणिभुजः श्रेणिकभूपतिः ॥१॥ तस्याभयकुमाराख्यः कलासौधं धियांनिधिः । सुनन्दाकुक्षिकेदारनलिनं नन्दनोऽजनि ॥२॥ कन्यां चेटकभूपस्य रूपस्य कुलदेवताम् । चेल्लणां श्रेणिकः क्षोणेर्यः पर्यणयत्ततः ॥३॥ 20 अवियुक्तौ सदाऽप्येकचित्तौ तावथ दम्पती । बुभुजाते समं भोगान् भारुण्डाविव पक्षिणौ ॥४॥ राजकुञ्जरभोग्याऽथ गर्भस्थं चेल्लणाऽर्भकम् । कुतोऽप्यापतितं भेजे वनी केशरिणं यथा ॥५॥ गर्भस्थेऽस्मिन्नभूत्तस्या दोहदो भर्तृभक्षणे । अविवेकेन गर्भिण्या बुद्धर्धर्मादने यथा ॥६॥ दुर्दोहदेन तेनेयं दूषितं दुःखिता सती । स्वममन्यत धर्मज्ञा गौणकौणपयोषितम् ॥७॥ अस्थानरोगवत् हीणा कस्याऽप्यग्रे कुदोहदम् । तं सा व्यक्तुमशक्तैव कृशाऽजनि दिने दिने ॥८॥ 25 उपायकोटिभिरपि क्रूरं पातयितुं न तम् । गर्भं शशाक सा कर्म निकाचितमिवाचितम् ॥९॥ कृशताकारणं जाग्रदाग्रहेण महीभुजा । पृष्टा हीनीचदृग् गर्भं शपन्तीव शशंस सा ॥१०॥ अथाऽभयं वितीर्यास्यै क्रूरदोहदपूरणे । उपायमभयं भूपः प्रच्छन्नं पृच्छति स्म सः ॥११॥ १. दृष्टान्तः - A, KH | २. राजा - A, KH | ३. रोहितश्रे.... KH | ४. दुःखितं D, B, KI टि. 1. गाथा-२५ । 2. पृथ्व्याः कर्णाभूषणम् । 3. अर्यः स्वामी। 4. गुणेन निष्पन्नः गौणः, कौणप राक्षसः, तस्य योषित्, ताम्।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy