________________
२६१
[ कर्णिकासमन्विता उपदेशमाला । गाथा-१४७]
भ्रमभ्रमरधूमाढ्यैः किंशुकाशोकचम्पकैः । मधुः कुसुमबाणस्य ज्वलनास्त्रनिभैर्बभौ ॥४०६॥ जितमोहमहीनाथे तस्मिन्मथितमन्मथे । मधोः किं नाम कुर्वन्तु सायकाः शीर्णनायकाः ॥४०७॥ अजितेऽथ स्मरेणास्मिन् मुनौ चक्रिविजित्वरे । भीष्मो ग्रीष्मोदयाच्चक्रे चक्रबन्धुः पराक्रमम् ॥४०८॥ करानथ किरत्यर्के खादिराङ्गारदारुणान् । अभूद् बाहुबलिः कामं प्रशमामृतवारिदः ॥४०९।। जगज्जनानुरागेण स्फू तेव समन्ततः । मुनिरासीत् किलाऽऽताम्रो न पुनस्तपनातपात् ॥४१०॥ पश्यन्नस्य तपस्तीव्रमाग्नेयास्त्रमिवोदितम् । रविरुल्लासयामास जलदास्त्रं तपात्यये ।।४११॥ चक्रिदण्डनिपातं यस्तृणायापि न मन्यते । प्रभवन्तु कुतस्तस्मिन् धारादण्डाः पयोमुचाम् ॥४१२॥ ऊढप्रतिज्ञाभारोऽयं न वोढुं शक्यते मया । इतीव पन्नगेन्द्रेण प्रेरिताः फणिनां गणाः ॥४१३॥ रसातलोद्गताः श्यामाः कुटिलभ्रान्तिशालिनः । दध्रुः सर्वाङ्गमुल्लास्य तं लताततिकैतवात् ॥४१४॥ युग्मम् ॥ शिलीमुखगणैर्बाणासनान्तर्विनियोजितैः । तस्य क्षोभाय संरम्भमथारेभे घनात्ययः ॥४१५॥
10 अथ सत्त्वाद्भुतेनास्य जलैरप्यमलाशयैः । अहासि शरदि प्रीतैर्विकस्वरमुखाम्बुजैः ॥४१६॥ शुक्लध्यानेऽमुनाऽऽरब्धे भ्रष्टकेकिच्छदच्छलात् । शेषध्यानमहांसीव महीपीठे शुचाऽलुठन् ॥४१७॥ मुनेर्यश:प्रतापाभ्यामिव नैर्मल्यमज्जितम् । क्रमादम्बुदमुक्तेन्दुभानुमन्मण्डलच्छलात् ॥४१८॥ श्रीनाभिसूनुना ब्राह्मीसुन्दयौँ प्रेषिते ततः । ज्ञानाधीशप्रवेशार्हतन्मन:सौधशुद्धये ॥४१९॥ कुञ्जरादुत्तर भ्रातर्वाच्यमेतदिति प्रभुः । शिक्षा ददौ तयोर्यान्त्योर्ज्ञानश्रीकृष्टिमन्त्रवत् ॥४२०॥
15 स्थानं तदथ ते याते न मुनीशमपश्यताम् । दृष्टो गुल्मस्तु वल्लीनां सोच्छासः पुरुषाकृतिः ॥४२१॥ तत्र सम्भाव्य तं ताभ्यामुक्तां शुश्राव तां गिरम् । पार्श्वस्थगुप्तकैवल्यलक्ष्मीकर्णेजपां मुनिः ॥४२२॥ भ्रातरुत्तर मातङ्गादित्याकर्ण्य तयोर्वचः । चिन्ताचान्तमतिभ्रान्तस्तस्थिवान् स मुनिश्चिरम् ॥४२३॥ शब्दोऽयं नियतं ब्राह्मीसुन्दर्योः श्रुतिसुन्दरः । भाषेते चानृतं नैते न चारूढोऽस्मि हस्तिनम् ॥४२४॥ विकल्पं कल्पयन्नेवं दध्यौ वन्दे लघून यत् । मानोऽयमेव मे हस्ती तत्रारूढोऽस्मि धिग् जङः ॥४२५॥ 20 सत्यं मत्वेति तातेन दयां मयि वितन्वता । व्रतिन्यौ प्रतिबोधाय प्रेषिते शीलसद्मनी ॥४२६।। केवलज्ञानिनो बन्धून् लघूनपि गुणाधिकान् । करिष्ये तदहं मूर्ध्नि पुष्पस्तोमानिवामलान् ॥४२७॥ ध्यात्वेति पादमुद्यम्य भिन्ने मानमतङ्गजे । अलाभि मुनिसिंहेन केवलं मौक्तिकं फलम् ॥४२८।। मानेऽथ सर्वथा मुक्ते स्फुरन्त्या केवलश्रिया । आश्लिष्टस्य तदा तस्य विलीनं मनसा रयात् ॥४२९॥ दिवि दुन्दुभयो नेदुरभवन् पुष्पवृष्टयः । प्राप्तास्तं वन्दितुं भक्तिभासुराश्च सुरासुराः ॥४३०॥
25
१. धूपायैः - P। २. पल्लवैः - P। ३. कुटिला - C। ४. मुक्त - P | ५. मतिर्धान्त - B, P, C । ६. रसात् - B, A, D, KH, HI टि. 1. मधुः वसन्तः । 2. चक्रबन्धुः - सूर्यः । 3. शिलीमुखः - भ्रमरः पक्षे बाणः । 4. बाणासनम्-बाणः शब्दः, तस्य आसनम्कर्णः पक्षे धनुः । 5. घनात्यय: शरद् ऋतुः । 6. शेषध्यानानां - आर्त्तरौद्रधर्मध्यानानां महांसि इव। 7. भानुमान्-सूर्यः । 8. ज्ञानाधीशः - केवलज्ञानम् ।