SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २५९ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-१४७] अथ हस्तप्रहारेण रणं निश्चित्य दुर्मदौ । तावपासरतां शक्तिधन्यौ वन्यौ गजाविव ॥३५७॥ भरतेनाहतः प्राणमुष्ट्या मुष्ट्याऽथ मूर्द्धनि । क्षणं बाहुबलिर्ध्वान्तैर्ववे रविरिवाम्बुदैः ॥३५८॥ सवृत्तस्यैव कौलीनं मुनेर्मन्युरिव क्षणात् । ययौ शशधरस्येव राहुर्बाहुबलेस्तमः ॥३५९॥ ततो बाहुबलेर्मुष्टिवज्रपातेन ताडितः । पपात शैलवच्चक्री समं सैन्यमनोरथैः ॥३६०॥ बन्धुना विधुना सिक्तश्चन्दनैरमृतैरिव । कैरवाकरवन्मूर्छामथाऽमुञ्चत चक्रभृत् ॥३६१॥ निश्चित्याऽथ प्रचण्डेन दण्डेन समरोत्सवम् । अधावतामुभौ भीष्मौ धृतदण्डौ यमाविव ॥३६२॥ ततः शिरसि दण्डेन हतो भरतभूभुजा । सुनन्दासूनुराजा तु ममज्ज भुवि कीलवत् ॥३६३।। अथ मग्नौ क्रमौ तस्माद्भूतलात् पङ्किलादिव । लीलयैव क्रमेणाऽयमुद्दधार धराधवः ॥३६४॥ तद्बाहुबलिना मौलौ दण्डेन भरतो हतः । ममज्ज लज्जयैवोच्चैराकण्ठमवनीतले ॥३६५॥ बभूव क्षितिमग्नस्य चक्रिणः स्फुटमाननम् । शोकश्यामं निजयशःशशिग्रासेन राहुवत् ॥३६६॥ मग्नो गर्तादथाकर्षि चक्री कोद्दालिभिभटैः । उत्तमण्णैरिव प्रत्तदेयवित्तोऽधमर्णकः ॥३६७॥ आससाद विषादस्तद्भरतं परितो जितम् । चक्री नाऽहमसौ चक्री ध्यायन्तमिति चेतसि ॥३६८॥ अथाकस्मात् करेऽमुष्य चक्रित्वभ्रान्तिभित्तये । आरुरोह ज्वलच्चक्रं रविबिम्बमिवाम्बरे ॥३६९॥ तेन पार्श्वगतेनोच्चैश्चक्री चक्रेण सोऽज्वलत् । मार्तण्डमण्डलेनेव मार्तण्डोपलपर्वतः ॥३७०॥ अथ ज्योतिष्पथे सुस्थांस्त्रासयंस्त्रिदिवौकसः । वधाय बन्धोनि:शङ्कश्चक्री चक्रं मुमोच सः ॥३७१।। कल्याणशालिनो बाहुबलेर्मेरोरिव व्यधात् । चक्रं प्रदक्षिणाचक्रं चक्रबान्धवबिम्बवत् ॥३७२॥ गोत्रे न प्रभवत्येव चक्रमित्यवलिष्ट तत् । अमोघमप्यनिष्पाद्य चक्रवर्तिमनोरथम् ॥३७३॥ सस्मयं भस्मयिष्यामि सचक्रं चक्रवर्तिनम् । इत्युत्पाट्य क्रुधा मुष्टिं सुनन्दाभूरधावत ॥३७४॥ गतो वक्त्रं हहा चक्रवर्त्यसौ समवर्तिनः । ईदृक् कलकलारावो बभाराम्बरगह्वरम् ॥३७५॥ अत्रान्तरे विवेकार्कतेजःशाम्यन्मनस्तमाः । दध्यौ प्रवीरतामानी मानी नाभेयसम्भवः ॥३७६।। जगतीं जिष्णुरप्येष योधैः क्रोधादिभिर्जितः । तदन्यविजितं जेतुमेनं धिग् धिग् ममोद्यमम् ॥३७७॥ तज्जयामि यदि प्रेतानेतान् जितजगत्त्रयान् । सत्यं तत्तनुजन्माऽस्मि तस्य विश्वप्रभोरहम् ॥३७८॥ स ध्यात्वेति नवद्वारे पुरे तेषां सदास्पदे । शिर:परिसरादुच्चखान तत्केशकाननम् ॥३७९॥ निवार्य सर्वव्यापारानसौ निश्चलनिश्चयः । स्वतन्त्रस्तत्र पानान्नप्रवेशमरुधत्ततः ॥३८०॥ बन्धवो लघवः सर्वे केवलज्ञानशालिनः । कथं वन्द्या मया साक्षाद् गत्वा तातस्य सन्निधौ ॥३८१॥ 15 20 25 टि. 1. कौलीनं - लोकापवादः । 2. चक्रबान्धवः - सूर्यः । 3. समवतिन् (पुं)- यमः, तस्य। 4. प्रवीरतामानी - स्वस्य प्रवीरतां मन्वानः 5. पुरं - नगरं पक्षे शरीरम्, तस्मिन् । 6. क्रोधादिकषायाणाम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy