________________
२५८
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४७] तथेति प्रतिपेदाने प्रार्थनां पृथिवीपतौ । नातिदूरस्थितास्तस्थुर्मध्यस्थास्ते दिवौकसः ॥३३१॥ अथ स्वामिसमादेशादारुह्य करिणो रणात् । जवान्निवारयामासुनुपयोः पुरुषा भटान् ॥३३२॥ राजाज्ञामथ राजन्याः सैन्ययोरुभयोरपि । श्रुत्वा ववलिरे कष्टं रुष्टा मुष्टा इवाहवात् ॥३३३॥ श्रुत्वा सङ्गरमङ्गाङ्गि सैनिकास्तेऽथ चक्रिणः । परस्परमिति प्रोचुः शोचन्तो देवमन्त्रितम् ॥३३४॥ अहो धिगिदमायातं सङ्कटं स्वामिनोऽधुना । समं श्रीबाहुबलिना बलिना सह यो रणः ॥३३५॥ नियुद्धबुद्धिदानेऽस्मिन् दोषः को वा दिवौकसाम् । ईदृशानां मुधा नाम कौतुकं को न पश्यति ॥३३६॥ जानता भुजयोर्वीर्यमनुजस्य महीभुजा । एतन्मेने न जानीमस्तत्काऽपि भवितव्यता ॥३३७॥ स्वसैनिकानां श्रुत्वेति गिरो भरतभूपतिः । बलं दर्शयितुं स्वस्य तानहायेदमब्रवीत् ॥३३८॥ मया दृष्टोऽद्य दुःस्वप्नः किल शृङ्खलमण्डलैः । बद्ध्वाऽऽकृष्य तटाद् भूपाः कूपान्तसमपातयन् ॥३३९॥ अशिवस्य विभेदाय स्वप्नार्थोऽयं ततोऽधुना । अवश्यं सत्यतां नेयो भवद्भिर्बलशालिभिः ॥३४०॥ अनिच्छतामिदं राज्ञां प्रभोर्व्यसनसाहसम् । आज्ञां दत्त्वा स राजेन्दुः कूपमेकमकारयत् ॥३४१॥ अवटस्य तटे तस्य निविष्टो भरतेश्वरः । शृङ्खलानां सहस्रेण वामहस्तावलम्बिना ॥३४२॥ सर्वसैन्याभिसारेण सर्वैरुर्वीभुजां गणैः । सर्वस्थाम्ना समालम्ब्य समाकृष्यत पीठतः ॥३४३॥ युग्मम् ॥
ससैन्यानपि राजन्यान् शृङ्खलासु विलम्बिनः । रोमभ्यो नाधिकान्मेने बलवान् भरतेश्वरः ॥३४४॥ 15 हृद्यं हृद्यङ्गरागं स तेने तेनैव पाणिना । पेतुस्ते तु समं दत्तसङ्केता इव भूभुजः ॥३४५॥
दृष्टेन च बलेनास्य सम्भावितपराक्रमाः । भूभुजो भेजिरेऽम्भोजस्मेरवक्त्रास्तदा मुदम् ॥३४६॥ अथ श्रीबाहुबलिना समं समरसीमनि । प्रथमं दृष्टियुद्धाय प्रतिज्ञां कृतवान् नृपः ॥३४७।। उभावभिमुखौ तत्र निमेषविमुखेक्षणौ । प्रत्यूषपूष-पूर्णेन्दुविभ्रमं बिभ्रतुश्चिरम् ॥३४८॥
निरीक्ष्य निर्निमेषत्वं समरं यातयोस्तयोः । तदाद्यनिमिषीभावं मन्ये मैन्युभुजोऽभजन् ॥३४९।। 20 सन्तप्ते सोष्मणो बाहुबलेरालोकनाच्चिरम् । स्नपयित्वाश्रुभिश्चक्री प्रावृणोत्पक्ष्मणा दृशौ ॥३५०॥
अहो जितं जितं बाहुबलिना बलिनाऽमुना । इत्थं कलकलं चक्रुस्तदा विजयसाक्षिणः ॥३५१॥ दृग्सङ्ग्रामजितेनाऽथ समं भरतभूभुजा । प्रारेभे शब्दसमरं दक्षस्तक्षशिलाविभुः ॥३५२॥ विवस्वदश्ववित्रासी शशिसारङ्गभङ्गकृत् । चक्रिणा सिंहनादोऽथ लोडितः क्रोडिताम्बरः ॥३५३॥
चमत्कारिणि विश्वानां विरते भारते ध्वनौ । सिंहनादो महान् बाहुबलिनो व्यानशे दिशः ॥३५४॥ 25 क्षयाब्दगर्जिसंवादे नादे तस्मिन् विसर्पति । अभूदकालकल्पान्तशङ्कातङ्कातुरं जगत् ॥३५५।। त्रुट्यत्पर्वतशृङ्गेण क्षुभ्यदम्भोधिनाधिकम् । विजिग्ये तेन शब्देन भूयो भरतभूपतिः ॥३५६॥
१. सर्वतः - B, A । २. विलम्बितान् - C । ३. सोष्मणा - P। टि. 1. प्रात:कालसूर्यः । 2. मन्युभुक् - देवः ।