________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४७]
२५७ अथो भरतमभ्येत्य दत्त्वाशीर्वादमादरात् । देवा एवमवोचन्त प्रशान्तं स्वान्तशान्तये ॥३०५॥ षट्खण्डभरतक्षेत्रविजये तव सर्पतः । सम्मुखीनोऽभवत्कश्चिन्न चेन्नाभेयनन्दनः ॥३०६॥ दोर्दण्डकण्डूभेदाय तत्कि नाम महाभुज ! । निजेन बन्धुना सा युद्धसज्जो न लज्जसे ॥३०७॥ युग्मम् ॥ अथाह चक्री गीर्वाणान् युक्तमेतद्भवद्वचः । किन्तु सम्यग् न जानीथ बन्धुना रणकारणम् ॥३०८॥ न दो:कण्डूभरच्छेदबुद्धियुद्धे निबन्धनम् । हेतुः किन्तु रथाङ्गस्याप्रवेशः शस्त्रमन्दिरे ॥३०९॥ अनुप्रविश्य मां शस्त्रगृहे चक्रं प्रवेश्य च । षटखण्डभरतक्षेत्रपतिर्भूयान्ममाऽनुजः ॥३१०॥ अनेन वचसा बाहुबलिं बोधयताऽधुना । यदि युद्धनिषेधाय युष्माकमयमुद्यमः ॥३११॥ अथोचुस्ते पुनर्देवा यद्यसौ नहि बुध्यते । तथापि नाऽस्त्रैर्योद्धव्यमाज्ञात्र ऋषभप्रभोः ॥३१२॥ दृष्टि-वाग्-दण्ड-दोर्दण्ड-युद्धैरेव बलाबलम् । युवयोञ्जस्यते किं तदाऽऽयुधैर्दारुणै रणे ॥३१३॥ ओमित्युक्तवति क्षमापे ततो जग्मुर्दिवौकसः । नृपं बाहुबलिं मूर्तमिव वीररसं प्रति ॥३१४॥
10 जयेत्याशिषमुद्दाम्नी दत्त्वा प्रीतेन चेतसा । सुधामधुमुचा वाचा प्राहुर्बाहुबलिं सुराः ॥३१५॥ ज्यायानयं नयोत्तंस ! किं न सत्क्रियते त्वया । संरम्भः किमयं वीर ! भरतं प्रति सम्प्रति ॥३१६॥ जेया रागादयस्तावद् ये युगादिजिनेशितुः । तदङ्गजस्य ते तात ! पोषस्तेषां किमु क्षमः ॥३१७॥ नतिमात्रेण यस्तोषं भजत्येष तवाग्रजः । कथङ्कारं तमाराध्य नात्मसात्कुरुषे क्षमाम् ॥३१८॥ अथ बाहुबलिः प्राह सुरान् गम्भीरया गिरा । इत्थं कथमविज्ञातवस्तुतत्त्वैरिवोच्यते ॥३१९॥ यद्यसौ भ्रातृभावेन मत्तः सत्कारमिच्छति । युक्तं तदेष यत्तातसम एव ममाग्रजः ॥३२०॥ परं प्रौढप्रतापत्वाज्जितकाशितया तया । आक्रम्य नमयेद्यन्मां न तदेतदहं सहे ॥३२१॥ विनष्टं न तदद्यापि किमप्यस्ति महौजसः । दूरादपसरत्वेष वलितोऽस्मि रणादहम् ॥३२२॥ अपरक्ष्मापसामान्यामाज्ञां कारयितुं पुनः । मयि क्रोधोद्धतं धावन् दन्तीवाद्रौ भविष्यति ॥३२३॥ तदनिष्टफलो भाति मन्त्रहीनस्य निश्चितम् । वह्निमुष्टिंधयस्येव नरेन्द्रस्यायमुद्यमः ॥३२४॥ ऋते न तातपादांस्तु स्वामी मम भवेत् परः । विना दिनाधिपं किं स्यात्कोकस्याऽन्यः प्रियाकरः ॥३२५॥ अथाहुरमराः श्रीमन्निःसीमगुणगौरव ! । कार्येऽत्र विशदाऽप्येषा नास्माकं क्रमते मतिः ॥३२६॥ एकतश्चक्रिणश्चक्रं त्वत्प्रणामसमीहया । न विशत्यायुधागारं बिभ्राणमकृतार्थताम् ॥३२७॥ अन्यतस्तव पश्यामः सर्वथा विनयं वयम् । तत्कि युक्तं भवेद्वक्तुमस्माकं जगतीपते ! ॥३२८॥ अभ्यर्थयामहे किन्तु भवन्तं भुवनातिगम् । युद्धेन न हि योद्धव्यं प्राणिप्राणापहारिणा ॥३२९॥ दृग्-वाग्-दण्डादियुद्धेन बलाबलपरीक्षणम् । कृत्वा जयो व्यवस्थाप्यः साक्षिणोऽमी भवामहे ॥३३०॥
15
20
25
१. प्रियङ्करः - C,DI २. गौरव:-P,A; गौरवं - KH, H। ३. जगतीपतेः - P, KH, LI४. भुवनप्रभोः - KH भुवनप्रभो - P।