________________
5
२५०
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४७] पश्यन्तीनां पुरो हारयष्टियुग्मेऽभिबिम्बित: । हृदि स्फुटीभवत्कामद्वितीय इव योषिताम् ॥१३६॥ व्यालोलानिव कल्लोलानानन्दक्षीरनीरधेः । पश्यन् वातेरितान् केतुपटाननुनिकेतनम् ॥१३७॥ भासुरं रभसाऽऽरब्धवाद्यनृत्यादिकौतुकैः । कृतमाङ्गलिकं लोकं मञ्चे मञ्चे कृतार्थयन् ॥१३८॥ बालाः पुत्रीरिव तदा सुप्रौढा भगिनीरिव । जननीरिव वृद्धास्तु निर्विकारं विलोकयन् ॥१३९॥ समाससाद सदनं सदनन्तगुणो नृपः । अमन्दानन्दसन्दोहकन्दो हरिपराक्रमः ॥१४०॥ षड्भिः कुलकम् ॥ अभ्येत्याभ्येत्य भूपालैः क्रमशः परिकल्पितम् । स भेजे चक्रवर्तित्वाभिषेकं द्वादशाब्दिकम् ॥१४१॥ स पश्यन् स्वजनान् सर्वान् सुन्दरी मन्दिरोदरे । ददर्श कर्शिताकारां कलामिव कलावतः ॥१४२॥ कृशत्वकारणं तस्याः सापेक्षमथ भूभुजा । पृष्टा नियोगिनः प्रोचुर्नाऽस्माकं देव ! दूषणम् ॥१४३॥
प्रभोः षष्टिसहस्राब्दी दिग्जयादिदिनादियम् । आचामाम्लानि विदधे व्रतग्रहणसाग्रहा ॥१४४॥ 10 चक्रिणा च व्रतायाऽसौ विसृष्टाऽष्टापदे गिरौ । दक्षा दीक्षां प्रभोः पार्वे जगृहे गृहनिस्पृहा ॥१४५।।
चक्रिराज्याभिषेकेऽथ तस्मिन् द्वादशवार्षिके । आगतानागतान् लोकान् प्रभुत्वादवलोकयन् ॥१४६॥ निजाऽनुजाननायातान् विज्ञाय न्यायवित्तमः । तान् प्रति प्रेषयामास दूतान् भूतलवासवः ॥१४७ ॥ युग्मम् ॥ यदि राज्यार्थिनस्तद्भोः ! भरतं कुरुत प्रभुम् । दूतोक्तिमिति ते श्रुत्वा जगदुर्भरतानुजाः ॥१४८॥
विभज्य राज्यमस्माकमेतस्यापि भवत्प्रभोः । तातेन दत्तमस्मत्तः स किमाच्छेत्तुमिच्छति ॥१४९॥ 15 अधिकेन न न: कार्यं रक्षितुं स्वं स्वयं क्षमाः । अयोगक्षेमकृत्तस्मान्नाथः कथमयं भवेत् ॥१५०॥
बलीयानथ यद्येष निःशेषद्वेषिशातनः । तदेतु वयमप्येते पितुस्तस्यैव सूनवः ॥१५१॥ किं तु तातमनापृच्छ्य वयं स्वच्छन्दकारिणः । अग्रजेन समं क्रोधाद्यो मीहामहे न हि ॥१५२॥ इत्युक्त्वाष्टापदे गत्वा नत्वा निर्वृजिनं जिनम् । तत्ते भरतसन्दिष्टं सर्वमुर्वीभुजोऽभ्यधुः ॥१५३॥ सिञ्चन्निव सुधावृष्ट्या वसुधामृषभः प्रभुः । तानुवाच ज्वलत्क्रोधवर्षोंरह्नाय शान्तये ॥१५४॥ चपला चपलेव श्री त्यसौ भुवनान्तरे । कल्याणवाञ्छया वत्सास्तत्तां गृह्णीत किं मुधा ॥१५५॥ किं च स्व:सम्भवैर्भोगर्या तृप्तिरभवन्न वः । सा मर्त्यभोगैरङ्गारकारकस्येव किं भवेत् ॥१५६॥ तथाह्यम्भोदृति कश्चिद् गृहीत्वाङ्गारकारकः । रीणवारिण्यरण्येऽगादङ्गारकरणोद्यतः ॥१५७॥ भीष्मग्रीष्मार्ककार्कश्यकृशानुकृतया तृषा । स तृप्ति नाप्तवान् सर्वं पायं पायं पयो दृतेः ॥१५८॥
क्वचित्तरुतले सुप्तः स्वप्ने सदनमागतः । परेत इव पानीयं समग्रमपि सोऽपिबत् ॥१५९॥ 25 तथाऽप्यच्छिन्नतृष्णोऽयं भ्रामं भ्रामं जलाशयान् । वह्निरौर्व इवापूर्वः सर्वानुामशोषयत् ॥१६०॥
१. इत्युक्त - C दूतोक्त...KH, KI टि. 1. चन्द्रस्य । 2. वित्तमः - उत्तमः । 3. पापरहितम् । 4. परेतः-पिशाचः । 5. और्वः-वडवाग्निः ।