________________
२४६
[ कणिकासमन्विता उपदेशमाला । गाथा - १४७ ] अतः परं गतः पारं सिन्धोरप्यस्मि ते वशः । जानीहि मां हिमांशुश्रीश्चकोरमिव सेवकम् ॥३७॥ तं विसृज्य प्रसन्नेन रथोऽथ पृथिवीभुजा । जवादचाल्यताऽम्भोधेः संरम्भाच्च मनोरथः ||३८|| प्राप्तोऽथ क्ष्मापकोटीरः कटकं जितकण्टकः । मागधाधीशमुद्दिश्य स्पष्टमष्टाह्निकां व्यधात् ॥३९॥ अथाऽनुचक्रं चलिता चक्रवर्त्तिचमूस्तदा । तटं जगाम सङ्ग्रामदक्षिणा दक्षिणाम्बुधेः ॥४०॥ वरदामाधिनाथोऽपि तत्र मागधनाथवत् । विगृह्य जगृहे दण्डमखण्डं चक्रवर्त्तिना ॥४१॥ विहिताष्टाह्निकस्तत्र चक्रमार्गानुगः क्रमात् । विपश्चित् पश्चिमं प्राप तीरं नीरनिधेरयम् ॥४२॥ र्प्रभासान्द्रः प्रभासेन्द्रं जित्वा तत्रापि पूर्ववत् । चिन्तारत्नशिरोरत्नसुवर्णादीन्यदण्डयत् ॥४३॥ तत्कृताष्टाह्निकः श्रीमाननुचक्रं चलद्बलः । ययौ चक्री महासिन्धुः सिन्धोर्दक्षिणरोधसि ॥४४॥ पूर्ववत् पौषधागारे विरचय्याष्टमं तपः । असावसाधयद्वेगाद्देवतां सिन्धुदेवताम् ॥४५॥ 10 अथ सा नभसाऽभ्येत्य तरसा भरतेश्वरम् । ऊचे तवाहं राजेन्दो ! किंकरेव करोमि किम् ? ॥४६॥ अथो यथावदाधाय प्राभृतं सा भृतं श्रिया । जगाम चामरीभूतमुक्ताताडङ्कदीधितिः ॥४७॥ तत्रापि तापितारातिर्विहिताष्टाह्निकः क्रमात् । प्राचीं प्रति चचालाऽयं चक्रानुचरसैनिकः ॥४८॥ तेीं बिभ्राणमद्वैतां वैताढ्यमगमन्नगम् । भरतार्द्धद्वयीसीमारूपं भरतभूपतिः ॥४९॥ दक्षिणेऽथ नितम्बेऽस्य स्तम्बेरममनोरमाम् । चमूममूमुचदमूममूढक्रमविक्रमः ॥५०॥ राजाऽष्टमं तपस्तेने तेनाऽथ चलितासनः । आययौ मङ्क्षु वैताढ्यकुमारोऽवधिबोधितः ॥५१॥ प्रौढानि ढौकयित्वाथ ढौकनान्येष चक्रिणे । अद्यादि तव दासोऽहमित्युदित्वा जगाम च ॥५२॥ प्रकल्पिताष्टमतपःपारणेनाथ भूभुजा । अष्टाह्निकोत्सवादूर्ध्वमादिश्यत चमूपतिः ॥५३॥ सुषेण ! गच्छ वैताढ्यसिन्धुदक्षिणनिष्कुटम् । शाधि निर्बाधमुत्तीर्य निम्नगां चर्मरत्नतः ॥५४॥ इत्यादेशमथाऽऽसाद्य माद्यत्करिकुलाकुलैः । सार्द्धमर्द्धकृतैः सैन्यैः सुषेणो निम्नगामगात् ॥५५॥ नदीमदीनसत्कर्मा चर्मानद्धेन वर्त्मना । अथोत्ततार सेनानी रसेनानीतसम्मदः ॥ ५६॥ सिंहलान् सिंहतुल्यौजा बर्बरान् गर्वपर्वतः । यवनान् यवनाश्वश्रीः कालः कालमुखान् रणे ॥५७॥ अपरानपि राजश्रीजनको योनकादिकान् । पराजिग्ये सुखेनैव सुषेण ध्वजिनीपतिः ॥५८॥ युग्मम् ॥ जित्वेति सिन्धुमुत्तीर्य कीर्यमाणयशा जनैः । चक्रिणो ढौकयाञ्चक्रे तद्दण्डान् दण्डनायकः ॥५९॥ तत्तमिस्रागुहाद्वारकपाटोद्घाटनाय सः । आदिष्टश्चक्रिणा चक्रे गत्वा तत्राऽष्टमं तपः ॥६०॥
कृतमालाभिधं देवमथोद्दिश्य चमूपतिः । तमिस्त्राकन्दराद्वारि वितेनेऽष्टाह्निकामहम् ॥ ६१॥
5
15
20
25
१. दीनादण्ड...C । २. तटीबि - KH, K, L । तटीबि - H, B, D। ३. मद्वैता- KH, K, L, P मद्वैतं H, B, मद्वैत - LI ४. नाशुश्रीः - L | ५. महः KH, C
टि. 1. चन्द्रः । 2. प्रभया सान्द्रः मनोहरः प्रभासान्द्रः चक्री । 3. चर्मरत्नेनाऽऽबद्धेन मार्गेण । 4. ध्वजिनी सेना ।