________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४३-१४६ ]
२४१ ___ गुरुर्गुरुतरोऽतिगुरुः क्रमेण पितृमात्रोरपत्येषु प्रियजनेषु च तेषां द्वन्द्वे तेषु तद्विषयः स्नेहः । तत्र गुरुः पितृमातृजः स्नेहो दुस्त्यजत्वात्, गुरुतरोऽपत्यस्नेहो दुस्त्यजतरत्वात्, भार्याभगिन्यादिप्रीतिः प्रियजनस्नेहः सुदुस्त्यजतमत्वात् अतिगुरुस्तद्वियोगादौ मरणादिदर्शनाच्चिन्त्यमानश्चायं गुपिलो गहनतमः, त्यक्तोऽतिधर्मतृषितैर्धर्मालम्पटैः साधुभिर्विरुद्धत्वात् तस्येति ॥१४२॥ यत:
अमुणियपरमत्थाणं, बंधुजणसिणेहवइयरो होइ ।
अवगयसंसारसहाव-निच्छयाणं समं हिययं ॥१४३॥ अमुणितपरमार्थानां बन्धुजनस्नेहव्यतिकरो भवति । अवगतसंसारस्वभावनिश्चयानां निर्मातविशरारुरूपसंसारस्वरूपनिश्चयानां साधूनां, समं तुल्यं तेषु बन्धुषु रागत्यागात् तदितरेषु द्वेषत्यागाच्च एकोदासीनस्वभावं हृदयमिति ॥१४३॥
___ वत्सलेषु बन्धुषु स्नेहः कथं त्याज्य इत्यपि मृगतृष्णा तेषामिहाप्यनर्थहेतुत्वादिति सप्तभिर्दृष्टान्तैः प्रतिपादयितुमिदमाह
माया पिया य भाया, भज्जा पुत्ता सुही य नियगा य ।
इह चेव बहुविहाई, करंति भयवेमणस्साइं ॥१४४॥ माता पिता च भ्राता भार्या पुत्राः सुहृदश्च मित्राणि, निजकाश्च स्वजनाः, सर्वत्र चशब्दाः समुच्चये। 15 इहैव बहुविधानि नानाप्रकाराणि, कुर्वन्ति भयवैमनस्यानि त्रासमनोदुःखानीति समुदायार्थः ॥१४४॥ अवयवार्थं तु प्रतिद्वारं विवक्षुरिदमाह
माया नियगमइविगप्पियम्मि अत्थे अपूरमाणम्मि ।
पुत्तस्स कुणइ वसणं, चुलणी जह बंभदत्तस्स ॥१४५॥ माता जननी, निजकमतिकल्पिते स्वकबुद्धिचिन्तितेऽर्थेऽपूर्यमाणेऽसङ्घट्टमाने, पुत्रस्य करोति 20 व्यसनमापदम् । चूलनी यथा ब्रह्मदत्तस्येति समासार्थः । व्यासार्थस्तु ब्रह्मदत्तचरिते प्रागुक्त एव ॥१४५।। पितरमधिकृत्याह
सव्वंगोवंगविगत्तणाओ, जगडणविहेडणाओ य ।
कासी य रज्जतिसिओ, पुत्ताण पिया कणयकेऊ ॥१४६॥ सर्वाङ्गोपाङ्गविकतनाः सकलाऽवयवच्छेदनाः, जगडनविहेडनाः कदर्थनविबाधनाश्च, अकार्षीत् कृतवान्, चशब्दात् कारितवांश्च । राज्यतृषितः पुरा ममैते राज्यं हरन्तीति बुद्ध्येत्यर्थः, पुत्राणां पिता कनककेतुर्नाम राजेति ॥१४६॥ कनककेतुकथा चैवम्
__ [कनककेतुकथानकम् ॥] सम्पदां धामनि पुरा पुरे तेतलिनामनि । अत्युग्रशासनो जज्ञे राजा कनककेतनः ॥१॥
25
30