________________
२४०
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४२] श्रावस्त्यामन्यदा पुण्योद्यानं बहिरुपेयुषः । सूरेविजयसेनस्य वन्दकः स्कन्दकोऽगमत् ॥४॥ धर्मं श्रुत्वा सवैराग्यः स्पृहयालुः शिवश्रियम् । स स्वं पितरमापृच्छ्य साग्रहो जगृहे व्रतम् ॥५॥ व्रतादनु पिताऽस्योच्चैः सितमातपवारणम् । अजस्रं धारयामास वात्सल्यात् परिचारकैः ॥६॥ प्रतिकूलेऽनुकूले च द्विष्टैः शिष्टैच कल्पिते । द्वेषमूझेभयत्यागात् संयमी खलु संयमी ॥७॥ श्रद्धालौ तीव्रनिर्बन्धे भक्तिमातन्वति स्वयम् । विधिवत् प्रतिषेधेऽपि शान्ताः सम्यगुदासते ॥८॥ क्रमेणाऽधीतसिद्धान्तः स्वगुरूणामनुज्ञया । जिनकल्पं प्रपद्याऽयं विजहार धरातले ॥९॥ क्रमात् काञ्ची पुरीं प्राप्तो रथ्यायां विहरन्नसौ । गवाक्षगतयाऽदर्शि सहोदर्या सुनन्दया ॥१०॥ बन्धुर्बन्धुसधर्मा वा सातपत्रः क ईक्ष्यते । इत्यस्याः संशयानाया मुदा हृदयमस्फुरत् ॥११॥ दृशा तमेव पश्यन्ती स्निग्धयाश्रुविमिश्रया । तत्त्वाद्भावानभिज्ञेन दृष्टा प्रियतमेन सा ॥१२॥ तदृष्टिरागमेवागस्तेनोत्प्रेक्ष्य विशङ्किना । अघानि चिन्वताऽघानि मुनिनिशि दुरात्मना ॥१३॥ अन्तःपुरोपरि स्रस्ता रक्ताक्ता शकुनेर्मुखात् । सम्यक् विलोकिता प्रातर्महर्षेर्मुखपोतिका ॥१४॥ किमेतदिति पृष्टाऽथ प्रियादासी जगाद ताम् । स ह्यो दृष्टचरः साधुनिशि केनाऽपि घातितः ॥१५॥ मूच्छिता तन्निशम्यैव महीपीठे लुलोठ सा । दास्यैवाश्वास्य पृष्टाऽथो जगाद करुणां गिरम् ॥१६॥ भ्राताऽयं स्कन्दको ज्यायान् मा भूदिति मतिर्मम । यत्तपस्तप्यते सोऽपि तीव्रमित्यस्ति मे श्रुतिः ॥१७॥ न चैवमन्यमालोक्य नेत्रयोर्मनसश्च मे । निर्वृतिर्जायते हैओऽतितरां कातराऽस्मि तत् ॥१८॥ सम्यक् प्रवृत्तिमन्वेष्टुं जनकस्याऽथ वेश्मनि । सा प्रैषीन्मानुषं सोऽपि प्रत्यायातो न्यवेदयत् ॥१९॥ जिनकल्पो गतः काञ्चीमिति श्रुत्वाऽथ तद्गिरम् । मोहेन मूर्च्छता मूर्छा प्रापिता साऽपि तापिनी ॥२०॥ शनैः संज्ञां समासाद्य माद्यदुःखा रुरोद सा । हा मद्वत्सल ! हा बन्धो ! हा क्वाऽसीति प्रलापिनी ॥२१॥
जनकान्निविशेषस्य दैवतादुत्तमस्य च । अग्रजस्य मुनेः कीदृग् मङ्गल्यं निर्ममे मया ॥२२॥ 20 अहो सहोदरत्वेऽपि कियदन्तरमावयोः । तीर्थानां पावनः स त्वमहं पापेषु पापिनी ॥२३॥
विलपन्त्येवमन्यान्यैरपूर्वैः प्रेक्षणेक्षणैः । साऽनीयत विशोकत्वं चिरान्मन्त्रिमहत्तमैः ॥२४॥ अद्यापि तत्प्रभृत्येव तत्र देशे मृगीदृशाम् । अवधिः प्रेक्षणीयानां भ्राजते भ्रातुरुत्सवः ॥२५॥
. इति स्कन्दकुमारकथानकम् ॥ अमुमेवार्थं समर्थयति25
गुरु गुरुतरो य अइगुरू, पिइमाइअवच्चपियजणसिणेहो । चिंतिज्जमाणगुविलो, चत्तो अइधम्मतिसिएहि ॥१४२॥
15
१. किमीक्ष्यते- L त्र:कईष्यते - Kत्र:सईष्यते - KH । २. अतिमिश्रया - P वि....A|३. वर:-P,A, KH, CI४. तापसी AI
टि. 1. परमार्थतः इत्यर्थः । 2. [भूतपूर्वे पचरट्] ७।२।७८ इत्यनेन चरट् प्रत्ययः, दृष्टपूर्वः इत्यर्थः । 3. हळे - दास्या आमन्त्र्यणार्थकोऽयं शब्दः । 4. दैवतः-देवः, तस्मात् ।