________________
२३६
[कर्णिकासमन्विता उपदेशमाला । गाथा-१३४-१३६ ] हीनतरको वा भवेत् क्षयस्तपःसंयमयोरितिगम्यं, तथाऽपि व्यवहारमात्रेण भण्यते इदं वक्ष्यमाणं, यथा स्थूलं बादरदृष्ट्या न सूक्ष्मेक्षिकयेति ॥१३३।। तदेवाह
फरुसवयणेण दिणतवं, अहिक्खिवंतो य हणइ मासतवं ।
वरिसतवं सवमाणो, हणइ हणंतो अ सामण्णं ॥१३४॥ परुषवचनेन कर्कशवाक्येन, तपो दिवसकृतं, तपउपलक्षणत्वात् संयमं च हन्तीति सम्बन्धनीयम्, अधिक्षिपन् जात्यादिभिर्हीलयन् मासतपः, वर्षतपः शपमानः आक्रोशन् हन्ति, नन् प्रहरन् पुनः श्रामण्यम् आजन्मसञ्चितं सकलं व्रतपर्यायमिति ॥१३४॥
अह जीवियं निकिंतइ, हंतूण य संजमं मलं चिणइ ।
जीवो पमायबहुलो, परिभमइ जेण संसारे ॥१३५॥ अथ जीवितं प्राणितव्यं, निकृन्तति च्छिनत्ति मारयतीत्यर्थः, हत्वा च संयमं चशब्दात्सकलकालजनितं तपश्च क्षयं नीत्वा, मलं चिनोति पापकर्म बध्नाति, जीवः प्रमादबहुलः परिभ्रमति, येन पापकर्मणा बद्धेन हेतुभूतेन, संसार इति ॥१३५॥ ततः क्षन्तव्यमेवेत्युपदिशति
अक्कोसणतज्जणताडणाओ, अवमाणहीलणाओ य ।
मुणिणो मुणियपरभवा, दढप्पहारि व्व विसहति ॥१३६॥ आक्रोशो दुर्वाक्यैः शपनं, तर्जना साक्षेपमङ्गल्यादिभिर्भर्त्सना, ताडना रज्ज्वादिभिर्घातदानम्, अपमानः परिभवः, हीलना निन्दा, चौ समुच्चयार्थों, एताः सर्वा अपि मुनयो मुणितपरभवा ज्ञातपरलोकमार्गा दृढप्रहारिवद् विषहन्ते इति ॥१३६।। दृढप्रहारिकथा चैवम्
[दृढप्रहारिकथानकम् ॥] पुरे क्वापि वसन् कोऽपि द्विजो दुर्नयदुर्द्धरः । आक्षिप्तो रक्षकैर्धन्यंमन्योऽगाच्चौरपल्लिकाम् ॥१॥ स्वतुल्यं पल्लिपश्चौर्यशौर्यक्रौर्यादिभिर्गुणैः । तं मत्वा पुत्ररहितः पुत्रत्वेनान्वमन्यत ॥२॥ ख्यातो दृढप्रहारीति स जन्तून् प्रहरन् दृढम् । स्वस्थाने पल्लिनाथेन स्वाऽन्त्यकाले निवेशितः ॥३॥
साकं लुण्टाकचक्रेण कदाचिल्लुण्टनाय सः । ययौ कुशस्थलं नाम ग्राममुद्दामदुनयः ॥४॥ 25 दरिद्रो देवशर्मेति तदा तत्र द्विजोऽर्भकैः । क्षाराम्बुधिरिव क्षीरं दीनैः क्षीरान्नमर्थितः ॥५॥
स क्वापि तन्दुलान् क्वापि दुग्धमभ्यर्थ्य पायसम् । सिद्धं विधाप्य मध्याह्ने ययौ स्नानाय सोत्सवः ॥६॥ आपत्य तदपत्यानां जीवितस्यापि जीवितम् । जगृहुः क्रन्दतां चौराः तत्क्षीरान्नं क्षुधातुराः ॥७॥ ते गत्वाऽऽख्यन् पितुर्डिम्भा रुदतामिह तात ! नः । क्षैरेयीं जगृहुश्चौराः श्यामिकां चक्षुषामिव ॥८॥
१. सोत्सुक: B, सोत्सक: KH |