________________
२३४
[कर्णिकासमन्विता उपदेशमाला । गाथा-१२३-१२८] तदेतदविवेकमूलं सर्वं विज्ञाय विवेकसिद्धये जिनागमे प्रमादो न कार्य इत्याह
भवसयसहस्सदुल्लहे, जाइजरामरणसागरुत्तारे ।
जिणवयणमि गुणागर !, खणमवि मा काहिसि पमायं ॥१२३॥
भवशतसहस्रदुर्लभे जन्मलक्षदुष्प्रापे जातिजरामरणसागरोत्तारे मुक्तिरूपतटप्रापकत्वात्, जिनवचने 5 सर्वज्ञभाषिते, शिष्यमुत्साहयितुमामन्त्रयति, हे गुणाकर ! ज्ञानाद्युत्पत्तिस्थान ! क्षणमपि स्वल्पकालमपि मा कार्षीः प्रमादं शैथिल्यं, किन्तु तद्ग्रहणासेवनाभ्यामुद्योगं विदध्या इति ॥१२३॥ प्रमादेषु प्रथमं रागद्वेषौ विजेयावित्याह
जं न लहइ सम्मत्तं, लभ्रूण वि जं न एइ संवेगं ।
विसयसुहेसु य रज्जइ, सो दोसो रागदोसाणं ॥१२४॥ 10 यन्न लभ्यते सम्यक्त्वं लब्ध्वापि, यन्न एति संवेगं नाप्नोति मोक्षाभिलाषं विषयसुखेषु च
शब्दादिजन्येषु, रज्यते प्रसज्यते, स दोषो रागद्वेषयो ऽन्यस्यापराधस्तयोरेव जीवविपर्यासहेतुत्वादिति ॥१२४॥ ततः किमित्याह
तो बहुगुणनासाणं, सम्मत्तचरित्तगुणविणासाणं ।
न हु वसमागंतव्वं, रागदोसाण पावाणं ॥१२५॥ तस्माद् बहुगुणो नाशो ययोरिति बहुगुणनाशयोः सम्यक्त्वचारित्रगुणानां ज्ञानादीनां विनाशयोः, साक्षात् प्रलयरूपयोः न हु नैव वशमागन्तव्यं रागद्वेषयोः पापयोर्न तदायत्तैर्भाव्यमिति ॥१२५॥ यतः
न वि तं कुणइ अमित्तो सुट्ट वि सुविराहिओ समत्थो वि ।
जं दोवि अणिग्गहिया, करंति रागो य दोसो य ॥१२६॥
नापि नैव, तत्करोत्यमित्रं, सुष्ठ्वपि नितरां, सुविराधितः प्रखलीकृतः, समर्थोऽपि लब्धात्म20 लाभोऽपि, यत् द्वावपि अनिगृहीतौ उच्छृङ्खलौ, कुरुतो रागश्चद्वेषश्च तयोः प्रत्येकमनन्तभविकमरणहेतुत्वादिति ॥१२६॥ यत्तौ कुरुतस्तदाह
इह लोए आयासं, अयसं च करेंति गुणविणासं च ।
पसवंति य परलोए, सारीरमणोगए दुक्खे ॥१२७॥ ___ इह लोके आयासं शरीरमनस्तापम्, अयशोऽपकीर्ति, कुरुतो गुणानां ज्ञानादीनां माहात्म्यहेतूनां 25 विनाशं च, प्रसुवाते च परलोकेऽन्यजन्मनि शारीरमनोगतानि दुःखानि रागद्वेषौ, तयोर्दुर्गतिहेतुत्वादिति ॥१२७॥ एवं च
धिद्धी अहो अकज्जं, जं जाणंतो वि रागदोसेहिं । फलमउलं कडुयरसं, तं चेव निसेवए जीवो ॥१२८॥
15
१. लभते - C, K, KH, H, L, D, B | २. सुतरां - P।