________________
२३३
[कर्णिकासमन्विता उपदेशमाला । गाथा-१२२]
क्षम्यतां मे परीक्षार्थं कृतं यत्ते कदर्थनम् । इत्युक्त्वाऽयं ययौ देवः प्रभाधौतनभा दिवम् ॥५०॥ एवं परीषहान् सोढुः सभावर्ती जगद्गुरुः । प्रशंसां कामदेवस्य कामारिरपि निर्ममे ॥५१॥ जगाम कामदेवोऽपि प्रातः पारितपौषधः । जगत्प्रभुप्रणामाय विमायश्रावकव्रतः ॥५२॥ बभाषेऽथ सभामध्ये गौतमप्रभृतीन् प्रभुः । कामदेवोऽयमप्येवं गृही सेहे परीषहान् ॥५३॥ स धीरः स च धन्यात्मा न भग्नो यः परीषहै: । भवद्भिरपि तत्तत्र यतितव्यं यतीश्वराः ! ॥५४॥ एकादशाऽप्यथ श्राद्धप्रतिमा मंतिमानसौ । कामदेवः क्रमादेव प्रपेदे वृजिनच्छिदः ॥५५॥ ततः संलेखनामेष विधाय विधिवत्सुधीः । गृहीताऽनशन: सोऽन्ते व्यपद्यत समाहितः ॥५६॥ चतुष्पल्यस्थितिः कल्पे सोऽरुणाभे सुरोऽभवत् । विदेहेषु नृदेहेन सिद्धिं यास्यत्यतश्च्युतः ॥५७॥
इति कामदेवाख्यानम् ॥ अविवेकिनः पुनर्निष्कारणं कुप्यन्ति । तद्द्वारेण चाऽभुक्तभोगा एवानर्थकं कुगतौ पतन्तीत्याह- 10
भोगे अभुंजमाणा वि, केइ मोहा पडंति अहरगई।
कुविओ आहारत्थी, जत्ताइ जणस्स दमगो व्व ॥१२२॥ भोगान् विषयान्, अभुञ्जाना अपि केचित् प्राणिनो, मोहादज्ञानात् पतन्त्यधरगतिं यान्ति नरकम् । दृष्टान्तमाह-कुपित आहारार्थी भोजनप्रार्थकः, यात्रायामुद्यानिकायां जनस्योपरि द्रमक इव रङ्क इवेति ॥१२२।। तत्कथा चैवम्
[द्रमककथानकम् ॥] पुरे राजगृहे लोकाः कदाचित् क्वचिदुत्सवे । ययुरुद्यानिकाहेतोर्वैभारानेरुपत्यकाम् ॥१॥ निशम्याऽऽरक्षकेभ्यस्तन्नगरान्तः क्षुधातुरः । तत्राऽगात् द्रमकः कश्चिन्निर्भाग्यानां शिरोमणिः ॥२॥ दानशौण्डेषु लोकेषु प्रमत्तेषु तदोत्सवे । दुष्कर्मवशतो भिक्षां क्वापि न प्राप पापधीः ॥३।। कोपतः सोऽपि तं लोकं सर्वं चूरयितुं हठात् । गिरिं वैभारमारोहत् तलं यातुमिवातुरः ॥४॥ खनित्रेण खनित्वाऽधः पिपातयिषुरुत्सुकः । गण्डशैलं गरीयांसं निःसङ्गमकरोत्तराम् ॥५॥ तेनैव पतता तूर्णं चूर्णितः सैष दुर्मतिः । सप्तमं नरकं प्रायश्चित्तायेव जगाम च ॥६॥ गिरेरुपरि निर्घातं गण्डशैलस्य पित्सतः । श्रुत्वा त्रस्तस्य लोकस्य जज्ञे नेषदपि क्षतिः ॥७॥
इति द्रमककथानकम् ॥
15
१. यत्तत् - C, P | २. नाभोदि...K, नभांदि - B | ३. कामदेवकथा - P| ४. किंचित् - P। ५. पिच्छत: P, पश्यत: CI
टि. 1. प्रभया धौतं नभः येन स प्रभाधौतनभाः। 2. मतिमान् असौ। 3. वृजिनं पापं छिनत्ति इति वृजिनछिद्, ताः। 4. उपत्यकापर्वतस्यासना अधोभूमिः, ताम् ।