________________
5
10
15
20
२३२
[ कणिकासमन्विता उपदेशमाला । गाथा - १२१] केशा विलासविपिनं भालमासनपट्टकः । भ्रू- नासे छत्रदण्डौ च कालस्येवेह रेजिरे ॥ २४ ॥ दृशौ चक्रे यमक्रीडारथस्येवाऽद्भुतभ्रमे । कपोलौ मृतिकुल्याया विपुले पुलिने इव ॥२५॥ नासाच्छिद्रे च बिलवत् कालमृत्यु - भुजङ्गयोः । वक्रताक्रूरतानित्यलीलादोले इव श्रुती ॥२६॥ वृतिः श्मश्रुततिर्दोंष्ट्यवासग्राम इवानने । औष्ठौ मृत्युवणिग्गोप्यलोकगोपनगोणिवत् ॥२७॥ ज्वालानुकारजिह्वालं करालं वक्त्रकोटरम् । मृत्योर्लोकपशुस्तोमहोमकुण्डमिवोत्कटम् ॥२८॥ 'कैर्मान्तराय कस्मैचिच्छेत्तुं जीवमहीरुहान् । सज्जिताः कैर्मकमरैः कुठारा इव दन्तकाः ॥२९॥ चिबुकं लम्बकण्ठाऽग्रपर्यवष्टम्भकीलवत् । अतितुङ्गवपुः स्तम्बरज्जुप्रालम्बवद्भुजौ ॥३०॥ अतिवृद्धचलत्कोशकरयष्टिवदिन्द्रियम् । ऊर्ध्वाङ्गभारदीर्णाधः शरीरार्धकवत्क्रमौ ॥३१॥ क्षुद्भुक्तजीवन्मातङ्गतृट्पीतार्णवभूरिव । उल्ललासातिघोरश्च घोषस्तस्याल्पिताऽभ्रदिक् ||३२|| छुच्छुन्दरीमयशिरोमाल्यः सरटहारभृत् । कर्णावतंसनकुलः स भुजङ्गमयाङ्गदः ||३३|| तैः शेषैरिव कीनाशनिर्माणपरमाणुभिः । सृष्टमुत्कृष्टमाकृष्टं धृत्वाऽसिं पर्यधावत ||३४|| भ्रूभङ्गोद्दामगीः कामदेवमेवमथाऽवदत् । रे रे मुञ्चेदमारब्धं छिन्दे वा त्वच्छिरोऽधुना ||३५|| तेन प्रलपतेत्युच्चैरत्युच्चैश्च मुहुर्मुहुः । ध्यानान्नाऽचालि स स्थानात् पवनेनेव पर्वतः ॥३६॥ व्रजन् विजययात्रायै मिथ्यात्वस्येव युग्यताम् । तत्क्षोभाय स देवोऽभूदिभवैभवभृत् ततः ॥३७॥ अधीरधार्मिकयशःकीर्तिग्राससहग्रदः । धीरधार्मिकविक्षोभारम्भपापैरिवासितः ||३८|| वहन् कुण्डलितं कालरात्रिकुण्डलवत्करम् । गर्जया जर्जरीकृत्य जगदेनं जगाद सः ||३९|| अप्रार्थितप्रार्थक ! रे मुञ्चेदं दुर्गुरुदितम् । कुर्वे तवाङ्गभङ्गं वा शुण्डारदपदादिभिः ॥४०॥ मुहुरित्युच्चकैर्जल्पन्नप्यनाप्तोत्तरः करी । क्रुधा चिक्षेप तं व्योम्नि भान्तं खेचरचा ॥४१॥ स तं पतन्तं दन्ताग्रे धृत्वा क्षिप्त्वा द्रुतं क्षितौ । विवेध कदलीवेधं पङ्कमर्दं ममर्द च ॥४२॥ लीनो ध्यानसुधाम्भोधौ स एभिः कुम्भिताडनैः । अधोऽधो निममज्जेह वज्रमज्जेव नाऽदलत् ॥४३॥ सुराधमोऽथ मिथ्यात्वमहाकरिकरोपमम् । तत्प्रक्षोभाय भौजङ्गमङ्गमङ्गीचकार सः ॥४४॥ तथैवाऽऽलप्य तं भोगी योगीश्वरमनुत्तरम् । भोगानावेष्टयद्वाढं वध्रेण वरवंशवत् ॥४५॥
दंशं दंशं तदङ्गेषु वर्षं वर्षं विषाणि च । तस्य व्यवर्द्धयद्ध्यानधर्मं स्वस्य भवं फणी ॥४६॥ ततः स्वरूपमास्थाय सत्प्रभाप्रसरः सुरः । साधु साध्वित्यनल्पोक्तिः कामदेवं जजल्प सः ॥४७॥
25 स्तुतोऽसि वास्तोष्पतिना यथा दिवि तथाऽसि भोः ! । न प्रभुत्वबलादाख्यदवस्तुनि स वस्तुताम् ॥४८॥ यथा यथा परीक्षार्थं तापितोऽसि तथा तथा । तव प्रववृधे ध्यानं सुवर्णस्येव वर्णिका ॥४९॥
१. काल - KH, A, K, DI २. भूदैभ:...PI, भूद्दैव...DI, भूदैव - C I
टि. 1. कर्मान्तरं - अन्यत्कर्म, तस्मै । 2. कर्म एव कर्मारः शिल्पी तैः । 3. वास्तोषपतिः - इन्द्रः तेन ।