________________
२२६
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ११३] प्राप्तो राजगृहे दीक्षामाप्याऽथ स्थविरान्तिके । गीतार्थो वारदत्ताख्यं नगरं स क्रमादगात् ॥२७॥ तत्राऽथ काले भिक्षायाः सैषणासमितो मुनिः । जगाम धाम धन्यस्य वारदत्तस्य मन्त्रिणः ॥२८॥ सप्पिर्मधुविमिश्राच्च पायसादुपढौकितात् । बिन्दुं दृष्ट्वा च्युतं तत्र भिक्षां नैच्छन्महामुनिः ||२९|| गते भिक्षामनादाय सविमर्शो मुनीश्वरे । मत्तवारणगो वारदत्तश्चित्ते व्यचिन्तयत् ॥३०॥
बिन्दुर्जातु च्युतो दातुरवद्यं विद्यतेऽत्र किम् । भिक्षा प्रेक्षावताऽनेन नाऽऽत्ता निर्हेतुकं न तत् ॥३१॥ ततस्तस्मिन्निपेतुश्च बिन्दौ मधुनि मक्षिकाः । आजगामाऽऽ जिहीर्षुस्ताः कुंड्यमत्स्योऽथ सस्पृहः ||३२|| तं प्रत्यथोपदुद्राव प्रैतिसूर्यशयानकः । स पश्चादोतुना दूरादेत्य द्रुतमुपद्रुतः ॥३३॥ तमगारमृगोऽधावदगारान्तश्चरोऽन्तिकात् । पुप्लुवे तमभिक्रुध्यन्नध्वनीनः शुनः पुनः ॥३४॥ गृहचारभटाः श्वानप्रतिग्राहानुबन्धिनः । भग्नाः पान्थभटैर्भूयः सम्भूय बहवोऽचलन् ॥३५॥ 10 अथैतेषां च तेषां च रोषभाजां शराशरि । खड्गाखड्गि क्रमेणाऽऽसीद् बाहूबाहवि चाऽभवत् ॥३६॥ अनीकं प्रत्यनीकानामध्वन्यानां विधूय तत् । प्रत्यायाते स्वपादाते मन्त्रिणेति व्यतर्क्यत ॥३७॥ भिक्षात्ता हेतुनैतेन जाने नाऽनेन साधुना । अहो निपुणदृष्टत्वाद्धर्म्मस्य निरवद्यता ॥ ३८ ॥ सुपर्वपर्वतोऽद्रीणां कल्पद्रुर्भूरुहां यथा । धर्मस्तथैव धर्माणां जैन एको विराजते ॥३९॥ कस्मादकस्मादस्माकमत्राभ्यस्त इवाधुना । स्वसंवेदनसिद्धेयं प्रत्यभिज्ञाऽतिवल्गति ॥४०॥ इति चिन्तावशस्वान्तः शान्तः श्रद्धाविशुद्धधीः । व्रतं पूर्वभवाभ्यस्तं श्रुतं चाऽस्मरदुज्ज्वलम् ॥४१॥ देवतादत्तनेपथ्यो वारदत्तमुनीश्वरः । स्वयम्बुद्धत्वमध्यास्य सुंसुमारपुरं ययौ ॥४२॥ धुन्धुमारनृपस्तत्र तस्याऽङ्गारवती सुता । प्रव्राजिकां जिगायोच्चैर्धर्ममर्मविवादिनीम् ॥४३॥ तत्प्रद्वेषात्तया चित्रपटरूपोपढौकनात् । अनुरक्तीकृतश्चण्डप्रद्योतस्तामयाचत ॥४४॥ धुन्धुमारनृपः कन्यावरणार्थमुपागतम् । साक्षेपवादिनं दूतं गले धृत्वा निराकरोत् ॥४५॥ प्रद्योतः स्वयमागत्य चतुरङ्गबलान्वितः । रुषारुणोऽरुणत् क्षिप्रं सुंसुमारपुरेश्वरम् ॥४६॥ कृत्वा दुर्गबलं सोऽपि सावष्टम्भोऽल्पसाधनः । युयुत्सुरुत्सुकोऽपृच्छत् कञ्चिन्नैमित्तिकं कृती ॥४७॥ अधिवास्य निमित्तस्य देवतां सोऽपि तत्त्ववित् । खेलतः स्वेच्छया सायं त्रासयामास बालकान् ॥४८॥ आगुर्नागाssलये बाला रक्ष रक्षेति भाषिणः । आसीदुपाश्रये यत्र वारदत्तमुनीश्वरः ||४९|| त्रस्तास्ते बालकास्तेन मा भैष्टेत्यनुभाषिताः । तदुपश्रुत्य निश्चिक्ये भयं नेति निमित्तवित् ॥५०॥
६
5
15
20
१. रविद्यं L रविद्यां - D, K रविद्ये P | २. विद्यंते - A, H चिन्त्यते - L । ३. व्याजगाम - PI ४. जैवं - P, C, KH ५. स्वपादांते - C स्वपादानां - KH | ६. श्रान्त: L, P, D । ७. शुद्धा P, KH, DI ८. शुंशुमार - KH, C सिंशु... K, H, D शिशु... BI ९. धन्धु... D, K, B, KH
टि. 1. मत्तवारणं गवाक्षः, तत्रस्थः इत्यर्थः । 2. कुड्यमत्स्यः - गृहोलिका, 'गरोली' इति भाषायाम् । 3. प्रतिसूर्यशयानक :कृकलासः सरटः इति यावत्, 'कार्कीडो' इति भाषायाम् 4. अगारमृगः श्वानः । 5. पादातः - पदातिः । 6. सुपर्वपर्वतः-मेरुगिरिः ।