________________
२२४
[कर्णिकासमन्विता उपदेशमाला । गाथा-११३-११३] दत्तो भयादथ रयात् प्रणिपत्य सूरीन् , ऊरीचकार चरणौ शरणं तदीयौ । इत्थं सदाचरणजङ्गमकल्पवृक्षः; श्रीसङ्गमस्थविरसूरिरिति प्रसिद्धः ॥२०॥ [वसन्ततिलकावृत्तम्]
इति सङ्गमस्थविराचार्यकथानकम् ॥ एतच्च प्राक् 'वूढावासे वि ठिअं' इत्यादि गाथायामनूदितमेवेति । तदित्थं कारणे नित्यवासमनुज्ञाय 5 विपर्यये दोषमाह
एगंतनिअयवासी, घरसरणाईसु जइ ममत्तं पि ।
कह न पडिहिंति कलिकलुसरोसदोसाण आवाए ॥१११॥ एकान्तनियतवासिनो निष्कारणं सर्वदा एकत्र वसनशीलाः तथा गृहशरणादिषु गृहं सदनं, शरणं तदेकदेशः 'कूण' (खूणो) इति प्रसिद्धः, आदिशब्दात् तदनुगामिनां धनस्वजनादीनां ग्रहः, तेषु नित्य10 वासादास्तां स्वीकारो यदि ममत्वमपि ममीभावमपि ममेति निपातो मूर्छाकृतपरिग्रहस्वीकारवाची ।
तच्चेन्ममत्वं करिष्यन्तीत्यध्याहार्यम् । ततः कथं न पतिष्यन्ति कलिकलुषरोषदोषाणामापाते मीलकेऽपि तु पतिष्यन्त्येव । तत्र कलि:-कलहः, कलुष-कर्मबन्धजनितं पापं, रोषः-क्रोधः, दोषशब्देन शेषकषायाः सूच्यन्ते । भविष्यत्कालप्रयोगश्चाऽत्र उपदेष्टुर्धर्मदासगणेरपेक्षया पश्चात्कालभाविसाधूनामुपदेशार्थमिति ॥१११॥ कुत एवमित्याह
अविकत्तिऊण जीवे, कत्तो घरसरणगुत्तिसंठप्पं । __ अवि कत्तिया य तं तह, पडिया असंजयाण पहे ॥११२॥
अविकर्त्य जीवान् षड्विधान् खननच्छेदादिना विराधनामकृत्वा, कुतो गृह-शरणगुप्ति अगारतदेकदेशानां गुप्तिः पालनं वृतिप्राकारादिना, तत् संस्थाप्यं प्रतिविधेयम् ? अतोऽपि सम्भाव्यते-एतत्
कर्त्तित्वा छित्त्वा स्वयं चशब्दात्परेण कर्त्तयित्वा च, तं जीवषड्वर्गं, तथा पतिता असंयतानां पथि मार्गे, तया 20 वृत्त्या वेषस्याऽकिञ्चित्करत्वादिति ॥११२॥
आस्तां गृहस्थवद् वृत्तिर्गृहस्थसम्बन्धमात्रमपि यतेर्दोषायैवेत्याह
थेवोऽवि गिहिपसंगो जइणो सुद्धस्स पंकमावहइ ।
जह सो वारत्तरिसी, हसिओ पज्जोयनरवइणा ॥११३॥ स्तोकोऽपि गृहिप्रसङ्गो गृहस्थसंसर्गो, यतेः शुद्धस्य मुनेनिर्मलस्य, पकं मलम्, आवहति 25 प्रापयति, यथा स वारत्तऋषिर्हसितः प्रद्योतनरपतिना गृहस्थसंसर्गोत्थमालिन्यतः । तथाऽन्योऽपि हस्यत इत्युपनयः ॥११३॥ वारत्तर्षिकथा चैवम्
__[वारत्तर्षिकथानकम् ॥] दधार धारिणीजानिश्चम्पायां राज्यसम्पदम् । नृपतिर्नामधामभ्यां मित्रप्रभ इति श्रुतः ॥१॥
१. क्षण - A, K, P, C, H। २. नीलके - C, A, B मेलके - L। ३. शेषस्या...D, K वेष: स्यात् - P।
15