________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ११० ]
पूरणकथा अधः श्रीमहावीरचरिते चमरोत्पातप्रस्तावे उक्तैव ।
श्रीसर्वज्ञशासनस्थस्तु कारणादपवादपरोऽपि यतनापर आराधक एवेत्याहकारणनीयावासे, सुठुयरं उज्जमेण जइयव्वं ।
जह ते संगमथेरा, सपाडिहेरा तया आसि ॥ ११० ॥
२२३
कारणेन असमयजङ्घाबलविरहविहारयोग्यक्षेत्राभावादिना, नित्यवासे विभज्य नवधा क्षेत्रं, सुष्ठुतर- 5 मतिशयेनोद्यमेन यतितव्यं यतना कार्या, यथा एवं कुर्वन्तस्ते सङ्गमस्थविरा नाम आचार्याः सप्रातिहार्या देवतासम्पाद्यातिशयभाजस्तदासन्निति ॥ ११० ॥ अथ सङ्गमस्थविराचार्यकथा चेयम् । तथाहि
[ सङ्गमस्थविराचार्यकथानकम् ॥ ]
पुरे कदाचित् कोल्लाके वृद्धाः सङ्गमसूरयः । दुर्वर्षे व्यसृजन् गच्छमन्यतः श्रुतसूरयः ॥१॥ विभज्य नवधा क्षेत्रं स्वयं तत्रैव तु स्थिताः । तपोमाहात्म्यतस्तेषां सान्निध्यं देवताऽकरोत् ॥२॥ गच्छेन प्रेषितोऽन्येद्युस्तदुदन्तगवेषकः । क्रमात्तत्रैव शय्यायामेत्य दत्तोऽनमद् गुरुम् ॥३॥ दत्तेन चिन्तितं चित्ते यतनां वसतेरपि । न करोत्येष तन्नूनमवसन्नोऽभवद् गुरुः ||४|| मूढश्चित्ते विकल्प्येति पापसङ्कल्पसङ्कलः । अनात्मज्ञो मुनिमन्यस्तस्थौ पृथगुपाश्रये ॥५॥ अन्विष्य गुरुणाऽऽकार्याऽटितुं नीतः सहात्मना । पुरे भिक्षामनासाद्य सक्लिष्टोऽज्ञायि सूरिभिः ॥६॥ अथ कस्यचिदिभ्यस्य भवनेऽभ्येत्य सूरिभिः । बालको रेवतीग्रस्तो मा रोदीरित्यभाष्यत ॥७॥ बाले मुक्तेऽथ रेवत्या विरते रुदिताद् गुरुः । तन्मात्रा मोदकान् दत्तान् दत्तायैवाऽऽपयन् मुदे ॥८॥ तं प्रेष्योपाश्रये सूरिभिक्षां माधुकरीं स्वयम् । प्रान्तामपि समादायाऽपारयद्वसतौ गतः ॥९॥ सायमावश्यकेऽवोचदालोचनविधौ गुरुः । वत्स ! त्वं सम्यगालोच्य प्रतिक्रमणमातनु ॥१०॥ किमसम्यगिहास्तीति दत्तेनोक्ते जगौ गुरुः । धात्रीचिकित्सयोः पिण्डो भुक्तोऽद्याऽऽलोच्यतां स तत् ॥ ११ ॥ दत्तः प्रत्याह तुच्छेषु कुलेषु भ्रमितः पुरा । भिक्षां प्राप्याऽथ भुक्ते च दोष आरोपितो मयि ॥ १२॥ अहो मयि महान् स्नेहो मम नेहोचिता स्थितिः । एकाक्यैव गुरुः स्थित्वा नान्यं संसहतेऽधुना ॥ १३ ॥ युग्मम्॥ आसित्वाऽस्मिन् प्रतिक्रान्ते गतेऽथ निजमाश्रयम् । विचक्रेऽन्धतमो घोरं देवी सन्निहिता गुरोः || १४ || रक्षांसीवाथ पाथोदा वात्याऽऽवर्त्तविवर्त्तिनः । करकासायकासारं ववृषुस्तदुपाश्रये ॥१५॥
भीतोऽथ दत्तः पूत्कुर्वन्नाहूतो गुरुणाऽवदत् । कथं नश्यामि पश्यामि न किञ्चित्करवाणि किम् ? ॥१६॥ प्रदीप्याऽथ कराऽऽमर्शान्निजामेवाङ्गुलीं गुरुः । आलोकेनाऽमुना वत्साऽऽगच्छेत्याहूतवानयम् ॥१७॥ क्षुद्रः शठश्च किं सूरेर्दीपोऽप्यस्तीति चिन्तयन् । गुरुमूलं गतः साक्षाद् देव्याऽशास्यत स स्वयम् ॥१८॥ चित्ते तेवेयमतिदुर्मतिरीदृशी धिक्, मीमांसितुं तव गुरून्ननु कोऽधिकारः ? |
हित्वा गुरोर्गुणगणा न गुणेषु लीनः; साक्षात् कुलीन इति संविदितोऽसि सत्यम् ॥१९॥ [ वसन्ततिलकावृत्तम्]
१. वर्षम... P। २. बलेय - A बतेय - H, D, K, छतेय - L, B चतेय - KH, P
टि. 1. अवसन्न: - शिथिलः । 2. मेघाः । 3. करका (स्त्री) मेघोपलः, स एव सायकः बाणः, तस्याऽऽसारो वेगवान् वर्षः, तम् इत्यर्थः । 4. कुत्सिते लीनः कुलीनः इत्यर्थः ।
10
15
20
25