SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 [ कर्णिकासमन्विता उपदेशमाला । गाथा - १०९] मांसाहारमुचो धर्मरुचो निर्मत्सरा मिथः । नामी सामीप्यममुचन् मुनीन्दोस्तस्य शिष्यवत् ॥४५॥ तस्य प्राग्भवसम्बन्धी यतेर्जातिस्मरो मृगः । कोऽप्यतिक्षान्तिमापन्नः सदाऽऽसन्नचरोऽजनि ॥४६॥ आराध्याराध्य रामर्षिमयं बभ्राम हर्षितः । मृगो मृगयमाणोऽन्नधारिणः काष्ठहारिणः ॥४७॥ यदैक्षत तदैव द्रागेत्य ध्यानाचलं बलम् । भिक्षादातॄन् स पादाब्जलोलमौलिरजिज्ञपत् ॥४८॥ क्षणादभ्युज्झितध्यानरोधस्तदुपरोधत: । रामो जगाम भिक्षायै सदाग्रेसरतन्मृगः ॥ ४९ ॥ केऽप्येकदा ययुस्तत्र कान्तारे रथकारकाः । तरूनृजुतरान् सारान् शतशश्चिच्छिदुश्च ते ॥५०॥ स निरीक्ष्य कुरङ्गस्तान् सीरध्वजमजिज्ञपत् । सद्यस्तदुपरोधेन सोऽपि ध्यानमपारयत् ॥५१॥ स्थितेषु तेषु भोज्यार्थमथ मासिकपारणे । रामो भिक्षार्थमगमत् पुरोगमकुरङ्गकः ॥५२॥ तं वीक्ष्य विस्मितो दध्यावग्रणी रथकारिणाम् । अहो मुनिः कुतोऽमुत्र मरौ कल्पतरुर्यथा ॥५३॥ अहो महो महोदारमहो रूपमहो शमः । ममाद्य सफलैवाऽभूदेतेनातिथिना तिथिः ॥५४॥ इति चिन्तोत्थरोमाञ्चः पञ्चाङ्गस्पृष्टभूतलः । स ननाम च रामर्षि भिक्षामुपनिनाय च ॥५५॥ रामोऽपि दध्यौ श्राद्धोऽयमहो शुद्धाशयो महान् । भिक्षां दित्सति मे नाकफलकर्मनिबन्धनम् ॥५६॥ इति ध्यायन् सुधासिन्धुर्विश्वबन्धुरसौ बलः । स शरीरनिरीहोऽपि महर्षिर्भैक्ष्यमाददे ॥५७॥ ऊर्ध्वाननः पुनर्बाष्पप्लुतदृग्युगलो मृगः । रामं च रथकारं च निध्यायन् ध्यातवानिति ॥५८॥ अहो महर्षेः कारुण्यमहो पुण्यं वनच्छिदः । यदेषोऽङ्गाऽनपेक्षोऽपि भिक्षयाऽन्वग्रहीदमुम् ॥५९॥ नमोऽस्मै जितमेतेन पुण्यराशिर्महानयम् । भक्तात्मा भक्तपानैर्यस्तपोब्धि पर्यलाभयत् ॥६०॥ न दीक्षाग्रहणे साधुभिक्षादाने च न प्रभुः । एकोऽहं मन्दभाग्योऽस्मि धिङ् मां पशुतया हतम् ॥६१॥ इत्युद्भूतशुभध्यानाः पादपेन त्रयोऽपि ते । अर्द्धच्छिन्नेन वात्योर्मिपतितेन हता मृताः ॥६२॥ कामपालः पालयित्वा व्रतं वर्षशतं तदा । ताभ्यां युतो ययौ ब्रह्मलोके पद्मोत्तरालये ॥६३॥ इति बलदेवकथानकम् ॥ तदित्थं सद्गोचरमनुमोदनमपि महाफलमुदाहृतम् । सम्प्रति असद्विषयस्य महाकष्टानुष्ठानस्यापि अल्पफलमाह २२२ जं तं कयं पुरा पूरणेणं अइदुक्करं चिरं कालं । जड़ तं दयावरो इह, करेंतो तो सफलयं हुंतं ॥ १०९ ॥ यत्तत् कृतं कष्टानुष्ठानमिति शेषः, पुरा पूर्वं पूरणनाम्ना श्रेष्ठिना अतिदुष्करं चिरं कालं यदि तद्दयापरः सन्निह श्रीवीतरागशासनस्थितोऽकरिष्यत्ततः सफलमभविष्यत् मोक्षादिसाधकं सम्पद्येत इति ॥१०९॥ १. साधोभि - B, A, साधुभि - P | २. इत्यद्भुत....B, D, P, K, L। ३. ध्यानात् - KH | टि. 1. महस्-तेजः । 2. कामपालः - बलदेवः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy