________________
२२१
5
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१०८] सम्पत्त्यै च विपत्त्यै च कालः कालयति प्रजाः । मृषा हर्षविषादाभ्यां परः परवशो जनः ॥२१॥ येन कंस-जरासन्ध-शिशुपालादयो हताः । तदन्तकोऽपि तेनैव हतः कालेन तेऽनुजः ॥२२॥ प्रायः परोपदेशेषु पुरुषः पण्डितो न कः ? । स सुधी: परवत् पूर्वमात्मानमनुशास्ति यः ॥२३॥ यदुर्विपाकदृष्टान्ताद्वोध्याः पञ्चजनाः परे । तस्य स्वयं न चेद्बोधः कोऽधमस्तत्समस्ततः ॥२४॥ शोच्यं शोचतु नामासौ यः परेण न शोच्यते । शोचत्यासन्ननाशोऽपि सेयमन्धपरम्परा ॥२५॥ स्वजने मृत्युना छिन्ने क्लीबस्यैवोचिताः शुचः । धर्माऽभ्यासेन धीरस्तु तद्वधायैव धावति ॥२६॥ अर्हद्धर्मसुधाकुण्डे स्नातो जातोऽसि पावनः । मा विषादमिषादस्य निषादस्य वशो भव ॥२७॥ कर्माष्टव्यालकुलभूर्नाममन्त्रेऽपि नेमिनः । त्वां विषादविषावेगो बाधते साधु ते न तत् ॥२८॥ देवस्ते जिन एवास्तु गुरुश्चात्र जगद्गुरुः । क्षान्त्यादिर्दशधाभिन्नः सम्यग्धर्मोऽपि निर्मलः ॥२९॥ कृतशोकविरामश्च परामर्शेन तगिराम् । चारणर्षिगिरा रामः संयमारामतामधात् ॥३०॥ अथ तस्मिन् मुनौ याते तुङ्गिकाशिखरं गतः । सिद्धार्थकृतसान्निध्यस्तीव्र तेपे हली तपः ॥३१॥ रामः पुरे विशन् क्वापि कदाचिन्मासपारणे । कूपकण्ठस्थयाऽदर्शि स्त्रिया सार्भकयैकया ॥३२॥ बलं विलोकयन्त्याथ रूपमोहितया तया । स्थाने कुम्भस्य डिम्भस्य गले रज्जुरबध्यत ॥३३॥ तं कूपे क्षेप्तुकामेयं रामेण स्वयमैक्षि च । अचिन्ति चेदं धिग् धिग् मे रूपं पापनिबन्धनम् ॥३४॥ प्रवेक्ष्यामि क्वचिन्नाऽतः परं जातु पुरादिषु । भिक्षया पारयिष्यामि दारुहारिजनाद्वने ॥३५॥ प्रबोध्याऽथ पुरन्ध्रीं तां पुरं त्यक्त्वा वनं गतः । मासिकाद्यं तपः सीरी सुदुस्तपमतप्त च ॥३६॥ काष्ठादिहारिभिर्दत्तैः प्रासुकैरन्नपानकैः । स चकार तपोवृद्ध्यै पारणं प्राणधारणम् ॥३७॥ आचख्युस्तेऽपि काष्ठादिहतः स्वस्वमहीभृताम् । कश्चिन्नरश्चरन्नस्ति तपोऽरण्ये सुरोपमः ॥३८॥ तेऽपि भूपतयो दध्युः कोऽप्ययं तप्यते तपः । मन्त्रं जपति वाऽस्माकमाकाङ्क्षन् पदसम्पदम् ॥३९॥ तद् वध्योऽयं तप:सिद्धरर्वागित्यथ ते नृपाः । चमूभिर्युगपज्जग्मुः समीपं सीरिणो मुनेः ॥४०॥ नित्यं सन्निहितस्तस्य सिद्धार्थस्त्रिदशस्तदा । पार्वे सहस्रशः सिंहान् विचकार भयङ्करान् ॥४१॥ यथागतमथाऽगुस्ते भीत्वा नत्वा महामुनिम् । नृसिंह इति च ख्यातिधाम रामस्तदाद्यभूत् ॥४२॥ तपस्यतो वने तस्य मुनेर्धर्मोपदेशतः । व्याघ्रसिंहादयः शान्तिमासदन् वासनाभृतः ॥४३॥ श्राद्धतामाश्रयन् केऽपि भेजुर्भद्रकतां परे । इतरे प्रतिमां प्रापुरन्येऽप्यनशनं दधुः ॥४४॥
15
20
१. सम्पत्यैव विपत्त्यैव - B, A, H। २. कवलते भृशं - KH कलयति – K, B, D कणलयेत्प्रजा:-L कवलयष्यति - HI ३. सिन्धु - D, B, K। ४. भूतानां मन्त्रे...H, B, KH, A | ५. साधुतेनमत् - BI
टि. 1. प्रेरयति इत्यर्थः । 2. मृषा (अव्य०) - वृथा। 3. पञ्चजन:-पञ्चभिर्भूतैर्जन्यते इति, मनुष्यः इत्यर्थः। 4. मृत्योर्वधाय इत्यर्थः । 5. निषादः - चण्डालः । 6. क्रियाविशेषणम् इदम् ।