________________
२१८
[कर्णिकासमन्विता उपदेशमाला । गाथा-१०५] प्रतीतावारोपितैः प्रह्लादयन्निव मनो मनस्विनोऽपीति गम्यं, प्रशब्दस्य ह्लादनं प्रति प्रकर्षवाचित्वात् सत्यवचनैरिति ज्ञेयं, ह्लादमात्रस्याऽसत्यैरपि वाक्यैः सम्भवात् । यतः -
"सत्यं ब्रूयात्प्रियं ब्रूयात् न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः" ॥१॥[ ] इति ॥१०४॥ 5 येन च प्राणात्ययेऽपि प्रियमप्यसत्यं नोक्तम् , तं दृष्टान्तद्वारेण उपदिदिक्षुराह
जीयं काऊण पणं, तुरुमिणिदत्तस्स कालियज्जेण ।
अवि य सरीरं चत्तं, न य भणियमहम्मसंजुत्तं ॥१०५॥ जीवं जीवितं प्राणधारणं तम्, कृत्वा पणं मूल्यं प्राणितमपि व्ययनीयं विधायेत्यर्थः । तुरमिण्यां दत्तस्य राज्ञः पुर इति गम्यते, कालिकाचार्येण शरीरमपि त्यक्तं चशब्दात् स्वाभिप्रायेण, न पुनस्त्यक्तमेव, 10 न च भणितमधर्मसंयुक्तं पापसम्बद्धं वाक्यमितिशेषः इत्यक्षरार्थः ॥१०५॥ अथ कथा
[कालिकाचार्यकथानकम् ॥] तुरमिण्यां पुरि ख्यातः कालिकोऽभूद् द्विजोत्तमः । भद्रा सहोदरी तस्य स्वस्रीयो दत्त इत्यभूत् ॥१॥ कालिकाख्यः स सम्बुध्य वैराग्याद् व्रतमग्रहीत् । शास्तारं तं विना जज्ञे दत्तोऽत्यन्तं निरर्गलः ॥२॥
द्यूतमद्यप्रसक्तोऽसौ बहिर्ब्राह्मण्यतः स्थितः । अविचारश्च्युताचारोऽनैषीद्धर्ममधर्मताम् ॥३॥ 15 पुरि तत्रैव दुर्दैवात् जितशत्रुमहीपतेः । करुणाकणदुष्कालः सेवामेवाऽऽतनोदसौ ॥४॥
प्रापितः स प्रधानत्वमनीतिज्ञेन भूभुजा । पापस्तमेव निर्वास्य स्वयं राजा बभूव सः ॥५॥ दुर्वृत्तः प्लवगव्यालव्याघ्रमार्जारवह्निवत् । नोपकारैरपि ग्राह्यस्तद्वय॑ः प्रथमं बुधैः ॥६॥ ये कुलाचारतो भ्रष्टाः परलोकादभीरवः । तेषां कुर्वीत विश्वासं न कथञ्चन पापिनाम् ॥७॥
दत्त आदत्त राज्यं तत् प्रकृतीनां विभेदतः । स निलीय स्थितः क्वापि पापिनोऽस्य भिया नृपः ॥८॥ 20 राजचक्रं स चाक्रम्य दुर्दुरूटोऽतिकूटधीः । अविनीतः प्रकृत्याऽभूत् प्रकृतिद्वेषभाजनम् ॥९॥
चक्रे पशुवधप्रीत्या मखानेष निरन्तरम् । तथैव हर्षस्तस्याऽभूत् यथा पश्यति शोणितम् ॥१०॥ तत्राऽऽगात् कालिकाचार्यः श्रुतोपनिषदांनिधिः । भद्रानुरोधतस्तस्य निकटे कटुधीर्ययौ ॥११॥ तेन यज्ञफलं पृष्टो गुरुरादिष्टवानथ । धर्मात् त्रिविष्टपप्राप्तिरधर्मान्नरको ध्रुवः ॥१२॥
तद्भूयोऽप्यनुयुक्तोऽथ श्रुतज्ञानोपयोगतः । आदिदेश सदेशस्थो नरकस्तव तत्फलम् ॥१३॥ 25 प्रवेक्ष्यति यदाऽकस्माद् विष्टालेशस्तवानने । श्वानकुम्भ्यां तदा पाकान्निष्ठा ते सप्तमे दिने ॥१४॥
अथाऽऽह कुपितो मृत्युः स्यान्मातुल ! कुतस्तव । स्वेच्छयाऽहं व्रतं कृत्वा स्वर्यास्यामीति सोऽवदत् ॥१५॥ मुक्त्वा तस्याऽन्तिके योधान् सौधान्तस्थः स दुर्मतिः । सहाऽहा तेन सप्ताहमतिक्रम्याऽथ निर्ययौ ॥१६॥
१. दुर्दरूढो-P दुईरूढो-A, D, H मुर्द्धरूढो-C दुर्द्धरोप्यति-LI टि. 1. प्रजानाम् । 2. दुईरूट:-नास्तिकः । 3. सदेशस्थ:-समीपस्थः । 4. निष्ठा-अन्तः ।