________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १०३-१०४]
न चैकस्मिन्मया सद्यः श्वासं रुद्ध्वा विपादिते । प्राक् पश्चाच्च तुलाभेदः सदसज्जीवभूरभूत् ॥४६॥ गुरुरूचेऽथ नीरन्ध्रकुम्भिकान्तर्यदा नरः । शङ्खं वादयते शब्दः स बहिः श्रूयते कथम् ? ॥४७॥ अभिघात्याभिघातित्वे तस्मिँश्चाव्यभिचारिणी । न मूर्त्तत्वं विना तस्माद् द्रव्यस्कन्धात्मको ध्वनिः ॥४८॥ सौक्ष्म्यान्मूर्तोऽपि तच्छब्दः कुम्भीमध्याद्विनिःसरन् । अमूर्त्तस्यास्य जीवस्य सन्देहं न भिनत्ति किम् ? ॥४९॥ पिष्टस्यारणिकाष्ठस्य चूर्णे वह्निर्न वीक्षितः । स चास्त्येव यथा तत्र जीवोऽप्येवं विचिन्त्यताम् ॥५०॥ तौ च वायुना पूर्णे नाऽपूर्णेऽपि च भिद्यते । तुला तथैव जीवेऽपि नृप ! किं न विमृश्यते ॥५१॥ इत्थं विवर्त्तसूक्ष्माणां मूर्त्तानां विविधा गतिः । अमूर्त्तस्य स्वभावेन तद्वक्तव्यं किमात्मनः ॥५२॥ शक्तं सूक्ष्मं चिदात्मानमात्मानं कर्मवर्मितम् । निश्चित्येति महाराज ! कुरु धर्ममनातुरः ॥५३॥ क्रमागतामपि क्ष्माप ! त्यज नास्तिकतामतिम् । किं दरिद्रतया श्रेयः ? श्रियं संश्रय सन्मुखीम् ॥५४॥ निद्रां मुक्त्वाऽथ मिथ्यात्वमय बोधोदयादयम् । धर्मगुरोः प्रसादेन द्वादशात्मानमाप सः ॥५५॥ राजा दृढव्रतो धर्मं पालयन् गृहमेधिनाम् । चिराद्वैराग्यमापैष विषयेषु विषेष्विव ॥५६॥ सूर्यकान्ता तु तद्भार्या पुरुषान्तररागिणी । ददौ विषं विरक्ताऽस्मै किल पौषधपारणे ॥५७॥ ज्ञात्वापि वेदनार्त्तस्तत्तत्राऽद्विष्टमनोगतिः । कृतपञ्चनमस्कारः स्वयमारोपितव्रतः ॥५८॥
I
स्मृत्वा हृदि गुरोः पादानादाय स्वधिया धृतिम् । सौधर्मकल्पे सूर्याभविमाने विबुधोऽभवत् ॥५९॥ युग्मम् ॥ देवः स एष सूर्याभश्चतुष्पल्योपमस्थितिः । ततश्च्युतो विदेहेषु सिद्धिं यास्यति शुद्धधीः ॥६०॥ इति केशि-प्रदेशिकथानकम् ॥
एतदेवाह—
नरयगइगमणपsिहत्थए कए तह पएसिणा रन्ना । अमरविमाणं पत्तं, तं आयरियप्पभावेणं ॥१०३॥
२१७
तदेवं गुरुराराधनीय एवेत्युक्तम् । अथ गुरुणाऽपि शिष्यः सम्यगनुशासनीय इत्याह
धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणी हिं ।
पल्हायंतो व्व मणं, सीसं चोएइ आयरिओ ॥ १०४ ॥
5
10
नरकगतिगमन परिहस्थके देशीवचनात् अधोगतिप्रस्थानदक्षे कृते निर्वर्तिते कर्मणीति गम्यं तथा 20 प्रदेशिना राज्ञा अमरविमानं प्राप्तं तदाचार्यप्रभावेन गुरुप्रसादेनेति ॥१०३॥
१. एव - KH, B । २. निवृत्तै.... B, KH, P, C
टि. 1. विवर्त्तः - विकारः तेन हेतुभूतेन सूक्ष्मः तेषाम् । 2. द्वादशात्मा-सूर्यः, भावप्रधाननिर्देशत्वात् सूर्यत्वमाप इत्यर्थः ।
15
धर्ममयैर्निरवद्यत्वात् धर्मनिर्वृत्तैर्वचनैरिति विशेष्यं गम्यं तथा अतिसुन्दरैर्वाक्यदोषरहितैस्तथा कारणं 25 स्वस्य भणनप्रयोजनं हितत्वादि गुणाः शिष्यमाणस्य ज्ञानभाजनतादयः, ताभ्यामुपनीतैरुपढौकितैः शिष्य