________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-१०२]
२१५ आचार्या गुरवः स्फुटमेतन्निःसन्दिग्धमिदम् । अत्राऽर्थे केशिनामा गणधरः प्रदेशिनामा च राजा शिष्यः तावुभावपि हेतुः हेतुरिह दृष्टान्तः, यदुक्तं न्यायभाष्ये-'उदाहरणसाधात् साध्यसाधनं हेतु रिति सक्षेपार्थः ॥१०२॥ अथ विस्तरार्थः कथया कथ्यते तथाहि
[केशि-प्रदेशिकथानकम् ॥] पुर्यामामलकल्पायां सूर्याभोऽभ्येत्य निर्जरः । नत्वा समवसृत्यन्तः श्रीवीराय व्यजिज्ञपत् ॥१॥ गौतमादिमहर्षीणां दर्शयिष्येऽद्य भक्तितः । दिव्यं नाट्यविधि शुद्धमनुजानीहि मां प्रभो ! ॥२॥ विज्ञप्तस्त्रिरिति स्वामी सूर्याभेन महर्चिना । नाऽऽदिदेश जिनः किञ्चिन्न च प्रत्यादिदेश तम् ॥३॥ ऐशान्यामथ पीठस्थः सव्यासव्यभुजद्वयात् । विचक्रेऽष्टशतं देवो देवानप्सरसस्तथा ॥४॥ अथ मत्र्येष्वसम्भाव्यं दिव्यं दिव्यद्धिवर्द्धितम् । स द्वात्रिंशद्विधं नाट्यं संदर्य स्वर्ययौ पुनः ॥५॥ श्रीवीरं गौतमोऽपृच्छत् कोऽयं ? बोधिः कुतोऽस्य वा । धर्येण कर्मणा केन ऋद्धिरस्याथवेदृशी ॥६॥ 10 अथाऽऽह श्रीमहावीरः शृणु गौतम ! कौतुकम् । यदेष नरकस्थाने विमाने वासमासदत् ॥७॥ तथाहि श्वेतवीपूर्यां प्रदेशीत्यभवन्नृपः । प्रिया च सूर्यकान्ताऽस्य सूर्यकान्तश्च नन्दनः ॥८॥ तस्यालद्ध्यवचश्चित्रो राजकार्यात्कदाचन । श्रावस्त्यां सचिवोऽयासीज्जितशत्रुनृपान्तिके ॥९॥ सोऽपश्यत् केशिनं तत्र श्रीपार्श्वगणधारिणम् । तं चतुर्ज्ञानमानम्य गृहिधर्मं प्रपन्नवान् ॥१०॥ श्वेतव्यां नेतुमाचार्य: केशी चित्रेण मन्त्रिणा । स्वभूभुजः प्रबोधाय विज्ञप्तस्तमथादिशत् ॥११॥
15 इहलोकैकधीः क्रूर: परलोकपराङ्मुखः । साहसैकरसश्चण्ड: स कथं बोधमर्हति ॥१२॥ ऊचेऽत्र चित्रः सन्त्यन्ये धनिनो ये तपोभृताम् । सदा सत्कारसन्मानदानप्रणयपेशलाः ॥१३॥ भर्त्तस्तत्र विहारेण प्रसीदानुगृहाण तान् । वर्तमानेन योगेन मेने तद्वचनं मुनिः ॥१४॥ अथो यथोक्तया साधुचर्यया विहरन् गुरुः । श्वेतवीं स पुरीं प्राप्तः पुण्योद्याने बहिः स्थितः ॥१५॥ नियुक्तैस्तच्च विज्ञप्तं श्रुत्वा चित्रः प्रमोदवान् । तत्रस्थ एव तं नत्वा चित्ते चिन्तितवानिदम् ॥१६॥ अयं चेन्नरकं गन्ता प्रभुर्मय्यपि मन्त्रिणि । ततः स्वामिप्रसादानामहं स्यामनृणः कथम् ? ॥१७॥ ततः केनाप्युपायेन गुरुमेनं नयाम्यहम् । प्रतिकर्ता रुजां वैद्यो गुरुर्दुष्कर्मणां पुनः ॥१८॥ वाहवाहनिकाव्याजात्तत्र निन्ये स भूपतिम् । यत्र पर्षद्गतो धर्मं सतामाचष्ट सद्गुरुः ॥१९॥ विश्रामकामस्तत्पार्श्वद्रुमच्छायामुपेत्य सः । चित्रमाह व्यथार्त्तः किं रारटीति यदित्यसौ ॥२०॥ न ज्ञायतेऽन्तिके गत्वा श्रुत्वा निश्चीयतां ततः । तेनेति प्रेरितो राजा सूरेः शुश्राव देशनाम् ॥२१॥ गिरेः शृङ्ग इवोत्तुङ्गे मर्त्यत्वेऽपि प्रमादिनः । उत्पथस्थास्थ भो ! भव्याः ! पित्सवः किं भवावटे ? ॥२२॥
१. द्यानब - C । २. गुरुं येन - P, C, KH, B । ३. तद्गुरुः - P। टि. 1. समवसरणमध्ये । 2. उत्पथस्थास्स्थ इत्यस्य [व्यत्यये लुग वा] १३५६...सूत्रेण मध्यसकारस्य लोपः ।
25