________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-१००]
२१३ भूयो विनेयानाहूयोवाच वाचमिमामथ । जिनोऽहं नैव सत्येन श्रीवीरो भगवान् जिनः ॥३९॥ सोऽसत्प्रलापी पापीयान् साधुघातीति वादिनः । शुम्बन मां पदोर्बद्ध्वा मध्ये श्रावस्ति कर्षत ॥४०॥ इहाऽर्थे शपथैर्बद्ध्वा विनेयानिति नीतिमान् । उत्पेदे द्वादशे कल्पे गोशालः क्षालिताशयः ॥४१॥ व्यसौ तत्र वसत्यन्तः शिष्यैरालिख्य तां पुरम् । द्वारं पिधाय तत् गुप्तं गुरोरुक्तमकारि तैः ॥४२॥ मृतकस्य क्रिया दिः प्रकाशमखिलाऽपि तैः । आत्मभक्तेः समुचिता रचिता नु चितावधिः ॥४३॥ 5 विहृत्य मेण्ठकग्रामे स्थितश्चैत्येऽथ कोष्ठके । गौतमेन गुरुः पृष्टः समाचष्टेति तद्गतिम् ॥४४॥ सर्वाणश्च सुनक्षत्रमहर्षिश्च दिवश्च्युतौ । अवतीर्य विदेहेषु महानन्दं गमिष्यतः ॥४५॥ गोशालोऽप्यात्मपापानि निन्दित्वाऽन्तेऽच्युतेऽगमत् । विद्भिस्तथा गति गीता जन्तोरन्ते यथा मतिः ॥४६॥ प्रागनन्तभवाभ्यासाद्धर्मस्याऽऽशातनापरः । नापरः कश्चिदप्यस्ति प्रायो गोशालसन्निभः ॥४७॥ च्युतोऽच्युताच्च भरतेऽत्रैव विन्ध्याद्रिसन्निधौ । पुण्द्देशे शतद्वारपुरे संमुचिभूपतेः ॥४८॥ भद्राकुक्षिभवः पुत्रो महापद्मोऽभिधानतः । क्रमाद्दासीकृतासीमनृपः स भविता नृपः ॥४९॥ पूर्णभद्र-माणिभद्रयक्षसेनौघसन्निधेः । आख्यास्यन्ति प्रजा देवसेनमेनं महोत्कटम् ॥५०॥ चतुर्दन्तं गजं शुभ्रमभ्रमू(मु)वल्लभोपमम् । प्राप्यारूढश्च विमलवाहनाख्यां स लप्स्यते ॥५१॥ प्राक्संस्कारवशाविष्टः प्रद्विष्टः श्रमणेषु सः । विधाता विविधां बाधां वृद्धवाक्यानधीनधीः ॥५२॥ रथारूढोऽन्यदोद्याने त्रिज्ञानं मुनिपुङ्गवम् । आतापिनं कृतोत्सर्ग स द्रक्ष्यति सुमङ्गलम् ॥५३॥ कुद्धो मुनि रथाग्रेण हत्वा तं पातयिष्यति । उत्थायावस्थितं भूयस्त्रिस्तथैव स दुष्टधीः ॥५४॥ अथोपयोगादवधेत्विा गोशालकं च तम् । सुमङ्गलो जगादैवं स्मारयन्मङ्खपुत्रताम् ॥५५॥ नाऽसि रे ! देवसेनस्त्वं न वा विमलवाहनः । प्रत्यनीकोऽसि गोशाल ! महापद्मोऽपि नासि रे ॥५६॥ धिक्त्वामाशातितो येन धर्माचार्यो जिनोत्तमः । दुष्ट ! प्लुष्टश्च सर्वाणः सुनक्षत्रश्च स त्वया ॥५७॥ तेषामेव स्मरेः क्षान्तमरे जीवसि नाधुना । स्वतेजोलेश्ययेत्युक्त्वा धक्ष्यति क्षितिपं स तम् ॥५८॥ 20 श्रामण्यमनुपाल्यान्ते मुनिः सर्वार्थमेष्यति । ततश्च्युतो विदेहेषु भूत्वा मोक्षमवाप्स्यति ॥५९॥ श्रीसङ्घप्रत्यनीकानां धार्मिकेषु दुरात्मनाम् । वधोऽपि न वधः पुण्यमनुबध्नात्यसौ यतः ॥६०॥ सप्तम्याद्यासु पृथ्वीषु द्विर्द्विस्तिर्यक्षु लक्षशः । उत्पत्स्यते स सर्वत्र मङ्खो दाहाद्विपत्स्यते ॥६१॥ भवान् दुःखप्रदान् भूरीन् भ्रान्त्वानन्तमनेहसम् । उत्पत्स्यते स पापात्मा वेश्या राजगृहाद्वहिः ॥६२॥
15
१. नमुचि - KHI __टि. 1. शुम्बं-रज्जुः । 2. विगता असवः प्राणा: यस्मात्-व्यसुः तस्मिन् । 3. पूर्णभद्रमाणिभद्रयक्षाणां देवानां सेनायाः सान्निध्या हेतोः देवसेनः इत्याख्या इत्यर्थः । 4. अभ्रमः ऐरावणहस्तिन:स्त्री, तस्याः वल्लभः=अभ्रमुवल्लभ:-ऐरावणहस्ती 6. अनेहस्-कालः ।